तात्पर्यम्

तात्पर्यम्

—‘ऋचां त्वः पोषमास्ते पुपुष्वान्

 गायत्रं त्वो गायति शक्वरीषु ।

 ब्रह्मा त्वो वदति जातविद्यां

 यज्ञस्य मात्रां विमिमीत उत्वः’ ।

परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते’

स तत्र पर्येति जक्षन् क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा’ ।

तदा विद्वान्पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति’ ।

मुक्ताः प्राप्य परं विष्णुं तद्देहं संश्रिता अपि ।

 तारतम्येन तिष्ठन्ति गुणैरानन्दपूर्वंकैः ।

 भूपा मनुष्यगन्धर्वा देवाः पितर एव च ।

 आजानेयाः कर्मदेवास्तत्त्वदेवाः पुरन्दरः ।

 शिवो विरिञ्चि इत्येते क्रमाच्छतगुणोत्तराः ।

 मुक्तावपि तदन्ये ये भूपाच्छतगुणावराः ।

 न समो ब्रह्मणः कश्चिन्मुक्तावपि कथञ्चन ।

 ततः सहस्रगुणिता श्रीस्ततः परमो हरिः ।

 अनन्तगुणितत्वेन तत्समः परमोऽपि न’ ।

अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवुः ।

 आदघ्नास उपकक्षास उ त्वे ह्वदा इव स्नात्वा उ त्वे ददृश्रे ।

 कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधीन्द्रायेन्द्रो परिस्रव ।

इत्यादि मोक्षानन्तरमपि भेदवचनेभ्यः ।

प्रकाशिका

देवा इति देवगन्धर्वा इत्यर्थः ।। तदन्ये ये भूपाच्छतगुणावरा इति ।। क्षितिपादिभ्योऽन्ये ये मानुषोत्तमाः ते भूपाच्छतगुणावराः । न तु ततो हीनाः सन्ति इत्यर्थः ।

न्यायदीपिका

कश्चिद्ब्रह्मा ऋचां सम्यगुच्चारणं कुर्वन्नास्ते । स्वयं चातिपुष्टिमान्कश्चिद्ब्रह्मा शक्वरीषु छन्दोमतीषु ऋक्षु गायत्रं सामगायति । कश्चिद्ब्रह्मा पुराणविद्यां वदति । कश्चिद्ब्रह्मा विष्णोर्मूर्तिं ध्यायतीत्यर्थः । अस्य च ब्रह्मबाहुल्यप्रतिपादकत्वान्मुख्यमोक्षविषयत्वम् । जक्षन् भक्षयन् हसंश्च रममाणो रतिं प्राप्नुवन् । परमं साम्यं नाम योग्यानन्दपूर्वत्वमेव । नतु सर्वसाम्यमिति भावेन मुक्ततारतम्ये च मानमाह ।। मुक्ता इति ।। देवा देवगन्धर्वाः तत्वरूपाः तत्वाभिमानिनो बृहस्पत्यादयः । उक्तेभ्योऽन्ये ये मनुष्योत्तमास्ते भूपाच्छतांशोना इत्यर्थः । तारतम्यसद्भावे परस्परं विरोधः स्यादित्यत आह ।। अक्षण्वन्त इति ।। प्राप्ताक्षिकर्णफलाः परस्परविरोधशून्या मुक्ताः ज्ञानादिगुणेष्वसमा बभूवुः । तत्र केचित्क्षीरसागरमग्नाः । केचिदश्वत्थवनमुपवर्तमानाः । केचित् स्नातव्यह्रदा इव गम्भीरा भगवन्तं ददृशुरित्यर्थः । इदं वाक्यं श्रुत्वा विष्णुमित्यागमेन मुख्य मुक्तिविषयतया व्याख्यातम् । अत एव च ऋचां त्व इत्यस्य ऋत्विग्विषयत्ववर्णनं परास्तम् । तारतम्येऽपूर्तिः स्यादित्यत आह ।। कामस्येति ।। यत्रेच्छाविषयाः पर्याप्तास्तत्र लोके माममृतं कुर्वित्यर्थः ।

