तात्पर्यम्
तात्पर्यम्
उपाधिकृतभेदेऽप्युपाधेर्मिथ्यात्वे त्वप्राप्तमेवोपाधिभेदं प्रापयित्वा पुनर्निषिध्यत इति स एव दोषः । सत्योपाधिपक्षेऽपि हस्तपादाद्युपाधिभेदेऽपि भोक्तुरेकत्वदृष्टे रेकेनैवेश्वरेण सर्वोपाधिगतं सुखं दुःखं भुज्येतेत्येवमादयो दोषाः समा एव । अचेतनानामनुभवाभावान्न तत्साम्यम् । अतो जीवेश्वरयोर्भेद एवेति सिद्धम् ।। १८ ।।
प्रकाशिका
ननु निर्विशेषे ब्रह्मणि नाविद्यमानविशेषबोधको वेदः । येनाप्रमाणं भवेत् । किंतु उपाधिकृतधर्मबोधक इत्यत आह ।। उपाधिकृतेति ।। स एव दोष इत्यस्योन्मत्तवाक्यत्वं दोष इत्यर्थः ।। दोषाः समा एवेत्यस्यात्मनो मिथ्यात्वोपाधिकृतभेदपक्षे भवन्तीत्यर्थः ।
नन्वेकत्वे आकाशस्यापि गृहाकाशादिगतं धूमशबलादिकं यथा नानुसन्धत्ते एवमेकत्वेऽप्यात्मनो देवदत्तगतसुखादिकं यज्ञदत्तो नानुसन्धत्तामित्याशङ्क्याह ।। अचेतनानामिति ।। विचारितार्थमुपसंहरति ।। अत इति ।। १८ ।।
न्यायदीपिका
न सार्वज्ञादिविशेषा असंतो येन श्रुतेरप्रामाण्यं स्यात् । नापि शुद्धं लक्ष्यं वा ज्ञानस्वरूपं श्रुतिवेद्यमित्युच्यते । येनोक्तदोषः स्यात् । किं नामैकस्मिन्नेवात्मनि उपाधिभेदभिन्ने तन्निमित्तसार्वज्ञादिविशेषाश्च भवन्ति । तदुपाधिभेदभिन्नमौपाधिकविशेषविशिष्टस्वरूपं श्रुतिप्रतिपाद्यमिति चेत् किमसावुपाधिर्मिथ्या सत्यो वा । आद्ये दोषमाह ।। उपाधीति ।। उपाधिकृत एवात्मनि भेदो विशेषाश्चेत्यङ्गीकृत्योपाधे र्मिथ्यात्वङ्गीकारे तद्भिन्नस्वरूपस्य तन्निमित्त विशेषाणां च मिथ्यात्वं स्यात् । तथा च तदभिधायकश्रुतेरप्रामाण्यं स्यात् । नेह नानेत्यादौ निषेधाय मिथ्याभूतमपि तदुच्यते श्रुताविति चेतर्हि स्वयमेव मिथ्याभूतमुपाधिभेदभिन्नस्वरूपं तन्निमित्तविशेषांश्च विधाय पुनस्तन्निषधे श्रुतेरुन्मत्तवाक्यत्वमेव स्यात् । निषेधाय तदनूद्यत इति चेन्न । उपाधिभेदभिन्नस्वरूपस्य तन्निमित्तविशेषाणां च प्रत्यक्षाद्यप्राप्तत्वेनानुवादानुपपत्तेरिति भावः । द्वितीयं दूषयति ।। सत्येति ।। यद्यप्यत्रापसिद्धान्तो वक्तुं शक्यः । तथापि तस्यातिस्फुटत्वेन दोषान्तरमेवोक्तम् । ब्रह्मातिरिक्तस्य सत्यत्वमङ्गीकृत्यापि ब्रह्मण्युपाधिभेदमङ्गीकुर्वतां दूषणाय च । आदिपदेनोपाधेरप्येकदेशसम्बन्ध इत्यादिवक्ष्यमाणसङ्ग्रहः । सत्योपाधिपक्षेपि दोषाः समा इत्यनेन मिथ्योपाधिपक्षेप्येते भवन्तीति सूचयति ।
नन्वेकत्वेप्याकाशस्य यथा महानसाकाशगतधूमानुभवस्तस्यैव न सर्वाकाशस्योपाधिभेदात् । तथात्रापि स्यादित्यत आह ।। अचेतनानामिति ।। किं महानसाकाशवत्वेपि धूमस्य सर्वाकाशसम्बन्धाभाववद्दुःखाश्रयत्वाभावोस्त्वित्युच्यते उत तदनुभवाभाववदनुभवाभावः । नाद्यः । अस्माकमनिष्टाभावात् । न द्वितीयः । आकाशस्याचेतनत्वेनानुभवप्राप्तेरेवाभावेन दृष्टान्तवैषम्यादिति भावः । अयं चाभ्युपगमवादः । आकाशस्यान्तर्भेदवत्त्वात् । उपसंहरति ।। अत इति ।।१८।।
