गीता

गीता

वेदाहं समतीतानि वर्तमानानि चाऽर्जुन ।

भविष्याणि च भूतानि मां तु वेद न कश्चन ।। २६ ।।

तात्पर्यम्

यथाऽऽत्मानं हरिर्वेत्ति तथाऽन्ये नैव तं विदुः ।

जानन्ति किञ्चित् क्रमशो रमाद्यास्तत्प्रसादतः’ इति च ।। २६ ।।

प्रकाशिका

मां तु वेद न कश्चनेत्यस्यार्थमाह ।। यथाऽऽत्मानमिति ।। २६ ।।

न्यायदीपिका

यदि मायावशादज्ञानं लोकस्य भगवद्विषयं तर्हि भवतोपि लोकविषयं तदस्ति किम् । कुड््योभयभागावस्थितयोरन्योन्यादर्शनवदित्यत उच्यते ।। वेदाहमिति ।। तत्र कस्यापि भगवज्ज्ञानाभावे वेदादिवैयर्थ्यापत्तेः कथं मां तु वेद न कश्चनेत्युच्यत इत्यतस्तत्स्मृत्यैव व्याचष्टे ।। यथेति ।। २६ ।।

किरणावली

यदिमायावशादिति ।। अव्यक्तत्वोपपादनाय नाहं प्रकाशः सर्वस्य योगमायासमावृत इत्युक्तमायावशादित्यर्थः ।। २६ ।।