गीता
गीता
अर्जुन उवाच—
अपरं भवतो जन्म परं जन्म विस्वतः ।
कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ।। ४ ।।
श्रीभगवानुवाच—
बहूनि मे व्यतीतानि जन्मानि तव चार्जुन ।
तान्यहं वेद सर्वाणि न त्वं वेत्थ परंतप ।। ५ ।।
तात्पर्यम्
‘जानन्तोऽपि विशेषार्थज्ञानाय स्थापनाय वा ।
पृच्छन्ति साधवो यस्मात्तेन पृच्छसि पार्थिव’
इत्याग्नेयवचनान्नार्जुनो भगवन्तं न जानाति ।। ४ ।।
प्रकाशिका
‘‘अपरमिति’’ अर्जुनवचनाभिप्रेतार्थमाह ।। जानन्तोऽपीत्यादिना ।। ४,५ ।।
न्यायदीपिका
इदानींतनत्वाद्भगवतो विवस्वतः प्राचीनत्वात्कथं तदुपदेष्टृत्वमिति पृच्छति ।। अपरमिति ।। तत्रार्जुनस्य भगवदज्ञानित्वप्रतीतेः प्रागुक्तानुपपत्तिरित्यत आह ।। जानंतोपीति ।। नैवं प्रश्नेनार्जुनो भगवन्तमनादिनित्यं न जानातीति कल्प्यम् । जानन्तोऽपीति वचनात्प्रश्नस्य विशेषज्ञानाद्यर्थत्वोपपत्तेरिति भावः । स्थापनाय ज्ञातस्य दृढीकरणाय ।। ४,५ ।।
किरणावली
प्रागुक्तेति ।। पार्थानामतिरोधानं ज्ञानं सुस्थिरतां गतमित्यादौ प्रागुक्तस्यापरोक्षज्ञानित्वस्यानुपपत्तिरित्यर्थः ।। ४,५ ।।
भावदीपः
प्रागुक्तानुपपत्तिरिति ।। साक्षादिन्द्रावतारमुत्तमाधिकारिणमात्मनः प्रियतममर्जुनमित्यनेनोक्तस्य तथा पार्थानामतिरोधानं ज्ञानं सुस्थिरतां गतमित्युक्तस्य ज्ञानित्वस्य चानुपपत्तिरित्यर्थः । भवत इति षष्ठ्यन्तम् । तवेत्यर्थः ।। ४,५ ।।
भावप्रकाशः
भगवदज्ज्ञानित्वप्रतीतेरिति । भगवदनादिनित्यत्वाज्ञानित्वप्रतीतेरित्यर्थः ।। प्रागुक्तानुपपत्तिरिति ।। तत्र साक्षादिन्द्रावतारमुत्तमाधिकारिणमित्यादिना यदर्जुनस्य भगवद्ज्ञानित्वमुक्तं तदनुपपत्तेरित्यर्थः ।। ४ ।।
वाक्यविवेकः
ननु न त्त्वं वेत्थ परंतपेति ज्ञानाभावस्य वक्ष्यमाणत्वाद्ज्ञानाभावनिषेधोऽनुपपन्न इत्यत आह । नैवं प्रश्नेनेति । आनादिनित्यताज्ञानाभावस्यैव निषेधात् नत्वं वेत्थ परंतपेत्युत्तरवाक्यविरोधो नेति भावः । दृढीकरणायेति । जन्मवतो मे ब्रह्मविषयकदृढज्ञानसंपादनायेति भावः ।।४।।