तात्पर्यम्

हरः ब्रह्मणोऽङ्कगतः

तात्पर्यम्

कमलासने ब्रह्मणि स्थितं रुद्रम्

विष्णुं समाश्रितो ब्रह्मा ब्रह्मणोऽङ्कगतो हरः ।

हरस्याङ्गविशेषेषु देवाः सर्वेऽपि संस्थिताः’ इति पाद्मे ।। १५१८ ।।

न्यायदीपिका

दृष्टविश्वरूपो दृष्टानुवादव्याजेन स्तौति ।। पश्यामीति ।। तत्र कमलरूपासने स्थितं ब्रह्माणमित्यल्पार्थत्वप्रतीतिनिरासाय कमलासनस्थपदं व्याचष्टे ।। कमलेति ।। कथं ब्रह्मणो ब्रह्मणि स्थितत्वमित्यतोरुद्रस्ये शपदोदितस्येदं विशेषणमिति भावेनाह ।। रुद्रमिति ।। भवेदिदं व्याख्यानं यदि रुद्रस्य ब्रह्मणि स्थितत्वं भवेत्तदेव कुत इत्यत आह ।। विष्णुमिति ।। १५१८ ।।

किरणावली

अल्पार्थत्वप्रतीतिनिरासायेति ।। कमलरूपासने स्थितमीशं समर्थं ब्रह्माणमित्यर्थोक्तावल्पार्थत्वं रुद्रस्यापरिगृहीतत्वात्कमलासनस्थं ब्रह्माणमीशं चेत्यर्थोक्तौ रुद्रस्य ब्रह्माश्रितत्वरूपार्थविशेषाप्राप्त्याल्पार्थत्वमित्यर्थः । हे देव तव देहे तत्तदङ्गेषु सर्वान्देवान्भूतविशेषसङ्घांश्च तथा सर्वदेवोत्तमं ब्रह्माणं च पश्यामि । न केवलं ब्रह्मादींस्तव देहे पश्यामि त्वदाश्रिते कमलासने ब्रह्मणि तदंके स्थितमीशं च पश्यामि । देहे रुद्रस्य देहेंऽगेषु सर्वान्देवान्पश्यामीत्यर्थोक्तौ गीताया नाल्पार्थत्वमिति भावः ।। १५१८ ।।

गीता

अनादिमध्यान्तमनन्तवीर्य

  मनन्तबाहुं शशिसूर्यनेत्रम् ।

पश्यामि त्वां दीप्तहुताशवक्त्रं

  स्वतेजसा विश्वमिदं तपन्तम् ।। १९ ।।

द्यावापृथिव्योरिदमन्तरं हि

  व्याप्तं त्वयैकेन दिशश्च सर्वाः ।

दृष्ट्वाद्भुतं रूपमुग्रं तवेदं

  लोकत्रयं प्रव्यथितं महात्मन् ।। २० ।।