गीता

गीता

इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः ।

मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ।। ४२ ।।

एवं बुद्धेः परं वुद्ध्वा संस्तभ्यात्मानमात्मना ।

जहि शत्रुं महाबाहो कामरूपं दुरासदम् ।। ४३ ।।

इति भगवद्गीतायां तृतीयोऽध्यायः

तात्पर्यम्

सर्वेभ्यः प्रवरा देवा इन्द्राद्या इन्द्रियात्मकाः ।

तेभ्यो मनोभिमानी तु रुद्रस्तस्मात्सरस्वती ।

बुध्द्यात्मिका ततो ब्रह्मा महानात्मा परः स्मृतः ।

अव्यक्तरूपा लक्ष्मीश्च वरोऽतोऽतो हरिः स्वयम् ।

न तत्समोऽदिको वेति ह्यानुपूर्वी प्रकीर्तिता ।

यथाक्रमप्रबोधेन नाश्याः कामादिशत्रवः ।

प्राप्यते च परं स्थानं विष्णोरतुलमञ्जसे’ति च ।

न चेन्द्रियेभ्यः परा ह्यर्था रुद्रोऽहंकृतिरूपक’ इत्यादिविरोधः ।

सर्वाभिमानिनो देवाः सर्वेपि ह्युत्तरोत्तरम् ।

आधिक्यं वक्तुमेवैषां पृथक्स्थानमुदीर्यते ।

आधिक्यक्रम एवात्र शास्त्रतात्पर्यमिष्यते ।

स्थानेषु त्ववरेषां च परे सन्ति न चेतरे ।

तथापि पितुरर्थो यः पुत्रस्याप्युपचर्यते ।

अव्यक्तादिपदार्थानां सर्वे तदभिमानिन’ इति च ।

यत्र ह क्व च पुत्रस्य तत्पितुर्यत्र वा पितु

स्तद्वा पुत्रस्येत्येतदुक्तं भवती’ इत्यादि श्रुतेश्च ।

बहुवाचिनां शब्दानां लिङ्गप्रकरणादिभिः ।

प्रवृत्तिहेतोश्चाधिक्यान्निर्णयोऽर्थेषु गम्यते’ ।। इति शब्दनिर्णये ।

लिङ्गादिसाम्यं यत्र स्यात्प्रयोगाधिक्यमेव तु ।

निर्णायकं भवेत्तत्र तेन स्यात्सुबहुश्रुत’ इति ब्रह्मतर्के ।। ४२ ।।

इति श्रीमदानन्दतीर्थभगवत्पादविरचिते श्रीमद्भगवद्गीतातात्पर्यनिर्णये तृतीयोऽध्यायः ।। ३ ।।

प्रकाशिका

‘‘इन्द्रियाणी’’त्यादेरर्थमाह ।। सर्वेभ्य इत्यादिना ।। न च ‘‘इन्द्रयेभ्यः परा ह्यर्था’’ इति श्रुतिविरोधात् इन्द्रियाणि पराण्यर्थेभ्य, इत्येतन्न युज्यत इति वाच्यम् । अर्थशब्दवाच्यानामर्थाभिमानिनां देवानामिन्द्रियदेवेभ्यः इन्द्रादिभ्योऽधमानामुत्तमानां चोमासौपर्ण्यादीनां सद्भावेनैवास्यापि वस्तुनो मुख्यामुख्यतयोभयस्वामिकत्वसम्भवेन चाविरोधात् । न च बहूनामेकशब्दवाच्यत्वेऽत्रायं वाच्य इति निर्णयाभावः । लिङ्गप्रकरणादिना तन्निर्णयसम्भवात् । लिङ्गादिसाम्ये यत्र बहुशः प्रयोगः शब्दस्य स एवार्थो ग्राह्यः । न त्वबहुप्रयोगवानित्यर्थः ।। ४२ ।।

इति श्रीमदानन्दतीर्थभगवत्पादविरचितस्य श्रीमद्भगवद्गीता तात्पर्यं निर्णयस्य प्रकाशिकायां पद्मनाभतीर्थविरचितायां तृतीयोऽध्यायः ।।

