गीता
वैष्णवादपि त्रैविद्यात् भागवतस्य फलाधिक्यम्
गीता
त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ।
ते पुण्यमासाद्य सुरेन्द्रलोकं अश्नन्ति दिव्यान् दिवि देवभोगान् ।। २० ।।
ते तं भुक्त्वा स्वर्गलोकं विशालं
क्षीणे पुण्ये मर्त्यलोकं विशन्ति ।
एवं त्रयीधर्ममनुप्रपन्ना
गतागतं कामकामा लभन्ते ।। २१ ।।
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ।। २२ ।।
येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयाऽन्विताः ।
तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ।। २३ ।।
तात्पर्यम्
‘अनन्यदेवतायागाद् भक्तयुद्रेकादकामनात् ।
सदा योगाच्च वैशिष्ट्यं त्रैविद्याद् वैष्णवादपि ।
स्याद्धि भागवतस्यैव तेन ब्रह्मादयोऽखिलाः ।
अश्वमेधादिभिर्यज्ञैरपि केशवयाजिनः ।
वैष्णवा इति बुद्ध्यैव मानयन्त्यन्यदेवताः ।।’ इत्याग्नेये ।
‘सम्यग् गुणगणज्ञानादुपासा पर्युपासना’ इति च ।। २०२३ ।।
प्रकाशिका
त्रैविद्या इत्यादेरर्थमाह ।। अनन्यदेवतेत्यादिना ।। ‘अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासत इत्यत्र पर्युपासनाशब्दार्थमाह ।। सम्यगिति ।। २०२३ ।।
न्यायदीपिका
तत्र भगवतः सर्वयज्ञादिभोक्तृत्वे त्रैविद्यभागवतयोः फलभेदो न स्यादित्याशङ्क्य परिह्रियते ।। त्रैविद्या इति ।। तदेव प्रपंच्यते ।। येऽपीति ।। तत्र त्रैविद्यभागवतयोर्भगवद्याजित्वसाम्येऽपि फलभेदः सहेतुकमुक्तः । तस्य स्फुटमप्रतीतेः स्मृत्यैव तद्व्याचष्टे ।। अनन्येति ।। अन्यदेवताभक्ता यजन्त इति त्रैविद्यानामन्यदेवतायाजित्वमुक्तम् । भागवतानां तत्प्रतियोगितयोक्तस्यानन्या इत्यस्यार्थोऽनन्यदेवतायागादिति । नतु मामभिजानन्ति तत्वेनेति त्रैविद्यस्यातिशयभक्तिज्ञानाभाव उक्तः । तत्वज्ञानाभावे भक्तयभावात्तत्प्रतियोगितयोक्तस्य पर्युपासत इत्यस्यार्थो भक्तयुद्रेकादिति । भक्तयुद्रेकेणोपासनस्यैव पर्युपासनत्वात् । स्वर्गतिं प्रार्थयन्ते कामकामा इति त्रैविद्यानां कामनमुक्तम् । तत्प्रतियोगितयोक्तस्य चिन्तयन्तो मामित्यस्यार्थोऽकामनादिति । मामेव चिन्तयन्तो न तु काममित्यर्थः । मामिष्ट्वा मामेव यजन्तीति त्रैविद्यानामन्ते समर्पणमुक्तं । तत्प्रतियोगितयोक्तस्य नित्याभियुक्तानामित्यस्यार्थः सदा योगादिति । सर्वदा स्मरणोद्देशादियोगादित्यर्थः। वैशिष्ट्यं फलेनाधिक्यम् । योगक्षेमं वहामीत्यपुनरावृत्तिपुरुषार्थदानस्योक्तत्वात् । वैष्णवादपि भगवद्याजित्वेऽपीत्यर्थः । पशून् देवताभ्यः प्रत्यौहदित्यादौ ब्रह्मादीनामप्यन्यदेवतायाजित्वं श्रूयत इत्यत आह ।। वैष्णवा इति ।। न तु देवतात्वेनेत्यर्थः ।
ननु त्रैविद्यानामविधिपूर्वकत्वविवरणरूपेण न तु मामभिजानन्तीति पदेन तत्वज्ञानाभाव उक्तस्तत्प्रतियोगितया भागवतस्य तत्वज्ञानं किमिति नोक्तमित्यतः पर्युपासनपदेनैवोक्तमिति भावेन तत्स्मृत्यैव व्याचष्टे ।। सम्यगिति ।। २०२३ ।।
किरणावली
फलभेदो न स्यादित्याशङ्क्य परिह्रियत इति ।। गतागतं कामकामा इत्यन्तेन त्रैविद्यानां स्वर्गस्य, अनन्याश्चिन्तयन्त इत्यनेन भागवतानां मोक्षस्य योगक्षेमपदोक्तस्य चोक्तया परिह्रियत इत्यर्थः ।। तत्र त्रैविद्यभागवतयोरिति ।। प्रपञ्च्यप्रपञ्चकभावमापन्नेषु श्लोकेष्वित्यर्थः । फलभेदः सहेतुकमुक्त इत्युक्तं हेतुभेदं फलभेदं तयोः स्पष्टत्वं चोपपादयन् मूलं व्याचष्टे ।। अन्यदेवताभक्ता यजन्त इतीति ।। अनन्या इत्यस्येति । अनन्याश्चिन्तयन्त इत्यत्रानन्या इत्यस्येत्यर्थः ।। अतिशयितभक्तिज्ञानेति ।। भक्तिज्ञानसामान्याभावे स्वर्गस्याप्यप्राप्तेरिति भावः । नन्वनेन ज्ञानाभावस्यैवोक्तत्वात्कथं भक्तयभाव उक्त इत्यत आह ।। तत्वज्ञानाभाव इति ।। भक्तयभावस्यार्थी व्युत्पत्तिरिति भावः ।। मामिष्ट्वेति ।। त्रैविद्या मामिति प्रपञ्चनीयग्रन्थे मामिष्ट्वेति येऽप्यन्यदेवता भक्ता इति विवरणग्रन्थे मामेव यजन्तीति चेत्यर्थः ।। सर्वदा स्मरणोद्देशादियोगादिति ।। सर्वदा स्मरणं प्रतिक्रियाकाले स्मरणम् । उद्देशस्तत्प्रीत्यर्थं करिष्य इति सङ्कल्पः । आदिपदेन समर्पणं गृह्यते । भवत्वेवं साधनभेदस्तस्य स्पष्टनं च भगवद्याजित्वतौल्येऽपि फलभेदः स्पष्टमत्र न दृश्यत इत्यत आह ।। वैशिष्टयमिति ।। ते पुण्यमासाद्य सुरेन्द्रलोकमित्यादिना स्वर्गफलत्वेनोक्तास्त्रैविद्यादपि फलेनाधिक्यं वैशिष्ट्यपदेनोक्तमित्यर्थः । गीतायामस्पष्टतयाऽप्यनुक्तं फलेनाधिक्यं कथं स्पष्टीक्रियत इत्यत आह ।। योगक्षेममिति ।। अप्राप्तप्राप्तिर्योगः, प्राप्तपरिरक्षणं क्षेमः । तथा च प्रागप्राप्तस्य मोक्षस्य प्राप्तिः, प्राप्तस्य परिरक्षणं तस्मादपुनरावर्तनं च वहामि ददामीत्युक्तत्वादित्यर्थः ।
भागवतस्य त्रैविद्याद्वैष्णवाद्भागवताच्च वैशिष्ट्यमित्यन्यथाप्रतीतेर्वैष्णवादित्येतस्त्रैविद्यविशेषणं विष्णुयाजिनोऽपि त्रैविद्यादित्यर्थ इत्यभिप्रेत्य भगवद्याजित्वसाम्ये कथं फलभेद इत्याशङ्कापरिहाराय तात्पर्यमाह ।। वैष्णवादपि भगवद्याजित्वेपीति ।। भागवतत्रैविद्ययोर्भगवद्याजित्वाविशेषेऽप्यनन्यदेवतायाजित्वाद्युक्तसाधनविशेषेणैव त्रैविद्याद्भागवतस्य फलाधिक्यमित्येतन्महदाचारेण समर्थ्यते तेन ब्रह्मादय इति । तेन फलाधिक्यैनैव निमित्तेन ब्रह्मादयो देवा अखिलाः कार्तयुगा भागवताश्च ।। इन्द्रादिनाम्नां केवलं भगवत्परत्वानुसन्धानेन देवतात्वेन केशवयाजिनोऽन्यदेवतास्तु विष्णुभक्ता एव इति बुध्द्यैव मानयन्ति न तु देवतात्वेनेत्यर्थः । एतच्च स्पष्टमाथर्वणभाष्ये ।। २० ।।
भावदीपः
सहेतुकमुक्त इति ।। भगवद्भजनप्रकाररूपो यः फलोपायस्तद्भेदहेतुकः फलभेद उक्त इत्यर्थः । तमेव भजनप्रकाररूपोपायभेदं फलभेदहेतुं व्यनक्ति ।। अन्यदेवतेत्यादिना ।। उक्तमिति ।। ययेति श्लोके उक्तमित्यर्थः ।। तत्प्रतियोगितया तद्विरोधितयेत्यर्थः ।। उक्तस्येति ।। गीतायामुक्तस्येत्यर्थः ।। उक्त इति ।। अत्रैवोपरितनश्लोके उक्त इत्यर्थः ।। कामनमुक्तमिति ।। पूर्वश्लोके ।। वैष्णवादपीत्यनुवादः । भगवदित्यादि व्याख्या ।। इत्यादाविति ।। वाजसनेयादौ ।। २०२३ ।।
भावप्रकाशः
सहेतुकमिति । अन्यदेवतायजनहरिभक्तयभावस्वर्गादिकामनान्तभगवत्समर्पणवत्वतदभावरूपकारणसहितत्वेनेत्यर्थः । नन्वनेन ज्ञानाभाव एवोक्तो न भक्तयभाव इत्यत आह ।। तत्वज्ञानाभाव इति ।। महात्म्यज्ञनापूर्वकस्नेहस्यैव भक्तित्वादिति भावः ।। यत्किञ्चिद्वैशिष्ट्यस्य प्रकृतानुपयोगादाह । वैशिष्ट्यं फलेनाधिक्यमिति । एवं व्याख्याने नियामकमाह । योगक्षेममिति । वैष्णवादित्येतद्भागवतादित्यन्यथाप्रतीतिनिरासाय व्याचष्टे ।। भगद्व्याजित्वेपीत्यर्थ इति ।। २०२३ ।।
वाक्यविवेकः
ननु अनन्या इत्यस्य अन्ये न भवन्तीत्येवं व्याख्यानं कार्यं अनन्यदेवतायागादिति व्याख्यानमयुक्तं तस्य पदस्य यागाद्यर्थत्वे ज्ञापकाभावादित्यत आह । भागवतानां तत्प्रयोगितयेति ।। पर्युपासत इति गीतापदस्य वक्ष्यमाणभक्तयुद्रेकादित्यर्थवाचित्त्वे ज्ञापकमाह ।। तत्प्रतियोगितयोक्तस्य पर्युपासत इत्यस्येति ।। एवमेवंजातीयके द्रष्टव्यम् ।। २०२३ ।।