गीता

हरेर्विभूतिनाम्नां विवरणम्

गीता

तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ।

ददामि बुद्धियोगं तं येन मामुपयान्ति ते ।। १० ।।

तेषामेवानुकम्पार्थमहमज्ञानजं तमः ।

नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ।। ११ ।।

अर्जुन उवाच—

परं ब्रह्म परं धाम पवित्रं परमं भवान् ।

पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ।। १२ ।।

आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा ।

असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ।। १३ ।।

सर्वमेतदृतं मन्ये यन्मां वदसि केशव ।

न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः ।। १४ ।।

स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम ।

भूतभावन भूतेश देवदेव जगत्पते ।। १५ ।।

वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः ।

याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ।। १६ ।।

कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् ।

केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ।। १७ ।।

विस्तरेणात्मनो योगं विभूतिं च जनार्दन ।

भूयः कथय तृप्तिर्हि ृण्वतो नास्ति मेऽमृतम् ।। १८ ।।

श्रीभगवानुवाच—

हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः ।

प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ।। १९ ।।

अहमात्मा गुडाकेश सर्वभूताशयस्थितः ।

अहमादिश्च मध्यं च भूतानामन्त एव च ।। २० ।।

आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् ।

मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ।। २१ ।।

वेदानां सामवेदोऽस्मि देवानामस्मि वासवः ।

इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ।। २२ ।।

रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् ।

वसूनां पावकश्चास्मि मेरुः शिखरिणा ।। २३ ।।

पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् ।

सेनानीनामहं स्कन्दः सरसामस्मि सागरः ।। २४ ।।

महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् ।

यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ।। २५ ।।

अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः ।

गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ।। २६ ।।

उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् ।

ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ।। २७ ।।

आयुधानामहं वज्रं धेनूनामस्मि कामधुक् ।

प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ।। २८ ।।

अनन्तश्चास्मि नागानां वरुणो यादसामहम् ।

पितॄणामर्यमा चास्मि यमः संयमतामहम् ।। २९ ।।

प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् ।

मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ।। ३० ।।

पवनः पवतामस्मि रामः शस्त्रभृतामहम् ।

खषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ।। ३१ ।।

सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन ।

अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ।। ३२ ।।

अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च ।

अहमेवाक्षयः कालो धाताहं विश्वतोमुखः ।। ३३ ।।

मृत्युः सर्वहरश्चाहं उद्भवश्च भविष्यताम् ।

कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ।। ३४ ।।

बृहत्साम तथा साम्नां गायत्री छन्दसामहम् ।

मासानां मार्गशीर्षोऽहं ऋतूनां कुसुमाकरः ।। ३५ ।।

द्यूतं छलयतामसस्मि तेजस्तेजस्विनामहम् ।

जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ।। ३६ ।।

वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः ।

मुनीनामप्यहं व्यासः कवीनामुशना कविः ।। ३७ ।।

दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् ।

मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ।। ३८ ।।

यच्चापि सर्वभूतानां बीजं तदहमर्जुन ।

न तदस्ति विना यत्स्यात् मया भूतं चराचरम् ।। ३९ ।।

नान्तोऽस्ति मम दिव्यानां विभूतीनां परंतप ।

एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ।। ४० ।।

तात्पर्यम्

येषां विष्णुस्वरूपाणां सन्निधेरन्यवस्तुषु ।

विशिष्टत्वं स्वजातेः स्याद् विभूत्याख्यानि तानि तु ।

ब्रह्मनामा ब्रह्मगतः सर्वदैवतसञ्चयात् ।

आधिक्यहेतुर्भगवान् सामस्थः सामनामकः ।

आधिक्यहेतुर्वेदेभ्यस्तथाऽश्वत्थस्थितो हरिः ।

उत्कर्षहेतुर्वृक्षेभ्यो य एवाश्वत्थनामकः’ इत्यादि विभूतितत्त्वे ।

केषु केषु च भावेषु’ इत्युक्तत्वाच्च ब्रह्मादिजीवेभ्योऽन्यदेव विभूतिरूपम् ।

द्विविधं वैभवं रूपं प्रत्यक्षं च तिरोहितम् ।

कपिलव्यासकृष्णाद्यं प्रत्यक्षं वैभवं स्मृतम् ।

भिन्नं ब्रह्मादिजीवेभ्यो जडेभ्यश्चापि तद्गतम् ।

स्वजात्याधिक्यदं तेषां तत् तिरोहितवैभवम्’ इत्यादि च ।

आत्माऽऽततगुणत्वेन स्वज्ञेयो यतो रविः ।

उदवन्मेघचलनान्मरीचिः साम साम्यतः ।

सुखात् सुखत्वात्तु शशी वेदो वेदनतो हरिः ।

वासवर्ती वासवोऽसौ चेतोनेता तु चेतना ।

पालकैर्वननीयत्वात् पवनो बोधनान्मनः ।

पावकः शोधनान्मेरुरीरो यन्माऽस्य सागरः ।

सारस्य गरणात् स्कन्दो जगतः स्कन्दनाद् भृगुः ।

भर्जनाज्जपयज्ञश्च जातपो याज्य एव च ।

अश्वाकारस्थितोऽश्वत्थ ऐराश्रीश्च तदाश्रयः ।

ऐरावतो नराणां यद् दद्यात् सर्वं स नारदः ।

हीश्रीसमाश्रयत्वाच्च हिमालय इतीरितः ।

वर्ज्यत्वादरिभिर्वज्रो वैनतेयो नतास्पदः ।

वासुकिर्वाससुखदः कन्दर्पः सुखभेदपः ।

अर्यमा ज्ञेयमातृत्वात् काल आकालनादपि ।

वरुणो वरणाद् द्वन्द्वो द्विरूपोऽन्तर्बहिर्यतः ।

मकरो मानकर्तृत्वाद् यमः संयमनाद् विभुः ।

प्रकाशिका

‘‘केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया’ इति प्रश्नो विष्णुकपिलदिनारायणावतारातिरिक्तरविमरीच्यादि विषय इत्यभिप्रेत्याह ।। द्विविधमिति ।। रवेण ईयते ज्ञायत इति रविः । उघदकस्यापि मरशब्दार्थत्वात् मे मरी तच्चालनान्मरीचिः ।। सारात् सारमितिवत् । विशेषेण नताश्रयो वैनतेयः । कन्दराः सुखभेदाः । तान्पिबतीति कन्दर्पः ।।

न्यायदीपिका

अत्र विभूतिरूपप्रश्नेऽहं ज्योतिषां रविरित्याद्युच्यते । तत्र स्वजात्यादिविशिष्टवस्तून्येव भगवतो विभूतिरूपाणीत्यन्यथाप्रतीतिं स्मृत्यैव निवारयति ।। येषामिति ।। स्वजातेरिति स्वजात्येकदेशाद्युपलक्षणम् । तदेव प्रपञ्चयति । ब्रह्मेति ।। अधिक्यहेतुरित्यादौ ब्रह्मण इत्यादि शेषः ।।

इतश्च न रव्यादिकमेव भगवतो विभूतिरूपं किं तु तत्रस्थमेवेत्याह ।। केष्विति ।। यद्यत्र रव्यादिकमेव विभूतिरूपं न तु तदन्तर्गतमिति स्यात्तदा केषुच भावेषु चिन्त्योऽसीति प्रश्नाननुगुणत्वं परिहारस्य स्यादिति भावः । जीवपदं जडस्याप्युपलक्षणम् । यदि तत्तत्पदार्थगतमेव विभूतिरूपं तर्हि सिद्धानां कपिलो मुनिः । मुनीनामप्यहं व्यासः वृष्णीनां वासुदेवोऽस्मि रामः शस्त्रभृतामहं, आदित्यानामहं विष्णुरित्युक्तानां कपिलादीनामपि भगवद्रूपत्वाभावः स्यादित्याशङ्कां स्मृत्यैव परिहरति ।। द्विविधमिति ।। वैभवं रूपं विभूतिरूपम् । अत्रापि स्वजातिपदमन्योपलक्षकम् । केषु केष्विति प्रश्नस्तिरोहितरूपविषय इति भावः । तत्तन्नामकं तत्तद्वस्तुगतं विभूतिरूपमित्युक्तम् । तत्र तत्तत्पदार्थैक्याभावे कथं तत्तन्नामकत्वमित्यतो योगवृत्त्या विभूतिरूपाणां तत्तन्नामकत्वं स्मृत्यैव दर्शयति ।। आत्मेति ।। रवेण वेदशब्देन ईयते ज्ञायत इति रविः । इण् गताविति धातुः । मरशब्दोदितोदकवान् मेघो मरी । तं चालयतीति मरीचिः । सुखात्सुखमतिसुखं शशम् । तद्वान् शशी । साम साम्यतः, वेदो वेदनत इत्यनेन सामवेदोऽस्मीत्येतद्व्याख्यातम् । वासः सर्वदेशस्तत्र वर्तत इति वासवः ।