किरणावली
शङ्कते ।। न सार्वज्ञादीति ।। उक्तदोष इति ।। शास्त्रवैयर्थ्यरूप उक्तदोष इत्यर्थः ।। उपाधिभेदभिन्न इति ।। मायाख्योपाधिविशेषभिन्न इत्यर्थः । उक्तं च मायामयसार्वज्ञ सर्वैश्वर्याद्युपपत्तौ वियदादेर्विश्वस्य कर्ता स्थापकः संहर्ताचेति । यद्वा सच्छक्तिचिच्छक्ति लक्षणोपाधिभेदभिन्ने चिच्छक्तया सार्वज्ञसिसृक्षुत्वादिविशेषाः सच्छक्तया जगत्सर्जनादि विशेषाश्चेत्यर्थः । तदप्युक्तं ब्रह्मसच्चिच्छक्तियोगाद्द्विविधं सच्छक्तिकं जगदुपादानादिकारणं भवति । चिच्छक्तिकं त्वनाद्यन्तः करणोपाधिपरिच्छिन्नं जीवेश्वरभावमापद्यत इति । एवं संकरभास्करोभयमतपरिग्रहायोपाधिभेदभिन्न इति सामान्येनोक्तम् । उपाधेर्मिथ्यात्वे स एव दोष इत्यस्य मिथ्याविशेषोक्तौ चा प्रामाण्यं श्रुतेरित्युक्त एव दोष इत्यर्थमुक्त्वा तन्निषेधे कथं श्रुतेरुन्मत्तवाक्यत्वं न स्यादित्युक्तः स एव दोष इत्यर्थान्तरं विवक्षुराशङ्कते ।। नेहनानेति ।। अविद्यमानमेवेश्वरं सृष्ट्यादिकं चाप्राप्तमेव प्रापयित्वेति यः प्रागुक्त स एव दोष इत्यपि व्याख्यातुमाशङ्क्य निषेधति ।। निषेधायेति ।। निषेधायविधाने खलून्मत्तवाक्यत्वमनुवादे तु न दोष इति भावः ।।
अपसिद्धान्त इति ।। संकरपक्षेऽपसिद्धान्त इति द्रष्टव्यम् । अङ्गीकुर्वतां भास्करादीनांदूषणाय च दोषान्तरमित्यर्थः ।। इत्यादिवक्ष्यमाणेति ।। एकादशाध्याये वक्ष्यमाणेत्यर्थः ।। मिथ्योपाधिपक्षेप्येतेभवन्तीति सूचयतीति ।। ननूपाधिखण्डनटीकायां ये तु मिथ्योपाधिनिमित्तो भेदभ्रम इति वदन्ति तेषां दुःखादीनामपि मिथ्यात्वात्काल्पनिकी व्यवस्था घटेतापीत्युक्तत्वाद्विरोध इति चेन्न । यथा न घटना तथोपपादनपूर्वकं तद्वाक्यस्याभ्युपगमवादपरत्वेन मन्दारमञ्जर्यां निपुणतरं व्युत्पादितत्वात् ।। अस्माकमनिष्टाभावादिति ।। अस्माभिश्चैतन्यैक्येंशिनो दुःखाद्यनुसन्धानमात्रमापादयद्भिर्दुःखकारणाहि कण्टकादि सम्बन्धात् तत्तच्छरीराख्योपाध्यवच्छिन्नान्तःकरणस्य दुःखात्मना परिणामेन दुःखसम्बन्धस्य तत्रैवाङ्गीकारादंशिनो दुःखाश्रयत्वाभावादिति भावः ।
ननु छान्दोग्यभाष्ये
यस्तु भिन्नः स्वतः खादिस्तस्य भेदो ह्यबुद्धिनाम् ।
उपाधिभिर्ज्ञाप्य एव न तु भेदं स्वयं सृजेत् ।
आकाशा अप्यतस्त्वेते विभिन्ना अप्कणादिवत् ।
इत्युक्तत्वात् । पटांशेषु विद्यमानभेदस्य महारजनाद्युपाधिभिरिवभूताकाशांशेषु विद्यमानभेदस्यैव महानसघटादिभिर्ज्ञापनसम्भवाच्चात्र कथमत्यन्ताभेदस्याङ्गीकारः । कथं च भेदस्योपाधिकृतत्वाङ्गीकारश्चेत्यत आह ।। अयंचाभ्युपगमवाद इति ।। आकाशस्य भूताकाशस्यान्तर्भेदवत्त्वादित्यर्थः । उक्तं च न्यायावल्यामुपाधि खण्डनटीकायां श्रीपद्मनाभतीर्थभट्टारकैः । महाकाशमहानसाद्याकाशानां स्वभावत एव परस्परं भिन्नत्वादिति । यद्यत्राकाशपदेन पूर्वपक्षिणोऽव्याकृताकाशो विवक्षितस्तदायमर्थः ।
