गीता

गीता

ये चैव सात्त्विका भावा राजसास्तामसाश्च ये ।

मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ।। १२ ।।

तात्पर्यम्

ये चैव सात्त्विका भावा राजसास्तामसाश्च ये ।

तत एव नचान्यस्मात् तदायत्तमिदं न सः ।।

अन्यायत्तः ।। १२ ।।

प्रकाशिका

न तु अहं तेषु ते मयि इत्यस्य प्रातिलोम्येन व्याख्यानम् । तदायत्तमिदं न स अन्यायत्त इति ।। १२ ।।

न्यायदीपिका

न केवलं रसादिधर्मप्रेरकः किन्नामाबादिप्रेरकश्चेत्याह ।। येचेति ।। यथा भगवदधीनमिदमेवं भगवानेतदधीनोऽस्तु, भूभूधरवदित्यत आह ।। तदायत्तमिति । इदमेव तदायत्रं नत्वसावेतदायत्त इति भावः । अनेन नत्वहं तेषु ते मयीत्यस्य वैलोम्येनार्थ उक्तो भवति ।। १२ ।।

किरणावली

प्रेरकश्चेत्याहेति ।। प्रेरकश्चेत्यभिप्रायेण प्रवृत्तस्य ये चैव सात्विका भावा इति गीतावाक्यस्यार्थमाहेत्यर्थः । सात्विकादयस्तत एवेत्यर्थेनैव पूर्णत्वात्तदायत्तमिदमिति पुनरुक्तमित्यत अवतार्य व्याचष्टे ।। यथेत्यादिना ।। वैलोम्येनेति ।। गीतापाठक्रमव्यत्यासेनेत्यर्थः ।। १२ ।।

भावदीपः

गीतामवतारयति ।। न केवलमिति ।। भूभूधरवदिति ।। भूमेः पर्वतानां चान्योन्याश्रयभावस्तथेत्यर्थः ।। वैलोम्येनेति ।। पूर्वापरभावेनेत्यर्थः । लक्ष्म्यां मायाशब्दनिर्वचनपरं तन्मेयत्वादिति पदम् ।। १२ ।।

भावप्रकाशः

ननु परस्य रमाधीनत्वं कुत्र दृष्टमित्यत आह ।। भूभूधरवदिति ।। इदं तदायत्तं न तत् अन्यायत्तमिति प्रतीतिनिरासाय व्याचष्टे ।। इदमेव तदायत्तमिति ।। एतदायत्तमितीति । तथाच तस्यान्यायत्तत्वाभावेऽप्येतदायत्तत्वं किं न स्यादिति चोद्यानवकाश इति भावः ।। वैलोम्येनेति ।। पाठक्रमव्यत्यासेनेत्यर्थः ।। १२ ।।

वाक्यविवेकः

वैलोम्येनार्थ उक्तो भवतीति ।। नत्वहं तेषु ते मयीत्यत्र नत्वहं तेष्वित्यस्य पश्चात् व्याख्यातम् ।। ते मयीत्यस्य पूर्वं व्याख्यातमित्यर्थः ।। १२ ।।