पाः पालकास्तैर्वननीयत्वाद्भजनीयत्वात्पवनः । वनषणसम्भक्ताविति धातुः । पवशुद्धाविति धातोः शोधनात्पावकः । मा नास्ति ईरः प्रेरको यस्येति मेरः । तच्छीलत्वान्मेरुः । ताच्छील्यार्थादुनस्तथेत्युक्तेः । सारस्य सारविषयस्य गरणाद्भोक्तृत्वादित्यर्थः । स्कन्दनं स्वतो निष्कासनमिति यावत् । भर्जनाद्विरोधिनामिति शेषः । जाः जाताः तान्पातीति जपः, याज्यत्वाद्यज्ञ इति जपयज्ञः । अश्ववत्स्थित इत्यश्वत्थः । तदैरं मदीयं सर इत्यादेः ऐरं श्रीः । तां अवतीत्यैरावतः । नराणामपेक्षितं नारं, तद्ददातीति नारदः । ह्रीमाऽऽलयः एव हिमालयः । विशेषेण नता विनताः । तदास्पदतया तत्सम्बन्धी वैनतेयः । वासस्य कं सुखं वासकम् । तदेवाधिक्येऽधिकमित्यतो वासुकं दातृत्वेन तद्वान् वासुकिः । कस्य सुखस्य दराः प्रभेदाः कन्दराः । तान् पिबति अनुभवतीति कंदर्पः । पापान इति धातुः । ऋगताविति धातोरर्यं ज्ञेयं तन्माति जानातीत्यर्यमा । कलज्ञान इति धातोराकलनं ज्ञानम् । वरणं सुखं यस्यासौ वरुणः । णो हि निर्वृतिवाचक इत्युक्तेः। वृणोतीति वरुण इति वा । माङ्मान इति धातोर्मा ज्ञानम् । ऊनार्थे चोनमिष्यत इत्यतो लोकस्याल्पं मां करोतीति मकरः । स्वात्मानं मृगयन्तो भक्ता मृगाः, तदधिपतित्वान्मृगेन्द्रः । असारतया संसारं जहतो वृणोतीति मकरः ।

किरणावली

स्वजात्येकदेशादीति ।। आदिपदेन विजातीयग्रहणम् । शश्यादिषु विजातीयस्वाम्यद इति वक्ष्यमाणत्वात् ।। तदेवेति ।। सजातीयश्चैष्ठ्यप्रदत्वं सजातीयैकदेशश्रैष्ठ्यप्रदत्वं चेत्यर्थः ।।

वेदेभ्य इत्यत्र ऋग्वेदव्यतिरिक्तेभ्य इति विवक्षितत्वात् । जीवेभ्यो जडेभ्यश्चेति वक्ष्यमाणत्वादाह ।। जीवपदमिति ।। कृष्णाद्यमित्यादिपदार्थमाह ।। राम इति ।। यद्यपि गीताक्रममनुसृत्यादित्यानामहं विष्णुरित्युदाहृत्य राम इत्याद्युदाहर्तव्यम् । तथापि कपिलव्यासकृष्णाद्यमित्यत्र क्रमो नाश्रित इति तदनुसारेण क्रमपरित्यागः । यद्वा गीतोक्तेषु भगवदवतारेषु कपिलस्य तृतीयस्य प्रथमतो ग्रहणादादिशब्देन व्युत्क्रमविवक्षया द्वितीयस्य रामस्य प्रथममनन्तरमाद्यस्य विष्णोर्ग्रहणमिति ध्येयम् । मूले आत्माततगुणत्वेनेत्यनेनाहमात्मा गुडाकेश इत्यत्रत्यात्मशब्दो व्याख्यातः । स्पष्टत्वाट्टीकायां व्याख्यानव्याख्येयभावो न प्रदर्शितः । एवमुत्तरत्रापि ।। मरशब्दोदितोदकेति ।। यद्यप्यंभोमरीचीर्मरमाप इत्यैतरेये पृथिव्यां क्षिप्रं मरंतीति पृथिवीमर इति व्याख्यातम् । तथाप्युदकवाचित्वमप्यस्ति । उदके पतितानामपि क्षिप्रं मरणोपलब्धेः । तदुक्तं श्रीपद्मनाभतीर्थभट्टारकैः । उदकस्यापि मरशब्दार्थत्वादिति ।। सुखात्सुखमिति ।। रमादिस्वरूपसुखादपीति पञ्चमीनिर्देशेन तदपेक्षयाऽतिशयलाभादिति भावः । साम साम्यत इत्यस्य शशिपदव्याख्यानेन व्यवहितत्वेऽपि सामवेद इति समस्तपदस्येह व्याख्यातत्वाद्योग्यतया वेदो वेदनत इत्यनेनैकवाक्यतया योजनां दर्शयति ।। सामेति ।। वासः सर्वदेश इति ।। वसन्त्यत्रेति व्युत्पत्त्येति भावः । मूले भूतानामस्मि चेतनेत्यस्य व्याख्यानं चेतोनेतेति । तैर्वननीयत्वादिति इत्यर्थः । इन्द्रियाणां मन इत्यस्यार्थः बोधनादिति । मननान्मनः मननं बोधनमित्यर्थ इति भावः ।

