गीता

गीता

नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते ।

स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ।। ४० ।।

व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन ।

बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ।। ४१ ।।

तात्पर्यम्

प्रारम्भमात्रमिच्छा वा विष्णुधर्मे न निष्फला ।

 न चान्यधर्माकरणाद्दोषवान्विष्णुधर्मकृत्’ इत्याग्नेये ।

स्वोचितेनैव धर्मेण विष्णुपूजामृते क्वचित् ।

 नाप्रवृत्तिः प्रवृत्तिर्वा यत्र धर्मः स वैष्णवः ।

 एनं धर्मं च देवाद्या वर्तन्ते सात्त्विका जनाः ।

 एष कार्तयुगो धर्मः पाञ्चरात्रश्च वैदिकः ।

 तत्प्रीत्यर्थं विनाऽन्यस्मै नोदबिन्दुं न तण्डुलम् ।

 दद्यान्निराशीश्च सदा भवेद्भक्तश्च केशवे ।

 नैतत्समेऽधिके वाऽपि कुर्याच्छङ्कामपि क्वचित् ।

 जानीयात्तदधीनं च सर्वं तत्तत्त्ववित्सदा ।

 यथाक्रमं तु देवानां तारतम्यविदेव च ।

 एष भागवतो मुख्यस्त्रेतादिषु विशेषतः ।

 एष धर्मोऽतिफलदो विशेषेण पुनः कलौ ।

 एवं भागवतो यस्तु स एव हि विमुच्यते ।

 त्रैविद्यस्त्वपरो धर्मो नानादैवतपूजनम् ।

 तत्रापि विष्णुर्ज्ञातव्यः सर्वेभ्योऽभ्यधिको गुणैः ।

 समर्पयति यज्ञाद्यमन्ततस्त्वेव विष्णवे ।

 त्रैविद्यधर्मा पुरुषः स्वर्गं भुक्त्वा निवर्तते ।

 पुनः कुर्यात्पुनः स्वर्गं याति यावद्धरेर्वशे ।

 सर्वान्देवान्प्रविज्ञाय तत्कर्मैव सदा भवेत् ।

 सम्यक्त्वापरिज्ञानादन्यकर्मकृतेरपि ।

 स्वर्गादिप्रार्थनाच्चैव रागादेश्चापरिक्षयात् ।

 सदा विष्णोरस्मरणात्त्त्रैविद्यो नाप्नुयात्परम् ।

 क्रमेण मुच्यते विष्णौ कर्माण्यन्ते समर्पयन् ।

 यदि सर्वाणि नियमाज्जन्मभिर्बहुभिः शुभैः ।

 परं विष्णुं न यो वेत्ति कुर्वाणोऽपि त्रयीक्रियाः ।

 नासौ त्रैविद्य इत्युक्तो वेदवादी स उच्यते ।

 वादो विवादः सम्प्रोक्तो वादो वचनमेव च ।

 वेदोक्ते विष्णुमाहात्म्ये विवादात्पठनादपि ।

 अथवा निरर्थकात्पाठाद्वेदवादी स उच्यते ।

 वेदवादरतो न स्यान्न पाषण्डी न हैतुकी ।

 तेभ्यो याति तमो पाषण्डी न हैतुकी ।

 तेभ्यो याति तमो घोरमन्धं यस्मान्न चोत्थितिः ।

 अनारम्भमनन्तञ्च नित्यदुःखं सुखोज्खितम् ।

 वव्रं यद्वेदगदितं यत्र यान्त्यसुरादयः ।

 बुद्धिर्निर्णीततत्त्वानामेका विष्णुपरायणा ।

 बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम्’

इति ब्रह्मवैवर्ते ।। ४०४१ ।।

प्रकाशिका

‘नेहाभिक्रमनाश’ इत्येतद्व्याचष्टे ।। प्रारम्भेति ।। नेहाभिक्रमेत्यत्रेह शब्दनिर्दिष्टस्तु योगाख्योऽत्र विष्णुधर्मो ज्ञातव्यः । तं धर्मं तदन्यच्च पुराणवचनेन स्पष्टयति ।। स्वोचितेनेत्यादिना ।। व्यवसायेत्येतद्व्याचष्टे ।। बुद्धिरिति ।। ४०,४१ ।।