ननु अव्याकृताकाशानां परस्परमंशिनाच निर्विशेषात्यन्ताभेदेपि उपाधिकृतभेदात् तदवच्छिनस्यैव न सर्वाकाशस्य धूमाद्यनुभवः । तथा जीवब्रह्मचितो निर्विशेषात्यन्ता भेदेपि उपाधिकृतभेदात् । तदवच्छिन्नस्यैव दुःखाद्यनुभवो नानवच्छिन्नस्येति चोदनायामाकाशस्याचेतनत्वेनानुभवप्राप्तेरेवाभावेन दृष्टान्त दार्ष्टान्तिकयोर्वैषम्यमिति कथनमयुक्तम् । किं त्वव्याकृताकाशांशानां निर्विशेषात्यन्ताभेदाभावाद्देशविशेषाणां चोपाधिज्ञाप्यत्वेनोपाधिकृतत्वा भावाच्चेत्येव वक्तव्यमित्यत आह ।। अयंचेति ।। निर्विशेषात्यन्ताभेदे उपाधिकृतभेदे च दूषणमनुक्त्वाऽचेतनत्वेनानुभवो नास्तीत्युक्तदोषस्तु आकाशस्य निर्विशेषात्यन्ताभेदमुपाधिकृतभेदं च परोक्तमभ्युगम्य प्रवृत्त इत्यर्थः । स्वसिद्धान्त एव किं न स्यादित्यत आह ।। आकाशस्येति ।। स्वाभाविकस्वान्तरनन्तप्रदेशविशेषवत्त्वादित्यर्थः । तदुक्तं खेपि देशान्तरस्य सः । ज्ञापको विद्यमानस्येति । तट्टीकायां च । यदाकाशभेदो नास्तीति सिद्धान्तः तदान्तरशब्दोविशेषवचन इति । अत्र यद्वक्तव्यं तदन्यत्र निरूपितं बोध्यम् ।। १८ ।।
भावप्रकाशः
स एव दोष इत्यनेनाप्रामाण्यश्रुतेरित्युक्तस्य परामर्श इत्याह । तथा च तदभिधायकेति । इदानीं कथं श्रुतिरुन्मत्तवाक्यत्वं न स्यादित्युक्तपरामर्शक इति प्रकारान्तरेण व्याचष्टे । तर्हि स्वयमेवेति ।। इदानीमनुवादोऽपि वाक्यसूचितदूषणपरामर्शकत्वेनापि व्याचष्टे । उपाधिभेदभिन्नेति । उपाधिभेदमङ्गीकुर्वतां प्राभाकराणामित्यर्थः ।। वक्ष्यमाणेति ।
उपाधिरप्येकदेशसम्बन्धः सन्तमेवहि ।
ज्ञापयेत् भेदमतुलं ग्रसन्स विभजेत्कथम् ।
इत्येकादशाध्याये वक्ष्यमाणसंग्रह इत्यर्थः । अस्माकमनिष्टाभावादिति ।
अस्माभिः सर्वेषां दुःखानुसन्धानस्यापादितत्वेन दुःखसम्बन्धस्यानापादनादिति भावः ।। नन्वाकाशस्यैवोपाधिक भेदमङ्गीकृत्य तत्प्रयुक्तदूषणमात्रपरिहारे खेऽपि देशान्तरस्य सः ज्ञापको विद्यमानस्य चेत्युक्तविरोध इत्यत आह । अयं चाभ्युपगमवाद इति ।। अन्तर्भेदत्वादिति । अन्तर्विशेषत्वादित्यर्थः ।। यथोक्तं टीकाकारैः – यदाकाशे भेदो नास्तीति सिद्धान्तः तदाऽन्तरशब्दो विशेषवचन इति ।। १८ ।।
वाक्यविवेकः
उक्तदोषः स्यादिति । श्रुतिवैयर्थ्यलक्षणो दोषः स्यादित्यर्थः ।। अस्मिन् मूले उपाधिकृतभेदेऽपि उपाधेर्मिथ्यात्वे तु स एव दोष इत्येकं वाक्यं अप्राप्तमेव उपाधिभेदं प्रापयित्वा पुनर्निषिध्यत इत्यपरं वाक्यमित्यभिप्रेत्य आद्य वाक्यस्य अर्थमाह । उपाधिकृत एवेति । द्वितीय वाक्यमवतारयति । नेह नानेत्यादाविति । निषेधाय तदनूद्यत इति । वदत्येव न विधत्ते अतो नोन्मत्तवाक्यत्वं श्रुतेरिति भावः । मिथ्योपाधिपक्षेऽपीति । उपाधिमिथ्यात्वपक्षेऽपि ईश्वरस्य सर्वशरीरगतदुःखादिभोगप्रसङ्गः । तथा उपाधेरेकदेशसम्बन्धो भेद उत सर्वदेशसम्बन्ध इत्यादयो दोषाः वतन्त इति सूचयतीत्यर्थः । धूमभावस्तस्यैवेति । धूमस्य भावः सत्वम् । धूमत्वमिति यावत् ।। १८ ।।