मेरुरीर इत्यस्य यद्यस्मादस्य हरेरीरयतीतीरः प्रेरको मा नास्ति तस्मान्मेरुरित्यर्थं मनसि निधाय मेरुशब्दस्य विग्रहं समासेऽधिकस्योकारस्यार्थमाह ।। मेरुरिति ।। तच्छीलत्वात्प्रेरकान्तरशून्यस्वभावत्वात् ।। उक्तेरिति ।। अनुव्याख्यायामिति शेषः । सारस्य गरणादित्यत्र सारो रसो मधुरादिरिति प्रतीतेस्सारशब्दस्य श्रैष्ठ्यवाचकत्वं मनसि निधाय विशेष्यमध्याहृत्यार्थमाह ।। सारस्येति ।। सागर इत्येव सारशब्दस्य सादेश इति भावः । बृहत्सामेत्यत्राप्येवमनुसन्धेयम् । तदैरं मदीयं सर इति छन्दोगश्रुतेरयमर्थः । तत्तत्रश्वेतद्वीपे मदीयं मदकरं लक्ष्मीस्वरूपं सरोऽस्तीति । ह्रीश्रीसमाश्रयत्वादिति मूलस्य ह्रीश्रीनाम्नयाः माशब्दितश्रीनाम्नया लक्ष्म्या द्विरूपायास्समाश्रयत्वादित्यर्थः । आयुधानामहं वज्रमित्यस्य व्याख्यानं मूले वर्ज्यत्वादिति । वज्रवद्भयदं चैवेति व्याख्यानान्तरमिति ज्ञेयम् । आधिक्येऽन्तरनिरुद्धरूपेणेति । अन्तर्बहिश्च तत्सर्वं व्याप्यनारायणः स्थित इत्यत्र त्वेकरूपेण व्याप्तिरुच्यत इति ज्ञेयम् । मकर इति भाष्ये मकर इति ह्रस्वाकारप्रयोगे प्रयोजनमाह ।। ऊनार्थ इति ।। यमः संयमनादित्यादेरतिरोहितत्वाट्टीकायां न व्याख्यातम् ।

भावदीपः

स्वजात्यादीति ।। स्वजात्यादिभ्यो विशिष्टवस्तुनि श्रेष्ठवस्तुनीत्यर्थः । वासवादेः स्वजातिसर्वदेवेभ्यः श्रैष्ठ्याभावात् क्वचिद्विजातितोऽपि श्रैष्ठ्यस्य गीतायामुक्तेराह ।। स्वजात्येकदेशाद्युपलक्षणमिति ।। इत्यादि शेष इति ।। वेदेभ्य आदिक्यहेतुरित्यत्र साम्न इति उत्कर्षहेतुरित्यत्राश्वत्थस्येत्येवं रूपेणेति भावः ।। इण् गताविति धातुरिति ।। स्वशब्दोपपादादिणः क्विपि उपपदान्तलोपे रविरिति रूपमिति भावः ।। वासः सर्वदेश इति ।। वसतेरधिकरणे घञिति भावः ।। वर्तत इति ।। वृतेर्ड इति भावः ।। पाः पालका इति ।। पा रक्षण इत्यतो विच्प्रत्ययः ।। मा इत्यनुवादः नास्तीति व्याख्या ।। स्वत इति ।। स्वस्मादित्यर्थः ।। इत्यादेरिति ।। अष्टमाध्यायछन्दोगश्रुतेरित्यर्थः ।। तत्सम्बन्धी वैनतेय इति ।। सम्बन्धार्थे उक्प्रत्यय इति भावः । मत्वर्थे इकार प्रत्यय इत्युपेत्याह ।। तद्वान् वासुकिरिति ।। माकर इत्यनुक्त्वा मकर इत्युक्तिकृत्यमाह ।। ऊनार्थ इति ।।