न्यायदीपिका

योगस्स्तूयते ।। नेहेति ।। तत्र योगातिक्रमे नाशः प्रत्यवायश्च नास्तीत्यन्यथाप्रतीतिनिरासाय पूर्वार्धं स्मृत्यैव व्याचष्टे ।। प्रारम्भेति ।। तमेव विष्णुधर्मं स्मृत्या दर्शयति ।। स्वोचितेनेति ।। प्रवृत्तिर्विहितकरणमप्रवृत्तिर्निषिद्वपरित्यागश्चान्यविषयेनानुष्ठीयत इत्यर्थः । तस्मिन् धर्मेऽधिकारिकालप्रमाणान्याह ।। एनमिति ।। तमेव विवृणोति ।। तदिति ।। कार्तयुगत्वे त्रेतादिषु न फलप्रदोऽनध्यायाधीतवेदवदित्यत आह ।। त्रेतेति ।। कार्तयुगत्वोक्तिस्तत्र प्राचुर्येण सम्भवाभिप्रायेणेति भावः । किमस्य फलं यत्त्रेतादिष्वधिकं स्यादित्यत आह ।। एवमिति ।। कथं स एवमुच्यते त्रैविद्यस्यापि मोक्षसद्भावादित्यतस्त्रैविद्यधर्मस्वरूपमुक्त्वा तद्वतो मोक्षाभावमाह ।। त्रैविद्य इति ।। त्रैविद्यस्यापि भगवज्ज्ञानादिसद्भावात्तस्यैव मोक्षहेतुत्वात्कथमसौ स्वर्गं भुक्त्वा निवर्तत इत्यत आह ।। सम्यगिति ।। किं तस्य कदापि न मोक्ष इत्यतः स्वर्गगमनावधिकथनेनैवार्थतः सिद्धमर्यं स्फुटमाह ।। क्रमेणेति ।। अन्ते समर्पयंस्त्रैविद्यो यदि नियमात्प्रत्येकं सर्वाणि समर्पयतीत्यर्थः । त्रय्युक्तकर्मकरणमात्रेण त्रैविद्यो भवेत् किं भगवत्सर्वोत्तमत्वज्ञानादि नेत्यत आह ।। परमिति ।। वेदवादित्वस्य भागवतत्रैविद्ययोरपि साम्यादस्यैव किमुच्यत इत्यतो न वेदानुसारित्वं वेदवादित्वमत्राभिमतमिति भावेनाह ।। वाद इति ।। विवादात्पठनादिति ।। विवादपूर्वकपठनादित्यर्थः । अस्त्वेवं वेदवादित्वं तथापि तेन मोक्षादिसिद्धेः कथं भागवतस्यैव मोक्ष उक्त इत्यतः पाषण्डादिवत्तस्य निषिद्धत्वान्न मोक्षसाधनत्वमिति भावेनाह ।। वेदेति ।। न केवलं मोक्षसाधनत्वाभावोऽपि तु तमःसाधनत्वं चास्तीत्याह ।। तेभ्य इति ।। अनारम्भमनन्तं चेति तमसि दुःखानुभवानुवृत्तेराद्यन्तशून्यत्वमुच्यते । यस्मान्नैवोत्थितिरिति तत्प्राप्तानामपुनरावृत्तिरुच्यते । तमसः पुनरावृत्तिराहित्यं कुत इत्यत आह ।। वव्रमिति ।। स्वगतानां गमनं वारयतीति वा सदा वृणोतीति वा वरमानन्दं वारयतीति वा वव्रम् । वव्रमनंतमित्यादिवेदगदितम् । एवंविधश्चेदयं वैष्णवो धर्मः तर्हि किमिति कैश्चिदेवैकमत्येनानुष्ठीयते परस्परविरुद्धतया बहुभिर्नानुष्ठीयत इत्यत आह ।। बुद्धिरिति ।। केषाञ्चिदेव बुद्धेर्निर्णीतत्वात्तावन्त एवैकमत्येन विष्णुपरायणाः । बहूनामनिर्णीतबुद्धित्वात्परस्परविरोधेन न विष्णुपरत्वमिति भावः । अनेन व्यवसायेति श्लोकोऽपि व्याख्यातो भवति ।। ४०,४१ ।।