न्यायदीपिका

इन्द्रियाणीत्यत्रेन्द्रियादिमात्राज्जीवस्य परत्वमुच्यते । अथवेंद्रियाणि मनोबुद्धिरित्यादिना इन्द्रियमनोबुद्धीनामुक्तं कामाधिष्ठातृत्वं प्रपंच्यत इत्यन्यथाप्रतीतिनिरासाय तत्स्मृत्यैव व्याचष्टे ।। सर्वेभ्य इति ।। सर्वेभ्योर्थाद्यभिमानिभ्यः । ततो ब्रह्मेत्यादितु बुद्धेरात्मा महान्परः । महतः परमव्यक्तमव्यक्तापुरुषः परः । पुरुषान्न परं किञ्चिदिति श्रुतिव्याख्यानम् । परमात्मनोऽत्र बुद्धिपरत्वमात्रोक्तावप्यन्यत्रोक्तमत्र संयोज्यमिति ज्ञापयितुमुदाहृतम् । यदुक्तमर्थाभिमानिभ्योऽपीन्द्रियाभिमानिनामुत्तमत्वं न तद्युक्तम् । इन्द्रियेभ्यः पराह्यर्था इति श्रुतिविरोधात् । नापि रुद्रस्य मनोभिमानित्वं युक्तम् । रुद्रोऽहंकृतिरूपक इति वाक्यविरोधात् । एवं सरस्वत्या बुद्ध्यभिमानित्वं च न युक्तम् । विज्ञानाभिमानित्वोक्तिविरोधादित्यत आह ।। नचेति ।। कुतो न विरोध इत्यत आह ।। सर्वेति ।। तर्हि श्रीरव्यक्तस्य ब्रह्मा महत इत्यादि पृथगभिमन्यमानस्थानोक्तिर्लक्ष्म्यादीनां शास्त्रेषु कथमित्यत आह ।। उत्तरेति ।। अव्यक्तादीनां क्रमोणाधिकत्वात्तदभिमानित्वोक्तयाभिमानिनामप्युत्तरोत्तराधिक्यं ज्ञापयितुं पृथागभिमन्यमानस्थानान्युच्यन्त इत्यर्थः । किमर्थमुत्तरोत्तराधिक्यं ज्ञाप्यमित्यत आह ।। आधिक्येति ।। सर्वेपि सर्वाभिमानिनः इत्युक्तस्य अपवादमाह स्थानेष्विति । अधमानामुक्तेष्वभिमन्यमानस्थानेष्वभिमानित्वेनोत्तमा वर्तन्ते । नतूत्तमाभिमन्यमानत्वेनोक्तस्थानेष्वधमा इत्यर्थः ।

एवं चेदव्यक्ताभिमानित्वं सरस्वत्यादीनां पुरणादौ कथमुच्यत इत्यत आह ।। तथापीति ।। उपचर्यते यस्मादिति शेषः । अत्र श्रुतिं चाह ।। यत्रेति ।। यस्मिन्वस्तुनि पुत्रस्य स्वाम्यमस्ति तस्मिन्वस्तुनि पितुः स्वाम्यमस्त्येव । यस्मिन्वस्तुनि पितुः स्वाम्यमस्ति तस्मिन्पुत्रस्य स्वाम्यमुपचारेणास्तीत्येतत्तत्रापा इति चोद्ये समाधानमुक्तं भवतीत्यर्थः । अनेनेन्द्रादिभ्य इन्द्रियाभिमानिभ्योऽधमानां उत्तमानां सौपर्ण्यादीनां चार्थाभिमानित्वात्सौपर्ण्यादिविवक्षया इन्द्रियेभ्योऽर्थानामुत्तमत्वं श्रुतिराह । इदं तु वाक्यं शिवसुतविवक्षयाऽर्थेभ्य इन्द्रियाणामुत्तमत्वं वक्तीत्य विरोधः । रुद्रादीनां च मनोहङ्काराद्यभिमानित्वादुभयोक्तेरविरोध इत्युक्तं भवति । ननु सर्वेऽपि सर्वाभिमानिनश्चेदव्यक्तादिशब्दार्थनिर्णयो न युज्यते । सर्वेषामप्यर्थतयाऽन्यतरापोहानुपपत्तेरित्याशङ्कां स्मृत्यैव परिहरति ।। बह्विति ।। क्वचिल्लिङ्गप्रकरणादिसाम्ये कथं निर्णय इत्याशङ्कां च स्मृत्यैव परिहरति ।। लिङ्गेति ।। ४२ ।।

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्गीतातात्पर्यनिर्णयस्य टीकायां जयतीर्थमुनिविरचितायां न्यायदीपिकायां तृतीयोऽध्यायः ।। ३ ।।