किरणावली

त्वः कश्चिद्ब्रह्मा पुपुष्वान्पुष्टः सन् ऋचां पोषं पुष्टमुच्चारणं प्रत्यास्ते कुर्वन्नास्त इति यावदित्यभिप्रेत्याह ।। कश्चिद्ब्रह्मेति ।। यज्ञस्येत्यस्यार्थो विष्णोरिति । यज्ञो विष्णुर्देवतेति श्रुतेः । मात्रामंशं रूपविशेषमित्यभिप्रेत्योक्तं मूर्तिमिति । तत्वनिर्णयटीकायां विमिमीत उत्व इत्यत्र उ इत्यस्येवार्थकत्वमभिप्रेत्य मात्रामंशमेवेति व्याख्यातं तत्रांशमित्यस्य द्रव्यांशं गुणांशं चेत्यर्थः । अत्रापि तदनुसारेण उ इत्यस्यार्थो बोध्यः । द्रव्यांशमेव ध्यायति न तु समग्रमित्यर्थः ।। ब्रह्मबाहुल्यप्रतिपादकत्वादिति ।। प्रतिकल्पं विनाशिन्यमुख्येमोक्षे ब्रह्मबाहुल्यायोगादिति भावः ।

परं ज्योतिः परं ब्रह्मोपसंपद्य तत्समीपं प्राप्येति भेदोक्तिः ।। भक्षयन्हसंश्चेति ।। जक्षभक्षहसनयोरिति धातोरिति भावः । क्रीडन् तेन चरममाणस्सुखं प्राप्नुवन् । पुण्यपापे विधूयेति परममुक्तयुक्तिः। परममुक्तौ भेदे साधनीये तारतम्यकथनं नातीव सङ्गतमित्यत अवतारयति ।। परमं साम्यमिति ।।

तत्वानि रूपाणि प्रतिमाभूतानि येषां ते तत्वरूपा इत्यर्थमभिप्रेत्याह ।। तत्वाभिमानिन इति ।। ननु पुरन्दरान्तानां पृथग्ग्रहणादन्यतत्त्वाभिमानिष्वाहङ्कारिकप्राणस्योत्तमत्वादाहङ्कारिकप्राणादय इति वक्तव्यम् । किं बृहस्पत्यादय इति तदवरबृहस्पतिग्रहणेन । न चोषास्वाहेत्यनुव्याख्योदाहृत बृहत्संहितावाक्ये इन्द्रादनन्तरं बृहस्पति समानिरुद्धस्य ग्रहणात्तदनुसारेणेय मुक्तिरिति वाच्यम् । भगवत्पादैः बृहत्संहितायामनुक्तस्यावश्यं वक्तव्यस्य प्राणस्य प्राणोऽहङ्कारिक एव च इन्द्रादनन्तर इति संयोजितत्वा त्तदनुसारेणेत्युक्तययुक्तेः । उक्तं च सुधायाम् । ननूपनिषदि नामाद्याः प्राणान्ताः पञ्चदशोक्ताः । अत्र चोषास्वाहेत्यादिना चतुर्दशैव । तत्कथं न विसंवाद इत्यतो बृहत्संहितावचनेनानुक्तमेकं स्वयमाह । प्राण इति । तैजसाहङ्कारादुत्पन्नः प्राणश्चापरोऽस्ति । स चेन्द्रादनन्तर एवानिरुद्धादुत्तमो ज्ञातव्य इति । किं च बृहत्संहितानुसारेण तत्वरूपा अनिरुद्धादय इति वक्तव्यम् । अपि च व्याख्यानरूपबृहत्संहितानुसारेण बृहस्पत्यादय इत्युक्तौ व्याख्येयछन्दोगश्रुत्यनुसारेण प्राणादय इत्येव किं नोक्तमिति । अत्रोच्यते । पुरन्दरस्य तत्त्वाभिमान्यपेक्षया शतोत्तरत्वमुच्यते । तच्च तत्त्वरूपपदेन बृहस्पतिग्रहण एवोपपद्यते । बृहस्पत्यपेक्षयाहङ्कारिकस्य दशोत्तरत्वात् । तदपेक्षयेन्द्रस्य दशोत्तरत्वादाहङ्कारिकप्राणग्रहणे शतोत्तरत्वा लाभादेवमुक्तम् । पुरन्दरापेक्षयोमाया दशोत्तरत्वम् । तदपेक्षया शिवस्य दशोत्तरत्वमिति पुरंदराच्छिवस्य शतोत्तरत्वं युक्तम् । शिवापेक्षया विरिञ्चस्य शतोत्तमत्वं तु बहुशतोत्तमत्वमादाय योज्यम् । शिवादाशा तथैवास्या मुख्यवायुः शतोत्तराविति छान्दोग्यभाष्यवचनात् । अत्र यद्यपि बहुवक्तव्यमस्ति तथापि ग्रन्थाल्पत्वायोपरम्यते ।।