भावप्रकाशः

शश्यादिषु विजातीयस्वाम्यद इति वक्ष्यमाणानुसारेणाह । स्वजात्येकदेशाद्युपलक्षणमिति । आदिपदेन विजातीयग्रहणम् । भिन्नं ब्रह्मादिजीवेभ्यो जडेभ्यश्चापीति वक्ष्यमाणानुसारेणाह । जीवपदमिति । मूलगतादिशब्दानुसारेणाह ।। रामः शस्त्रभृतामहमिति । आदित्यानामिति । अस्य गीतायां प्रथममुपात्तत्वेऽपि भाष्यगतादिपदेनान्ते गृहीतत्वादत्राप्यन्ते गृहीतमिति ज्ञेयम् ।। अन्योपलक्षकमिति ।। स्वजात्येकदेशाद्युपलक्षकमित्यर्थः ।। अत्र प्रश्नाननुगुणत्वं दोषं परिहरति । केषु केषु चेति । मरशब्दोदितोदकवानिति । गीतायां केवलसामशब्दस्य वेदशब्दस्य चाभावादाह ।। सामसाम्यत इति । तच्छीलत्वादित्युक्तार्थेऽनुव्याख्यानसंमतिमाह । ताच्छील्यार्थादिति । ऐरशब्दस्य श्रीवाचित्वे श्रुतिमाह ।। तदैरमिति । तत्तत्र श्वेतद्वीपे ऐरं लक्ष्म्यात्मकं मद्यसरोस्तीति श्रुत्यर्थः । ऐरमिराख्यवृक्षसम्बन्धीति स्वयूथ्यव्याख्यानम् । इराऽन्नं तन्मय ऐरो मण्डस्तेन पूर्णमैरमिति परकीयव्याख्यानं चैरं श्रीरिति व्याख्यानरूपप्रमाणविरुद्धत्वादेवासदिति द्रष्टव्यम् ।। नतास्पदत्वे नतेय इत्येव स्यादित्यत आह । विशेषेण नता इति । आधिक्येऽधिकमिति । अर्थाधिक्ये विवक्षिते शब्दरूपमधिकं भवतीति चिरन्तनसूत्रार्थः । वरुण इति । वरं णं यस्यासौ वरणः स एवाधिक्येऽधिकमिति अतो वरुण इत्यर्थः ।। ऊनार्थे चेति । अर्थोनत्वे विवक्षिते शब्दरूपमूनमिष्यत इति चिरन्तनसूत्रार्थः ।।

