गीता

अनन्तरूपगोपनेन पूर्वरूपप्रकाशनम्

गीता

किरीटिनं गदिनं चक्रहस्त

  मिच्छामि त्वां द्रष्टुमहं तथैव ।

तेनैव रूपेण चतुर्भुजेन

  सहस्रबाहो भव विश्वमूर्ते ।। ४६ ।।

तात्पर्यम्

तेनैव रूपेण भवेति अनन्तरूपगोपनेन तदेव प्रकाशयेत्यर्थः । ‘पञ्चाननं चिन्त्यमचिन्त्यरूपं पद्मासनं गोपितविश्वरूपम्’ इति हि वैहायससंहितायाम् ।। ४६ ।।

प्रकाशिका

‘‘तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते’’ इत्यस्यार्थमाह ।। तेनैवेति ।। ४६ ।।

न्यायदीपिका

तेनैव रूपेण भवेत्यर्जुनप्रार्थनावाक्ये विश्वरूपं विहाय पूर्वतनं गृहाणेत्युच्यत इत्यन्यथाप्रतीतिनिरासायाह ।। तेनैवेति ।। यदा रूपान्तरं प्रतीयते तदा विश्वरूपत्याग एव किं न स्यात् । किं तद्गोपनेनेत्यत आह ।। पञ्चाननमिति ।। नरसिंहरूपेऽपि गोपितविश्वरूपत्वोक्तेर्न रूपान्तरप्रतीतौ विश्वरूपत्याग इति भावः ।। ४६ ।।

किरणावली

अनन्तरूपगोपनेन तदेव प्रकाशयेति मूलस्यानन्तरूपसंस्थानात्मकव्याप्तरूपगोपनेनेत्यर्थः ।। ४६ ।।