मनुष्योत्तमा इति ।। मनुष्याधममध्यमयोरयोग्यत्वादिति भावः । मूले मुक्तावपीत्यस्य मुक्तौ संसारे च यथा शेषस्य तत्पदप्राप्तियोग्याद्रुद्रादन्यो गरुडः समोऽस्ति नैवं ब्रह्मणस्तत्पदप्राप्तियोग्याद्वायोरन्यः समोऽस्तीत्यपि । कथंचन केनापि गुणेन । सहस्रगुणिता परिमाणे कोटिगुणिताः । मनोजवेषु मनोजवः प्रज्ञातिशयः । बहुवचनमाद्यर्थ इति सुधायां विवृतत्वात्तात्पर्यमाह ।। ज्ञानादि गुणेष्विति ।। आदघ्नास इत्यस्य तरतमशब्दवद्दघ्नशब्दोऽप्यप्रत्ययोऽस्ति । ततश्च आसम्यग्दध्ना मग्ना इत्यर्थ इति सुधायां विवृतत्वात् । तात्पर्यमाह ।। केचित्क्षीरसागरमग्ना इति ।। त्वे केचिदुपगताः कक्षं वनमुपकक्षाः इति सुधायां व्याख्यातत्वात् ।। केचिदश्वत्थवनमुपवर्तमाना इति ।। केचित्स्नात्वाःस्नातव्याः । कृत्यार्थे तवैकेन्केन्यत्वन इति त्वन् । ह्रदा इव गम्भीरा इति सुधायामुपपादितत्वात् । निष्कृष्टमर्थमाह ।। स्नातव्येति ।। व्याख्यातं ऐतरेयभाष्ये । ननु तत्र ऐरेह्रदे केचिदपीति व्याख्यातत्वाद्विसंवाद इति चेन्न । यथा नविसंवादस्तथोपपादितमस्माभिरैतरेय भाष्यार्थरत्नमालायाम् ।। अत एवेति ।। अक्षण्वन्त इति मन्त्रस्य मुख्यमुक्तिविषयतया व्याख्यातत्वादेव तत्प्रकरणगतस्य ऋचां त्व इत्यस्य न मुक्तविषयत्वं किं तु यज्ञे ऋत्विग्बाहुल्यविषयत्वमेवेति ऋत्विग्विषयत्ववर्णनं परास्तमित्यर्थः । कामस्येच्छायाः काम्यन्त इति कामाः विषया इति पदद्वयतात्पर्यमाह ।। इच्छाविषया इति ।।

भावदीपः

‘गायत्रं त्वो गायति शक्वरीषु । ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रां विमित उ त्वः’ इति शेषार्थमाह ।। कश्चिदित्यादिना ।। जक्षभक्षहसनयोरिति धातोः जक्षन्नित्यस्यार्थद्वयमाह ।। भक्षयन् हसंश्चेति ।। ‘मनोजवेषु’ इत्यस्यार्थो ज्ञानादिगुणेष्विति ।। ‘आदघ्नास उपकक्षास उ त्वे ह्रदा इव स्नात्वा उ त्वे ददृश्रे’ इति शेषार्थमाह ।। तत्र केचिदिति ।। श्रुत्वा विष्णुमिति ।।

श्रुत्वा विष्णुं कर्णफलं प्राप्तत्वात्कर्णसंयुताः ।

 अक्षण्वन्तो दर्शनाच्च विष्णोर्मुक्तास्तु ये गणाः ।।

 तारतम्यं च तेषां च श्रुतावुदितमञ्जसा ।

 क्षीरसागरदघ्नास्तु केचित्तिष्ठन्ति मुक्तिगाः ।।

 उपस्थिता ब्रह्मवनं केचिदश्वत्थमण्डलम् ।

 ऐरे ह्रदे केचिदपि देवा एव सदा हरिम् ।।

 नागभोगशयं मुक्ता ददृशेऽधिकमोदिनः ।

 सागरादिस्थितं विष्णुं पश्यन्ति क्वचिदेव हि ।।’