किरणावली

इन्द्रियादिमात्राज्जीवस्येति ।। अभिमानिविवक्षारहिताद्युक्तयन्तरानुसारेण महदादिविवक्षारहिताच्चेन्द्रियादेर्बुध्द्यन्तात्परत्वं जीवस्योच्यत इति मायावादिमतानुवादोऽयम् । अथवेत्यादितु भास्करमतानुवादः । तेनेन्द्रियादीनामधिष्ठानानामुत्तरोत्तरप्राबल्यकथनपूर्वं कामस्य तदधिष्ठातृत्वेन बुद्धेः परत्वमनेनोच्यत इति व्याख्यातत्वादिति भावः । सर्वेभ्य इत्यस्यार्थमाह ।। अर्थाद्यभिमानिभ्य इति ।। आदिपदेन शरीराभिमानिग्रहणम् । तथा च भाष्ये । शरीरादीन्द्रियाणि पराणीति ।। विज्ञानाभिमानित्वेति ।। विज्ञानतत्वं महतः समुत्पन्नं चतुर्मुखादित्यादाविति भावः ।। नतूत्तमाभिमन्यमानत्वेनेति ।। उत्तमाभिमन्यमानत्वेन विशिष्योक्तस्थानेष्वित्यर्थः ।। इत्येतत्तत्रेति ।। तत्रापा इति चोद्ये इत्येतत्समाधानमुक्तं भवतीति योजना ।

आपा इत्याद्यैतरेये आपा इत्यस्य महालक्ष्मीकृतचोद्यत्वं पुनरापा इत्यस्य महिदासकृतसमाधानत्वं यत्र ह क्वचेत्यस्य तदुपपादकत्वमिति व्यवस्थितत्वात् । तथाच तद्भाष्यम् । आप इत्येव देवानां ब्रह्मादीनां कथं भवेत् । नामेत्यपृच्छल्लक्ष्मीस्तमित्यादीति भावः । शब्दाद्याः पञ्चशिवजा इति त्रयोदशाध्याये उदाहरिष्यमाणं सौपर्णीवारुणी तथा ।

उमेति चार्थमानिन्यस्तिस्रोद्विर्द्व्येकदेवता ।

इति काठकभाष्यं मनसि निधाय विरोधं परिहरति ।। अनेनेन्द्रादिभ्य इति ।। सर्वेषामप्यर्थतयेति ।। अभिमान्यधिकरणन्यायेनेति भावः । बहुवाचिनां त्विति मूले तु शब्दोप्यर्थे । बहुवाचिनामपि शब्दानामर्थेष्वयमत्रोच्यत इति निर्णयोऽवगम्यते । केन तत्तदसाधारणलिङ्गदर्शनेन तत्प्रकरणेन आदिशब्दादुपक्रमोपसंहारादिनेत्यर्थः ।

यत्र तु वाक्ये लिङ्गादिसाम्यं स्यात्प्रतिपाद्ययोः स्वरूपसाम्येन प्रवृत्तिनिमित्तगुणसाम्यं च स्यात्तत्र प्रयोगाधिक्यम् । शास्त्रेयस्य शब्दस्य यत्र प्रयोगाधिक्यं तदेवनिर्णायकं भवेदित्यर्थः । ननु लिङ्गादिसाम्येनेकपरत्वं किं न स्यात् । अन्यथा तदसाधारणलिङ्ग प्रकरणादि सद्भावेपि प्रयोगाधिक्यस्यानुसरणीयत्वप्रसङ्गादिति चेन्न । केवलमेकस्यैव प्रापकासाधारणलिङ्गप्रकरणादिसद्भावे प्रयोगाधिक्यमनादृत्य तत्तल्लिङ्गेन तत्तन्निर्णयेपि लिङ्गादि सङ्ख्यासाम्ये उभयोर्निरवकाशत्वे उभयपरत्वेपि यत्प्रापकमल्पं यत्प्रापकं बहु तत्र प्रयोगाधिक्ये नाल्पं कथं चित्सावकाशीकृत्य निर्णय इत्यत्र विवक्षितत्वाददोषः

।। ४२ ।।

इति श्रीमद्विठ्ठलाचार्यपुत्रेण श्रीमत्तीर्थाचार्यचरणसेविना श्रीनिवासेन विरचितायां श्रीमन्न्यायदीपिका किरणावल्यां तृतीयोऽध्यायः ।। ३ ।।

भावदीपः

इन्द्रियाणीत्यादेरिति ।। इत्यादेः श्लोकद्वयस्येत्यर्थः । आदिपदार्थमाह ।। एवं सरस्वत्या इति ।। विज्ञानाभिमानित्वेति ।। न चेतरदित्यस्यार्थो न तूत्तमाभिमन्यमानत्वेनेत्यादि । इत्येतदुक्तं भवतीत्यंशस्यार्थमाह ।। अस्तीत्येतदिति ।। तदित्यस्य प्रतिपदं तत्रेति ।। तस्यार्थ आपा इति चोद्य इति । ऐतरेये आपा इत्याप इति खण्डे रमादेव्या देवानां आप इति नाम कथमिति कृतचोद्ये देवानां भगवत्पुत्रत्वात् पितुर्भगवत आप इति नामवाच्यत्वात्पुत्राणामपि तदेव नामेति समाधानमनेन वाक्येनोक्तं भवतीत्यर्थः ।। ४२४३ ।।

