गीता
वर्णानुगुणं कर्माणि प्रविभक्तानि
गीता
न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः ।
सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्र्त्रिभिर्गुणैः ।। ४० ।।
ब्राह्मणक्षत्रियविशां शूद्राणां च परंतप ।
कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ।। ४१ ।।
तात्पर्यम्
सत्त्वं जीवजातम् । मुक्तानां गुणातीतत्वात् ‘पृथिव्यां देवेषु वा’ इति विशेषः ।
‘यथेष्टं सञ्चरन्तोऽपि मुक्ता भूम्यादिगा न तु ।
ग्रामस्था अपि न ग्राम्या वैलक्षण्याद्धि सज्जनाः ।
नराधमास्तामसेपु सात्त्विकास्तत्र राजसाः ।
दैत्यभृत्या महादैत्या मुख्यतामसतामसाः ।
राजसास्तु नरास्तत्र विप्रा राजससात्त्विकाः ।
प्रकाशिका
‘‘नतदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः ।।
सत्वं प्रकृतिजैर्मुक्तं यदेभिस्स्यात् त्रिभिर्गुणैः’’
इत्यस्य अर्थमाह ।। सत्वं जीवजातमित्यादिना ।। अत्र मुक्तातिरिक्ता जीवाः सर्वे प्रकृतिगुणबद्धा इत्युच्यते ।। तत्र राजसतामसादिभेदेन बहुधा तान् विभज्य दर्शयति ।। नराधम इत्यादिना ।।
न्यायदीपिका
सर्वजीवानामपि गुणतस्त्रैविध्यमुच्यते ।। न तदिति ।। तत्र सत्त्वस्यापि गुणविशेषत्वात्कथं गुणबद्धत्वमुच्यत इत्यत आह ।। सत्वमिति ।। ननु गुणातीतं सत्त्वं नास्तीत्येतावता पूर्णत्वात्पृथिव्यां दिवीति विशेषोक्तिः किमर्थेत्यत आह ।। मुक्तानामिति ।। मुक्तानां गुणबद्धत्वाभावाद्गुणातीतं सत्वं नास्तीत्युक्ते तेषामपि तत्प्रसक्तेस्तद्व्यावृत्त्यर्थं पृथिव्यामित्यादि विशेषोक्तिर्युक्तेत्यर्थः ।
इमांल्लोकान्कामान्नी कामरूप्यनुसञ्चरन्नित्यादेर्मुक्तानामपि पृथिव्यादौ सञ्चरणात्कथमनेन तद्व्यावृत्तिरित्याशङ्कां परिहरन् वाक्यान्तरेण जीवानुगुणभेदतो बहुधा विभज्य दर्शयति ।। यथेष्टमिति ।। तद्गतदोषसम्बन्धाभावादिति शेषः । अतो भूम्यादिस्था एव गुणबद्धा इत्युक्ते तद्व्यावृत्तिः सिद्ध्यतीति चात्र द्रष्टव्यम् । अमुक्ताः कथं गुणबद्धा इत्यतस्तद्विभज्याह ।। नरेति ।। सात्विकराजसतामसास्त्रिविधा जीवास्तेषुतामसास्त्रिविधास्त उच्यन्ते ।। नराधमा इति ।। तत्र तामसेषु तामसभेदमुक्त्वा राजसान् सामान्येनाह ।। राजसा इति ।। नरा उत्तमा मध्यमा अधमाश्चेति । तेऽपि त्रिविधाः । तत्र भागवता विप्रादिपुल्कसान्ताः राजससात्विकाः । वर्णभेदेन तेष्वप्यनेकविधतामाह ।। तत्रेति ।। तेषु राजससात्विकेष्वपि विप्रा राजससात्विकसात्विका इत्यर्थः ।
किरणावली
सर्वजीवानामपीति ।। तमोयोग्यनित्यसंसारिमोक्षयोग्यभेदेन प्रकृतानां सर्वेषामपि जीवानां प्रत्येकं गुणतः त्रैविध्यमुच्यत इत्यर्थः ।। तेषामपीति ।। मुक्तानामपि गुणबद्धत्वप्रसक्तेस्तद्व्यावृत्त्यर्थमित्यर्थः ।। तद्गतदोषसम्बन्धाभावादिति शेष इति ।। नच वैलक्षण्यादित्युत्तरार्धे सत्वात्तस्याकर्षसम्भवे शेषकल्पनावैयर्थ्यमिति वाच्यम् । तस्य यथेत्यध्याहारेण दृष्टान्तपरोत्तरार्धे हेतूपन्यासाय प्रवृत्तस्यात्राश्रवणेनाकर्षस्यापि शेष रूपत्वात्तदर्थकथनपूर्वकं शेषत्वोक्तयुपपत्तेः । भवत्वेवं मुक्तानां भूम्यादिगत्वेपि तत्कृतदोषाभावस्तद्व्यावृत्तिलाभः कथमित्यत आह ।। अत इति ।। यत एवं मुक्तानां भूम्यादिगतत्वेपि तद्गतदोषसम्बन्धाभावात्तद्गतत्वमौपचारिकम् । अतो भूम्यादिस्था एव गुणबद्धा इत्युक्ते तद्व्यावृत्तिः सिद्ध्यतीति चात्राकूतं द्रष्टव्यमनुसन्धेयमित्यर्थः । विशेषविभाग कथनेन सूचितं सामान्यविभागं स्वयमाह ।। सात्विकेति ।। तामसा इत्यतः परमिति शब्दोध्याहार्यः ।। त उच्यन्त इति ।। त्रिविधा उच्यन्त इत्यर्थः । महादैत्या मुख्यतामसतामसा इति मूले दैत्यास्ताम सतामसाः । महादैत्या मुख्यतामसतामसा इति योज्यम् ।। राजसान्सामान्येनाहेति ।। विभागमकृत्वासामान्येन निदर्शयतीत्यर्थः । तामससात्विकानामपि नरत्वात्कथं नराणां राजसत्वमित्यत आह ।। नरा उत्तमा मध्यमाश्चेति ।। उत्तममध्यमभेदभिन्ना नरा अत्र राजसा विवक्षिता इत्यर्थः ।