वाक्यविवेकः

तत्र स्वजात्यादिविशिष्टवस्तून्येवेति । वृक्षत्त्वेन सजातीयवृक्षोत्तमाश्वत्त्थादीनि वस्तूनि तथा विजातीयनक्षत्राद्युत्तमादिवस्तून्यपि भगवतो विभूतिरूपाणीत्यन्यथाप्रातीतिं स्मृत्यैव निवारयतीत्यर्थः । अर्जुनादीनां पाण्डवाद्युत्तमत्वादाह ।। स्वजात्येकदेशाद्युपलक्षणमिति ।। ब्रह्मादिजीवेभ्य इत्युक्तत्वात् । आयुधानामहं वज्रमित्यादौ उच्यमानविभूतिरपजडात्मकमिति भ्रमः स्यात् अत आह । जीवपदमिति ।। अत्रापीति । स्वजात्याधिक्यदं तेषामित्यत्रापीत्यर्थः ।। इणगताविति धातुरिति ।। रवशब्दोपपदादिणे ङि(क्विप्)प्रत्यय उपपदांत्यलोपश्चेति भावः ।। मरशब्देति । मरशब्दात् मत्त्वर्थ इकारप्रत्यये मरशब्दाकारलोपे मरीति रूपम् । मरिशब्दोपपदात् अन्तर्णीतण्यर्थात् च लोहिप्रत्यये(?) मरीचिरिति रूपम् । वासव इति । वासशब्दोपपदात् वृतेर्डप्रत्यये वासव इति रूपम् । पाः पालका इति । पातेर्ड प्रत्ययतेवन रप्रत्यये पावन इति रूपमिति भावः । उक्तरूपं सूचयति । वनषणेति । सारस्येति । सारशब्दोपपदात् गृणातेरति रशब्दलोपे सारेति रूपमिति भावः ।। जा जाता इति । जनेर्डः यातेः कः यजेर्यजया च यतविच्छ प्रच्छरक्षोनडिति नड् ततश्च जातानां पालकश्चेति यज्ञ इत्यर्थः ।। अश्ववदिति ।। उपमानवाचिन्यश्वशब्दे प्राज्यश्चेति उपपदे तिष्टतेः कः । सकारस्य तकारः । तथा च अश्वत्थ इति रूपमिति भावः । इरशब्दस्य श्रीवाचित्वे श्रुतिमाह । तदैरमिति । तत्र श्वेतद्वीपे ऐरं लक्ष्म्यात्मकं मदीयं मद्यं सरोऽस्तीति श्रुत्यर्थः ।। ह्रीमाऽऽलय इति । ह्रीमेति महालक्ष्मीरूपयोराश्रयो हिमालयः ।। ह्रीशब्दे रेफलोपात् ह्रस्वत्वमिति बोध्यम् । वैनतेय इति । विशेषेण नता विनताः विनताशब्दात् ढक्प्रत्यये तस्य यादेशे वैनतेय इति रूपम् ।

वासस्य कं सुखमिति ।। अत्र आधिक्ये अधिकमित्यत इति प्रक्षिप्तम् । वास इत्यत्राकारस्थाने उकारस्य जातत्वेनाधिक्याभावात् ।। ततश्चायं टीकावाक्यपाठः ।। वासस्य कं सुखं वासकं तदेव वासुकमिति वासुकशब्दात् मत्वर्थे इकारप्रत्यये वासुकिरिति रूपम् । कंदर्प इति कन्दरशब्दोपपदात् पिबतेः कप्रत्यये उपपदांत्यलोपे कंदर्प इति रूपम् । कंदर्प इति रूपसिद्धिप्रकारं सूचयति ।। पापान इति । अर्यमेति । ऋगतावित्यतः बाहुलिकोऽयमिति भावः । वरुण इति वेति । वृञ उन्प्रत्यये गुणे वरुण इति रूपम् । उनार्थ इति । मात्राद्वयप्रयोगे एकमात्राप्रयोगात् मकर इति निर्द्देशो न्यून इति भावः ।। असारतयेति । ओहाक्त्याग इत्यस्मात् शृप्रत्यये शपि तस्य श्लाविति द्विर्वचने आभ्यां मस्य ह्रस्वत्वाभावे धात्वाकारलोपे जाहेति रूपम् । वृणोतेर्डप्रत्यये कृदिकारादक्तिन इति ङीपि वीति रूपमाश्रयत्वार्थकं ततश्च जान्हानां वी जाह्ववीति भवतीति भावः ।। द्यूतशब्दनिष्पत्तिं सूचयति । दिव् क्रीडेत्यादीति । दिवेः क्तप्रत्यये वकारस्योठि यणादेशे द्यूतमिति रूपम् । बृहत्सार इति । अत्र वृहत्स इति प्रक्षिप्तम् । बृहत्सारो बृहत्समित्युच्छिन्नम् । अम इति प्रक्षिप्तं अमेत्युच्छिन्नम् । ततश्चैवं टीकावाक्यपाठः वृहत्सारो बृहत्सं अमेयत्वादमेति बृहत्सामेति । अवश्यं चैतदेवं विज्ञेयं बृहत्सामेत्यस्य नकारान्तनपुंसकत्वात् ।। उशनेति रूपसिद्धिं स्मारयति । उश इच्छायामिति धातोरिति ।। उश इच्छायामित्यस्मात्करसि प्रत्यये उनङ्ङादेशे उशनेति रूपमिति भावः ।। ४० ।।

इति श्रीसत्यनिधितीर्थश्रीचरणचरणारधकेश्रीसत्यनाथयतिविरचिते

न्यायदीपिकाव्याख्याने वाक्यविवेके दशमोऽध्यायः ।।

Load More