इत्यैतरेयभाष्योक्तागमेनेत्यर्थः ।। अत एवेति ।। अस्य वाक्यस्यागमेनेत्थमर्थ उक्त इति व्याख्यानादेवेत्यर्थः । ‘यत्र त्वस्य’ इति वाक्यार्थं पश्चाद्विवरितुं संज्ञेत्यादिप्रमाणव्याख्येयवाक्यं स्वयमाह ।। प्रज्ञानघन इत्यादिना ।। मोहान्तं मोहाख्यनाशम् । इतीत्यन्तेनेति चोदित इत्यादिवाक्यसङ्ग्रहः । ऐहिकज्ञानं वृत्तिज्ञानमित्यर्थः । एतद्विषये मुक्तविषय इत्यर्थः । ‘तमादेशमप्राक्ष्यः’ इत्यादेरर्थो ‘नारायणोऽयम्’ इत्यादीति भावेनाह ।। आदिश्यत इतीति ।। उपदेशविषय इत्यर्थः । तदभावेऽपि अन्यज्ञानाभावेऽपीत्यर्थः । ‘यस्मिन्’ इत्यादेरर्थान्तरमाह ।। अविज्ञातान्येति ।। एवमज्ञातस्यापीति ।। भगवदधीनत्वादिनाऽज्ञातस्यापीत्यर्थः । ज्ञातादेरित्युक्तयनुसारादाह ।। ज्ञातादीति ।। श्रुतं मतमित्यादिपदार्थः । इत्यत्रोक्तमित्यस्य दृष्टान्तमित्यनेनान्वयः । ‘वाचारम्भणं’ इति श्रुत्यर्थमाह ।। यस्मादित्यादिना ।। सत्यमित्यस्यार्थो नित्यमिति ।। इदानीं मूलार्थमाह ।। प्राधान्यादित्यादिना ।। तत्फलं साङ्केतिकज्ञानादिफलम् । तत्किमित्यत आह ।। विद्वानितीति ।। तन्मात्रेण साङ्केतिकज्ञानमात्रेणेत्यर्थः । एव पुरुषोत्तमः प्रधान इत्यन्वयं तावदुपेत्य तदनन्तरं शेष माह ।। प्रधानोऽत इत्यादि ।। उक्तेति ।। अज्ञातान्यज्ञानादीनां यत्फलं तत्तदभावेऽपि भवति । अज्ञातान्यज्ञानादीनां ज्ञातानामपि यत्फलं तदपि भगवज्ज्ञानादौ जात एव जातं भवतीत्युक्तप्रकारद्वयेनेत्यर्थः । प्रधानश्चेति च शब्दसमुच्चेयमाह ।। एवं सदृशश्चेत्यपि द्रष्टव्यमिति ।। कारणभूतोऽसावित्यंशस्योपयोगमाह ।। प्राधान्यमेवेति ।। सादृश्यं च ब्रह्मजगतोरबाधितत्वादित्यादिना व्यक्तमित्यन्यत्र तत्त्वनिर्णयादावुपपादितं चेति नात्रोपपादितमिति भावः । तथा च वाचारम्भणदृष्टान्तमृत्पिण्डमृण्मयदृष्टान्तयोर्द्वयोरपि यथाक्रमं एवं प्रधान एवं सदृशश्चेति दार्ष्टान्तिकमुक्तं भवति ।। भावाकरण इति ।। श्वेतकेतुनाऽहमीश्वरांश इति भावाकरणे जगत्कारणत्वस्वातन्त्र्यादि माहात्म्यमुक्तमुद्दालकेनेत्यर्थः ।। व्याख्यानान्तरमिति ।। तदीयस्त्वमसीति व्याख्यानापेक्षयेति योज्यम् । तदित्यादिश्रुतीत्यस्यायमर्थः । तदुदाहृतवाक्यद्वयं व्याक्रियत इत्यन्वयः । प्राग्भाष्यकृताऽनुपात्तं कथं व्याख्यायत इत्यत उक्तम् ।। इत्यादिश्रुतिविरोध इत्यादिपदगृहीतमिति ।। स्थानान्तर इति ।। ‘प्रपञ्चोपशमं शिवमद्वैतं’’ इति श्रुत्यन्तर इत्यर्थः ।। बाधकाभावाच्चेति ।। स्थानान्तरोक्तेः श्रुत्यैव व्याख्यानबलादिति चार्थः । न केवलं मायामात्रत्वादिति वार्थः ।

