तात्पर्यम्
तात्पर्यम्
‘ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः ।
तेषामहं समुद्धर्ता’ (गीता)
इत्यादेः । जीवपक्षे नित्यस्योक्ता इत्युक्तत्वादनाशिन इति पुनरुक्तिः । ‘अविनाशि, येन सर्वमिदं ततमि’ त्युक्तत्वादनाशिन इति पुनरुक्तिः । ‘अविनाशि, येन सर्वमिदं ततमि’ त्युक्तस्यैवानाशिनोऽप्रमेयस्येति प्रत्यभिज्ञानाच्च ।
न्यायदीपिका
अस्त्वीश्वरस्य सातिशयत्वान्मोक्षप्रदानशक्तिः । तथापि स्वकर्मणाराधितो हरिर्मोक्षं ददातीत्येतद्गीताभिमतमित्येतत्कुतः । मुक्तेर्ज्ञानभक्तिसाध्यताया गीताभिमतत्वादित्यत आह ।। येत्विति ।। केवलकर्मणा मोक्षसिद्धेर्गीतानभिमतत्वेऽपि भक्तिज्ञानसहितेन साभिमतैव । येतुसर्वाणीति तथोक्तत्वात् । तादृशं च कर्मात्राभिप्रेतमिति भावः । मत्परा इत्यनेन भगवज्ज्ञानमुच्यते । अनन्ययोगोऽनन्यभक्तिः ।
अनाशिनोऽप्रमेयस्येति प्रकृतशरीरिविषयं किं न स्यादित्यत आह ।। जीवेति ।। जीवपक्षेऽनाशिनोऽप्रमेयस्येत्यत्र जीवो वाच्य इति पक्षे । ईश्वरग्रहणपक्षे स्फुटमर्थभेदसम्भवात्तद्विहाय कथंचिदर्थभेदकथनं न युक्तमित्यत्रोच्यते । भाष्येतु मुख्यार्थे सिद्धे गौणमप्यर्थान्तरमुच्यत इत्यविरोधः। नकेवलं जीवपक्षे पुनरुक्तेरीश्वरपरत्वं अपितु तज्ज्ञापकसद्भावाच्चेत्याह ।। अविनाशीति ।। अविनाशीत्यत्र भगवता तावदीश्वर एव प्रतिपाद्य इति समर्थितम् । तत्र यदुक्तमविनाशित्वं तदेवात्र प्रत्यभिज्ञायते अनाशिन इति । यदपि सर्वततत्वमुक्तं तदेवाप्रमेयस्येति प्रत्यभिज्ञायते । अतोप्यत्रेश्वर एवोच्यत इति भावः ।
किरणावली
ज्ञानभक्तिसाध्यताया इति ।। ‘‘एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ।’’ ‘‘भक्तया त्वननन्यया शक्य’’ इत्यादिगीताभिमतत्वादित्यर्थः ।। भक्तिज्ञानसहितेनेति ।। भक्तिज्ञानपूर्वकमनुष्ठितेन तत्साधनेन चेत्यर्थः ।। मत्परा इत्यनेनेति ।। अहमेव पर इति ज्ञानं येषान्ते मत्परा इति तदर्थाङ्गीकारादिति भावः । अनन्येनैव योगेन मां ध्यायन्त उपासत इत्युत्तरार्धे भक्तिरुक्तेति भावेन व्याचष्टे ।। अनन्ययोगोऽनन्यभक्तिरिति ।। जीवपक्ष इत्यस्य जीवस्य वाच्यत्वपक्षो जीवपक्ष इत्यर्थमभिप्रेत्याह ।। जीवपक्षे अनाशिनोऽप्रमेयस्येत्यत्र जीवो वाच्य इति पक्ष इति ।। (अत्र क्वचिदेतद्वाक्यानन्तरं न केवलमित्यतः पूर्वं ईश्वरग्रहणपक्षे स्फुटमर्थभेदसम्भवात्तद्विहाय कथंचिदर्थभेदकथनं न युक्तमित्यत्रोच्यते । भाष्ये तु मुख्यार्थे सिद्धे गौणमप्यर्थान्तरमुच्यत इत्यविरोध इति पाठो दृश्यते । तस्यायमर्थः ।