इति श्रीमद्गीतातात्पर्यटीकाभावदीपे राघवेन्द्रयतिकृते तृतीयोऽध्यायः ।। ३ ।।

भावप्रकाशः

इन्द्रियादिमात्राज्जीवस्य परत्वमिति । अभिमानिविविक्षारहिताच्छत्यन्तरानुसारेण महदादिविवक्षारहिताच्चेन्द्रियादेः परत्वं जीवस्योच्यत इति मायावादिमतानुवादोऽयम् ।। भास्करस्तु कामोऽत्र बुद्धिपरत्वेनोच्यत इत्याह । तदतीव मन्दम् । कामः संकल्प इत्यादिश्रुतेस्तस्य मनोधर्मस्य तत्परत्वानुपपत्तेः । अतस्तदत्र नानूदितमिति द्रष्टव्यम् ।। अर्थादी त्यादिपदेन शरीरपरिग्रहः। न केवलं बुद्धेः परः श्रुत्युक्तप्रकारेणाव्यक्तादपीति भाष्यानुसारेण ततो ब्रह्मेत्यादेः सङ्गतिमाह । ततो ब्रह्मेत्यादित्विति ।। इत्यादीति मूलगतादिपदार्थमाह । एवं सरस्वत्या अपीति ।। नतूत्तमाभिमन्यमानत्वेनेति ।। उत्तमाभिमन्यमानत्वेन विशिष्योक्तेष्वित्यर्थः ।। यथाश्रुते ब्रह्माद्यभिमन्यमानाहंकारादिषु रुद्रादीनामभिमानित्वात् न चेतर इत्युक्तिरनुपपन्ना स्यादिति भावः ।। अधमा इति ।। अधमाः अभिमानित्वेन न वर्तन्त इत्यर्थः ।। आपा इति चोद्य इति ।। आप इत्येव देवानां ब्रह्मादीनां कथं भवेत् ।। नामेत्यपृच्छल्लक्ष्मीस्तमित्यैतरेयभाष्यानुसारेणैवमुक्तमिति द्रष्टव्यम् ।। शब्दाद्याः पञ्चशिवजाः इति त्रयोदशाध्याये उदाहरिष्यमाण प्रमाणं – सौपर्णी वारुणी तथा ।। उमेति चार्थमानिन्यस्ति स्रोद्विद्वयेकदेवता इति काठकभाष्यं च मनसि निधाय विरोधपरिहारप्रकारं दर्शयति ।। अनेनेद्रादिभ्य इति ।। अपोहानुपपत्तेरिति ।। निषेधानुपपत्तेरित्यर्थः ।। ४२ ।।

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य गीतातात्पर्यनिर्णयस्य टीकायाः जयतीर्थमुनिविरचितायाः न्यायदीपिकायाः भावप्रकाशे श्रीमत्सत्यव्रतपूज्यपादशिष्यसत्यप्रज्ञभिक्षुविरचिते तृतीयोऽध्यायः ।।

वाक्यविवेकः

ननु बुध्यात्मकेत्यन्तेनैव गीताव्याख्यानस्य जातत्वात् ततो ब्रह्म महानात्मेत्यादिकमधिकम् । गीतायां तद्व्याख्येयपदाभावादित्यत आह । ततो ब्रह्मेत्यादित्विति । समग्रमिदं प्रमाणं इन्द्रियेभ्यः पराह्यर्था इति श्रुतिव्याख्यानम् । तत्र बुध्यात्मिकेत्यन्तमेव गीताव्याख्यानम् । ततो ब्रह्मेत्यादिकं तु गीतायामनुक्तमपि संयोज्यमिति भावेनोदाहृतमिति भावः । एतेन समग्रस्य श्रुतिव्याख्यानत्वसम्भवे एकदेशस्य तद्व्याख्यानत्वकथनमयुक्तमिति परास्तम् । आधिक्यं ज्ञापयितुमिति । येन जडतारतम्यं ज्ञातमस्ति चेतनतारतम्यं न ज्ञातं तं प्रति ज्ञापयितुमित्यर्थः । आपा इति चोद्य इति । अप्शब्दः परमात्मवाची भवति स कथं देवानां वाचक इति चोद्य इत्यर्थः ।। मूले लिङ्गादिसाम्यमिति । यत्रलिङ्गादिसाम्यं तत्र प्रयोगाधिक्यं निर्णायकं भवति । अतः प्रयोगनिष्टबाहुल्यज्ञापनार्थं वाक्यविचारकः पुमान् बहुश्रुतः स्यादित्यर्थः ।। ४२ ।।

इति श्रीमत्सत्यनिधितीर्थश्रीचरणचरणाराधकश्रीमत्सत्यनाथयतिविरचिते

न्यायदीपिकाव्याख्यानेवाक्यविवेके तृतीयोऽध्यायः ।।