मध्यमाः द्विविधाः राजसराजसा राजसतामसाश्चेति । उत्तमास्तु राजससात्विकाः । आहत्य द्विविधा अपि त्रिविधा इत्याह ।। तेपि त्रिविधा इति ।। क्वचित्तु नरा उत्तमा मध्यमा अधमाश्चेति तेपि त्रिविधा इति पाठः । तत्र तेपि राजसा नरा उत्तमा मध्यमा अधमाश्चेति त्रिविधा इति योज्यम् । राजससात्विकाः राजसराजसाः राजसतामसाश्चेति त्रिविधा इति यावत् । तेषु राजससात्विकेष्वपि विप्रा राजससात्विकसात्विका इति ।। राजससात्विकेष्वपि अतिशयेन राजससात्विका इत्यर्थः । राजससात्विकाः त्रिविधाः राजससात्विकसात्विकाः राजससात्विकराजसाः राजससात्विकतामसा इति तत्र विप्राः राजससात्विक सात्विका इति मूलार्थ इति भावः ।
भावप्रकाशः
तेषामपि तत्प्रसक्तेरिति । मुक्तानामपि गुणबद्धत्वप्रसक्तेरित्यर्थः । तद्गतदोषसम्बन्धाभावादिति शेष इति । उत्तरार्थादाकृष्टस्य वैलक्षण्यादित्यस्यार्थ इत्यर्थः ।। विशेषविभागकथनेन सूचितं सामान्य विभागं स्वयमाह ।। सात्विकराजसतामसास्त्रिविधा इति । तामसा इत्यनन्तरमितिशब्दोऽध्याहार्यः ।। नराधमास्तामसेषु सात्विका इत्यत्र नराधमा इत्युपलक्षणम् । अनाख्यातासुरा इत्यपि द्रष्टव्यम् ।। नरा इति समान्येनोक्तत्वादधमानामपि ग्रहणमिति प्रतीतिनिरासायाह । नरा उत्तमा मध्यमाश्चेति । मध्यमा नित्यत्रैविधा अज्ञाश्च त्रैविद्यमात्रा विष्णोर्ये इत्युदाहरिष्यमाणप्रमाणानुसारेण तान् विभजते । तेऽपि त्रिविधा इति । राजससात्विका राजसराजसा राजसतामसा इति त्रिविधा इत्यर्थः ।। केचित्तु नरा उत्तमाधममध्यमाश्चेति त्रिविधा इति पाठः । तत्राधमपदेनाज्ञामपदेन नित्यत्रैविद्या विविक्षिता इति द्रष्टव्यम् ।। तत्र राजसानां मध्ये सात्विका एव भागवता विप्रादय इत्युत्तरवाक्यानुसारेण राजससात्विकान्निर्दिकेति ।। तत्र भागवता इति ।। राजससात्विकसात्विका इति । राजसस्थसात्विकेष्वेव शुद्धसात्विका इति वक्ष्यमाणत्वादिति भावः ।।
वाक्यविवेक
अमुक्ताः कथं गुणबद्धा इति ।। अमुक्तानां सर्वेषां किमेकप्रकारेणैव बन्ध उत तारतम्येनेत्यर्थः ।। सात्विकराजसतामसा इति । अत्र सात्विकादिशब्दैरुक्ताः सत्वादिगुणाः प्रकृतिगुणेभ्योऽन्ये जीवस्वरूपभूताः । प्रकृतिगुणबन्धे हेतव इति ज्ञातव्यम् ।। राजसा इतीति । इतः परं टीकाभेदेन वाक्य भेदो दृश्यते तथाहि । नरा उत्तमाधममध्यमाश्चेति त्रिविधाः । तत्र भागवता विप्रादिपुल्कसान्ता राजससात्विका इत्येकटीकागतापाठः । अस्यार्थः वस्तुगत्यानरा उत्तमाधममध्यमभेदेन त्रिविधाः ।। तत्राधमा नरास्तामसेषु प्रविष्ठाः । उत्तमा मध्यमाश्चेति द्वाववशिष्टौ । तत्र भागवताः विप्रादिपुल्कसान्ताः सर्वेषूत्तमाः मुक्तियोग्याः राजससात्विकाः द्विविधाः केचन राजसराजसाः केचन राजसतामसाः । टीकान्तरगतपाठस्तु नरा उत्तमा मध्यमा अधमा श्चेति । तेच त्रिविधाः। तत्र भागवता विप्रादिपुल्कसान्ताः राजससात्विका इति । अस्यार्थः अधमनराणां तामसेषु प्रविष्ठत्वात् नरा द्विविधाः ।। उत्तमामध्यमाश्चेति । मध्यमा द्विविधाः ।। नित्यत्रैविद्याः अज्ञाश्चेति । द्विविधा अपि नरा एवंरूपेण त्रिविधाः । तेषु राजससात्विकेष्विति । रजोगुणान्तर्गतसत्वस्य अनेकविधत्वात् राजससात्विकान्तर्गता अपि विप्राः राजससात्विका इत्यर्थः ।।