नन्वत्र जीवपक्षे पुनरुक्तया वाच्यत्वनिराकरणं भाष्यविरुद्धम् । तत्रास्तु तर्हि दर्पणनाशात्प्रतिबिम्बनाशवदात्मनाश इत्यत आह ।। नित्यस्येति ।। न च नैमित्तिकनाश इत्याह ।। अनाशिन इतीति ।। नित्यस्येत्यनेनोपाधिनाशप्रयुक्तनाशाभावोऽनाशिन इत्यनेन नैमित्तिकनाशाभाव उच्यत इति पौनरुक्तयपरिहारेण जीवपरत्वस्योक्तत्वादित्यत एतद्ग्रन्थाभिप्रायं तावदाह ।। ईश्वरग्रहणपक्ष इति ।। नित्यस्येत्यत्र जीवस्य स्वरूपनाशाभाव उक्तः । अनाशिन इत्यत्र तद्वैलक्षण्यं वक्तुमीश्वरस्य सर्वप्रकारेणाविनाशित्वमुच्यत इति स्फुटमर्थभेदसम्भवात् । तर्हि तद्विहाय तमर्थं सर्वथा परित्यज्य केवलं जीवस्यैवात्र प्रतिपाद्यत्वं स्वीकृत्य कथंचिज्जीवस्यैवौपाधिकनैमित्तिकनाशाभावपरतयाऽर्थभेदकथनं न युक्तमित्यत्रोच्यते इत्यर्थः । भाष्याभिप्रायमाह ।। भाष्ये त्विति ।।) मूले प्रत्यभिज्ञानाच्च पुनरुक्तिरित्यन्वयः प्रतीयते । तदसङ्गतं पौनरुक्तया प्रतीतेः । न चानेनेश्वरपक्षसाधकमुच्यत इति वाच्यम् । एकस्य साधकस्यानुक्तत्वेन चशब्दवैयर्थ्यादित्यतोऽवतारयति ।। न केवलमिति ।।
भावप्रकाशः
अहं परः सर्वोत्तमः इत्यनुसन्धानं येषां मत्परा इत्यर्थमभिप्रेत्याह । मत्परा इत्यनेनेति ।। अनन्येनैव योगेनेत्युत्तरार्धे भक्तिरुक्तेत्याह ।। अनन्ययोग इति ।। नैय्यायिकपक्ष इतिवत् जीवपक्षो जीवसिद्धान्त इति प्रतीतिनिरासाय व्याचष्टे जीवपक्ष इति ।। नित्यस्येत्यनेनौपाधिकनाशाभावमुक्त्वा अनाशिन इत्यनेन नैमित्तिकनाशाभाव उच्यत इति न पुनरुक्तिरित्यरुच्या दूषणान्तरप्रतिपादकमविनाशीति मूलवाक्यमवतारयति । न केवलं जीवपक्ष इति ।। समर्थितमिति ।। यद्यपि नित्यत्वं जीवस्यास्तीत्यनेनेत्यर्थः ।। अतोऽत्रेश्वर एवोच्यत इति ।। ननु भाष्येऽनाशिन इति श्लोको जीवप्रतिपादक इति व्याख्यातत्वात्तद्विरोधः स्यादिति चेन्न । भाष्येऽनाशिनोऽप्रमेयस्येत्युक्तस्य अविनाशि, येन ततमित्युक्तप्रत्यभिज्ञानत्वाविवक्षया जीवस्य प्रतिपाद्यत्वाङ्गीकारेऽपि अत्र तद्विविक्षया जीवस्य प्रतिपाद्यतानिषेधात् ।
वाक्यविवेकः
अनन्येनैव योगेनत्यनेन भगवद्भक्तिरुच्यत इत्यभिप्रेत्य तदर्थमाह । अनन्ययोगोऽनन्यभक्तिरिति । शरीरिविषयं किं न स्यादितीति । नित्यस्य अविनाशिनोऽप्रमेयस्य शरीरिण इमे देहा अन्तवन्त इत्यन्वयसम्भवादिति भावः ।। जीव एव वाच्य इति पक्ष इति ।
इतः परमेकस्यां टीकायाम् – इश्वरग्रहणे स्पष्टमर्थभेदसम्भवात्तद्विहाय कथंचिदर्थभेदकल्पनं न युक्तमित्यत्रोच्यते । भाष्येत्वमुख्यार्थसिद्धये गौणमप्यर्थान्तरमुच्यत इत्यविरोधः इति वाक्यं श्रूयते । तस्यार्थः– ननु अनाशिनोऽप्रमेयस्येत्यत्र जीवस्य प्रतिपाद्यत्त्वाङ्गीकारे नित्यस्येत्यनेन पुनरुक्तिप्रसङ्गात् न जीवः प्रतिपाद्यः किंतु इश्वरः प्रतिपाद्य इति । अत्रोच्यते । भाष्येतु अनाशिन इत्यनेन नैमित्तकनाशाभाव उच्यते अतो नित्यस्येत्यनेन पुनरुक्तेरभावात् अनाशिनोऽप्रमेयस्येत्यत्र जीवस्य प्रतिपाद्यत्वं सम्भवतीत्युच्यते । अतो विरोध इत्याशङ्कां परिहरति । ईश्वरग्रहण इति अमुख्यार्थ इति । अनाशिनोऽप्रमेयस्येत्यत्र मुख्यार्थस्य भगवतः प्रतिपाद्यत्वमङ्गीकृत्यामुख्यार्थस्य जीवस्यापि प्रतिपाद्यत्वसिद्धये अनाशिनोऽप्रमेयस्येति पदद्वयस्य नैमित्तकनाशशून्यस्य अप्रमेयसरूपस्येति गौणमप्यर्थान्तरमुच्यत इत्यर्थः । टीकान्तरेतु भाष्यविरोधः शिष्यैरेव परिहर्त्तुं शङ्क्यत इति न परिहृतेति बोध्यम् ।