किरणावली

मूले न निष्फलेत्यनेनेहवैष्णवधर्मे अभिक्रमे उपक्रममात्रे इच्छामात्रे वा प्रतिबन्धे सत्यपि नाशः सर्वथा फलाभावलक्षणो नास्ति । अन्यधर्माकरणेन प्रत्यवायो विध्यति क्रमदोषोपि नास्तीत्यर्थ उक्तोऽभवति । मूले स्वोचितेन स्ववर्णाश्रमोचितेन धर्मेण विष्णुपूजा कर्तव्या तामृते क्वचित् कदाचित्कुत्रापि विहितेपि कर्मणि प्रवृत्तिर्नास्ति । विष्णुपूजात्वानुसन्धानमृते प्रवृत्तिर्नास्तीति यावत् । तथा विष्णुपूजामृते यत्र क्वचिन्निषिद्धे ब्रह्महननादावन्यदेवतापूजालक्षणे वा अप्रवृत्तिर्विष्णुपूजात्वानुसन्धानं विना द्विविधनिषिद्धत्यागश्च न क्रियत इति यः स वैष्णवो धर्म इत्यर्थमभिप्रेत्य नाप्रवृत्तिः प्रवृत्तिर्वेत्येतद्व्याचष्टे ।। प्रवृत्तिरिति ।। प्रवृत्तिर्विहितकरणं नानुष्ठीयते । अन्यविषये निषिद्धे ब्रह्महननादावन्यदेवतापूजने चा प्रवृत्तिर्निषिद्धत्यागश्च नानुष्ठीयत इति योज्यम् । मूले वर्तन्तेऽनुवर्तन्त इत्यर्थः । यथा क्रमं शास्त्रोक्तं क्रममनतिक्रम्य । एष मुख्यो भागवतो धर्म इत्यर्थः । त्रेतादिषु कृतयुगादपि विशेषतोऽतिफलदः पुनर्विशेषेण कलावतिफलप्रदः । त्रेतादिषु विशेषतः फलप्रदत्वे कार्तयुगो धर्म इति किमुक्तमित्यत आह ।। कार्तयुगत्वोक्तिरिति ।। प्राचुर्येण तत्र धर्मज्ञानसंपादनसम्भवाभिप्रायेणेत्यर्थः ।। त्रैविद्यस्येति ।। त्रय्युक्तकाम्यकर्मानुष्ठातुरित्यर्थः ।। मोक्षसद्भावादिति ।। अपामसोमममृता अभूमेति श्रुतेरिति भावः ।। तद्वतो मोक्षाभावमिति ।। तद्धर्मानुष्ठातुरित्यर्थः । भागवतत्रैविद्यस्य तद्धर्मानुस्यूतिपर्यन्तं नित्यत्रैविद्यस्य सदातद्धर्मानुवृत्तेः सदा मोक्षाभावमित्यर्थः । मूले त्रैविद्यस्त्वपरो धर्म इत्यत्र त्रिविधा विद्या ऋग्यजुः सामलक्षणा त्रिविद्या तत्रापाततः प्रतीतः त्रैविद्य इत्यर्थः । तत्रापि कर्मणि क्रियमाणे अत एव न तु प्रतिक्रियाकालमित्यर्थो बोध्यः ।।