ननु नामधेयपदाभावे नामप्रपञ्चस्य वागालम्बनमात्रत्वलाभः कथमित्यत आह ।। नामधेयस्यापीति ।। श्रुतिसिद्धमिति ।। ‘तदीयस्त्वमसि’ इति प्रागुदाहृतश्रुतिसिद्धमित्यर्थः । ननु ‘अतत्त्वमसि’ इति पक्षे असोऽसीति भाव्यमित्यत आह ।। प्राचीनेति ।। वस्तुपदाध्याहारेणातद्वस्त्वसीत्युपपत्तेर्न लिङ्गवैषम्यमित्यर्थः । शङ्कते भवेदिति ।। तादृशवाक्याद्यभावेऽपीति ।। अनुवादादिलिङ्गयत्तदादि शब्दोपेतवाक्यविशेषयुक्त्याद्यभावेऽपीत्यर्थः ।। परमात्मोच्यत इति ।। शुद्धब्रह्मेत्यर्थः ।। अन्यथेति ।। परमात्मनि जगद्भेदस्य श्रुत्या ग्रहण इत्यर्थः । ईश्वरपदस्य विशिष्टब्रह्मपरत्वमेवोपेत्यार्थमाह ।। ईश्वरस्यैवेति ।। असिद्धेरिति च्छेदः ।। तेनेति ।। प्रत्यक्षादिनेत्यर्थः । तृतीय इति ।। स्वरूपप्रतिपादकेति पक्ष इत्यर्थः । पूर्वं शङ्कोत्तरत्वेन योजितमधुना श्रुतिवैय्यर्थ्यरूपयुक्त्यपेक्षया युक्त्यन्तरोक्तिपरत्वेन योजयति ।। इतश्चेत्यादिना ।। उक्तेति ।। वैय्यर्थ्यरूपदोष इत्यर्थः । तन्निमित्तेति ।। उपाधिनिमित्तेत्यर्थः। उपाधीति मूलवाक्यं खण्डशः शेषोक्त्या व्याचष्टे ।। उपाधिकृत एवेत्यादिना भाव इत्यन्तेन ।। दूषणाय चेति ।। दोषान्तरमित्यन्वयः ।। इत्यादिवक्ष्यमाणेति ।। एकादशे ।

भावप्रकाशः

त्व इत्यस्यार्थः कश्चिदिति । यज्ञस्येत्यस्यार्थमाह विष्णोरिति ।। यज्ञो विष्णुर्देवतेति श्रुतेः । उ इत्यस्यावधारणार्थकस्य मात्रामित्यनेन सम्बन्धमभिप्रेत्य तदर्थमाह । मूर्तिमिति । अंशमेवेत्यर्थः ।। ब्रह्मबाहुल्येति । अतीतानन्तकल्पेषु मुक्तानां ब्रह्मणां बहुत्वोपपत्तेरिति भावः ।। न च वाच्यमृत्विग्विषयमेतदिति ।। एकस्मिन् यज्ञे अनेकेषां ब्रह्मणामभावात् । अन्यथा त्वो ब्रह्मेत्यस्य वैय्यर्थ्यात् ।। ब्रह्मानुचरास्त्रयोऽपि ब्रह्माण इति चेन्न । तथापि तेषामृक्पोषादिप्रसिध्यभावात् यज्ञे जातविद्योपयोगाभावाच्च ।।