स्वर्गगमनावधिकथनेनेति ।। स्वर्गं याति यावद्धरेर्वशे सर्वान्देवानित्यत्र स्वर्गगमनस्यावधिकथनेनेत्यर्थः । भगवत्सर्वोत्तमत्वज्ञानादिनेत्यादिपदेनान्ते समर्पणं गृह्यते ।। भागवतत्रैविद्ययोरिति ।। भागवतपदेन शुद्धभागवतो गृह्यते । त्रैविद्यपदेन नित्यत्रैविद्यो गृह्यते । न पाषण्डी न हैतुकीति दृष्टान्तार्थमिति भावेनाह ।। पाषण्डादिवत्तस्येति ।। न केवलं मोक्षसाधनत्वमिति लभ्यत इति भावः । मूले तेभ्य इत्यस्य विष्णुमाहात्म्यसंशयपाषण्डहेतुवादेभ्य इत्यर्थः । निरर्थक पाठस्य मोक्षाहेतुत्वेपि तमः प्रापकत्वायोगात् । ननु सप्तकोटियोजनायामस्य तमोलोकस्य प्राकृतत्वेनोत्पत्ति विनाशवत्त्वात्कथं तदभावोक्तिरित्यत आह ।। अनारम्भमिति ।। अनारम्भमनन्तं चेति न लोकविवक्षया प्रवृत्तं किंतु लिङ्गशरीरभङ्गेन तमः पतनानन्तरं यो दुःखानुभवस्तदनुवृत्तिर्नावच्छिद्यते न पुनर्जायत इति तमसि दुःखानुवृत्तेराद्यन्तशून्यत्वमुच्यत इत्यर्थः । मूलेऽनन्तमिति दुःखानुभवस्य नाशाभावः । तत्र हेतुर्नित्यदुःखमिति । दुःखस्य ज्ञातैकसत्त्वाद्दुःखस्य नित्यत्वे तदनुभवस्यापि नित्यत्वमिति भावः । मूले यस्मान्नैवोत्थितिर्यदनारम्भमनन्तं चेत्यादि रूपेण यद्वेदगदितं वव्रं यत्र यान्त्यसुरादयस्तदन्धन्तमो यान्तीत्यन्वयः ।।

गमनमिति ।। पुनःसंसारं प्रति गमनमित्यर्थः । वेदगदितमित्युक्तं वेदं पठति ।। वव्रमनन्तमित्यादीति ।। वव्रा अनन्तामवसापदीति वेदगदितमित्यर्थः । निर्णीतत्वादित्यस्य निर्णीततत्वविषयत्वादित्यर्थः । एतेन निर्णीतत्वानां बुद्धिरेका एकविषयिणी कथं विष्णुपरायणा सर्वोत्तमत्वविषयकेत्यर्थः । व्यवसायस्तत्वनिश्चयस्तद्रहितानां बुद्धयो बहुशाखाः बहुपक्षपरिग्रहमूलिकाः प्रत्येकमनन्ताश्चेति मूलार्थ उक्तो भवति ।। ४०,४१ ।।

भावदीपः

निषिद्धपरित्यागशब्दार्थमाह ।। अन्यविषय इति ।। देवतान्तरविषयतया नानुष्ठीयत इत्यर्थः ।। तद्वत इति ।। त्रैविद्यधर्मवतः ।। अर्थतः सिद्धमिति ।। स्वर्गगमनावधिरेव न नित्यनिरयप्राप्तिरित्युक्त्यार्थात् क्रमेण मोक्षं प्रतिपद्यत इति सिद्धमित्यर्थः ।। अस्यैव ।। भागवतस्यैव मोक्ष इति त्रैविद्यस्यैव स्वर्गगमनावधित्वं किमुच्यत इति वाऽर्थः । यद्वाऽस्यैव त्रय्युक्तकर्मकारिण एव वेदवादित्वम् ‘वेदवादी स उच्यते’ इत्यनेन किमुच्यत इत्यर्थः । अभिप्रेतमित्यनन्तरं येन भागवतत्रैविद्ययोरेव वेदवादित्वापात इति योज्यम् । अपौनुरुक्त्यायार्थभेदमाह ।। अनारम्भमित्यादिना ।।

भावप्रकाशः

ननु त्रेतादिष्वपि विशेषतः फलप्रदत्वे कार्तयुगोधर्म इति कथमुक्तमित्यत आह । कार्तयुगत्वोक्तिस्त्विति ।। स्वर्गगमनावधिकथनेनेति ।। पुनः स्वर्गं याति यावद्धरेर्वशे सर्वान् देवा प्रविज्ञायेत्यनेनेत्यर्थः ।। भागवतत्रैविद्ययोरपीति ।। भागवतत्रैविद्यनित्यत्रैविद्ययोरित्यर्थः ।। विवादात्पठनादित्यत्र पठनादित्यस्य पृथङ्निमित्तत्वे निरर्थकात्पाठादित्यस्य पुनरुक्तत्वं स्यादित्यत आह विवादपूर्वकं पठनादित्यर्थ इति ।। पाषण्डादिवत्तस्येति ।। अनेन यथा पाषण्डी हैतुकी च न स्यात्तथा वेदवादरतो न स्यादिति मूलयोजनां सूचयति ।। प्रसिद्धतमोलक्षणद्रव्यस्योत्पत्तिविनाशित्वात्कथमनारम्भमनन्तं चेत्युक्तमित्यत आह ।। अनारम्भमनन्तं चेति ।। एवमेव यस्मान्नैवोत्थितिरित्यत्रापि द्रष्टव्यम् । वव्रमनन्तमित्यादि वेदगदितमिति ।। वव्रमनन्तमवसापदीष्टेति वेदगदितमित्यर्थः ।। ४० ।।

वाक्यविवेकः

अन्यविषये नानुष्ठीयते इति । अन्यदेवताप्रीत्यर्थं येन पुरुषेण विहितं नानुष्ठीयते, निषिद्धं येन परित्यज्यते स वैष्णवः तदाचरितोधर्मः वैष्णवो धर्म इत्यर्थः । मूले एनं धर्ममिति । देवाद्याः सात्विका जनाः विना फलापेक्षां विना तत्प्रीत्यर्थं विष्णुप्रीत्यर्थं एनं धर्मं वर्त्तन्ते । अनुवर्तन्ते । कुर्वन्तीति यावत् । एष धर्मः कार्तयुगः कृतयुगे विशेषेण प्रवर्तमानः । पाञ्चरात्रः पञ्चरात्रोक्तः । वैदिको वेदप्रोक्तश्च । तदुभयप्रमाणक इति यावत् । अन्यस्मै अवैष्णवाय उदबिदुं न दद्यात् । तण्डुलं च न दद्यात् । निराशीश्च सदा भवेत् । केशवे भक्तश्च भवेदित्त्यर्थः । स्वर्गगमनावधिकथनेनेति । यावद्धरेर्वश इत्यवधिकथनेन अनन्तरं मोक्षो भवतीति सिद्धमिति भावः ।।

ननु तमःप्राप्तेरारंभदर्शनात् कथमनारम्भत्वमित्यत आह । अनारम्भमिति ।। तमस्यनाद्यनन्तकालेषु दुःखिनः सन्तीति भावः । गमनं वारयतीति । वा गति गन्धनयोरित्त्यस्मात् कप्रत्यये वृञ् निवारण इत्यस्माच्च कप्रत्यये यणादेशे वव्रमिति रूपमिति भावः । वृणोतेरिति । वृञः आदृगमंहनजनः किकिनौ लिट्चेति किप्रत्यये तस्य लिड्वद्भावात् द्विर्वचने ऋकारस्य यणादेशे प्रत्ययेकारस्य निर्वचनत्त्वादकारे वव्रमिति रूपमिति भावः । वरमानन्दमिति । वरशब्दोपपदात् वृञः कप्रत्यये उपपदरशब्दलोपे यणांदेशे वव्रमिति रूपमिति भावः ।। ४० ।।

वाक्यविवेकः

एवंविधश्चेदिति । वैष्णवो धर्म एवंविधश्चेत् । बहुभिरैकमत्त्येनानुष्टीयेत नचैवम् । किं तु कैश्चिदेवैकमत्येनानुष्टीयते तत्कुत एवं भाव इत्यर्थः । बुद्धेर्निर्णीतत्त्वादिति । बुद्धेरर्थनिर्णयरूपत्वादित्यर्थः । अनिर्णीतबुद्धित्वादिति । अनिर्णयात्मकबुद्धिमत्त्वादित्यर्थः ।। ४१ ।।