मूले परंज्योतिः परमात्मानमुपसंपद्य तत्समीपं प्राप्नोतीति भेदोक्तिः । जक्षभक्षहसनयोरिति धातुं मनसि निधाय जक्षन्नित्यस्यार्थमाह । भक्षयन्हसंश्चेति ।। ज्ञातयस्तु सहमुक्ताः । अज्ञातयस्तु कल्पान्तरे मुक्ताः देवा इत्येतत्तत्वाभिमानिन इति प्रतीतिनिरासाय व्याचष्टे ।। देवगन्धर्वा इति ।। तत्वरूपा इत्येतत्तत्वात्मका इति प्रतीतिनिरासाय व्याचष्टे ।। तत्वरूपास्तत्वाभिमानिन इति ।। ब्रहस्पत्यादय इति । यद्यपीन्द्रादीनां पृथगुक्तत्वात्तत्वरूपाः अहङ्कारिका इति वक्तव्यम् ।। तथाप्युषास्वाहेत्यादिबृहत्संहितावाक्ये इन्द्रानन्तरं ब्रह्मस्पत्यादीनामेवोक्तत्वात्तदनुसारेणैवमुक्तमिति दृष्टव्यम् ।। शतगुणोत्तरा इति मूले शतशब्दः प्रमाणान्तरानुसारेण यथायोग्यसङ्ख्यार्थको द्रष्टव्यः । शतगुणावरा इत्यत्र गुणशब्दो गुणार्थक इत्याह । शतांशोना इत्यर्थ इति ।। ततः सहस्रगुणिता श्रीरिति मूलस्य कोटिगुणितेत्यर्थः ।।

श्रुत्वा विष्णुं कर्णफलं प्राप्तत्वात्कर्णसंयुताः ।

अक्षण्वन्तो दर्शनाच्च विष्णोर्मुक्ताश्च ये गणाः ।

तारतम्यं च तेषां हि श्रुतावुदितमंजसा ।।

क्षीरसागरदध्नाश्च केचित्तिष्ठन्ति मुक्तिगाः ।।

उपस्थिता ब्रह्मवनं केचिदश्वत्थमण्डलम् ।

ऐरे हृदे केचिदपि देवा एव सदा हरिम् ।

नागभोगशयं मुक्ताः ददृश्रेऽधिकमोदिनः ।

सागरादिस्थिता विष्णुं पश्यन्ति क्वचिदेव हि ।

इत्यैतरेयभाष्यं मनसि निधाय व्याचष्टे । प्राप्ताक्षिकर्णफला इत्यादि व्याख्यातमित्यन्तति ।। ऐतरेयभाष्य इति शेषः । अत एवेति । अक्षण्वन्त इति मन्त्रस्य मुख्यमुक्तिविषयतया व्याख्यातत्वादेतत्प्रकरणगतस्य ऋचांत्व इत्यस्य प्रागुक्तरीत्या यदृत्विग्विषयत्ववर्णनं तत्परास्तमित्यर्थः ।। कामस्येतिशब्दः इच्छापरः । काम इत्यनेन च काम्यन्त इति व्युत्पत्या विषया उच्यन्त इत्यभिप्रेत्याह । इच्छाविषया इति । आप्ता इत्यस्यार्थः । पर्याप्ता इति ।। कृधीत्यस्यार्थः । कुर्विति । इदं च वायुं प्रति प्रार्थनम् ।।

वाक्यविवेकः

त्वइत्यस्यार्थमाह ।। कश्चिदिति । जक्षभक्षसहनयोरिति धातुव्याख्यानानुसारेण जक्षन्नित्यनुगतस्यार्थद्वयमाह ।। जक्षन्निति ।

मुक्ततारतम्ये चेति ।। न केवलं साम्ये प्रमाणमुक्तं तारतम्ये च प्रमाणमाहेत्यर्थः । तारतम्ये प्रमाणं वक्तुः कोभिप्राय इत्यत उक्तम् । परमं साम्यं नामेत्त्यादिना । ननु शतगुणावरा इति व्याहतं गुणशब्देनाधिकगणनायां क्रियमाणायां यदाधिक्यं तस्य लाभात् अवरशब्दे न्यूनतायाः लाभात् इत्यत आह । भूपाच्छततांशोना इत्यर्थ इति । अत्रत्यो गुणशब्दः लक्षणया अंशमाहेति भावः । मनोजवेष्वित्यस्यार्थमाह । ज्ञानादिगुणेष्विति । नन्वस्य वाक्यस्य मुक्तविषयत्वं कुत इत्यत आह । इदं वाक्यमिति ।