गीता
गीता
अर्जुन उवाच—
ज्यायसी चेत् कर्मणस्ते मता बुद्धिर्जनार्दन ।
तत् किं कर्मणि घोरे मां नियोजयसि केशव ।। १ ।।
व्यामिश्रेणैव वाक्येन बुद्धिं मोहयसीव मे ।
तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ।। २ ।।
तात्पर्यम्
ज्ञानं योगश्चोक्तौ । तत्र कर्मयोगं विशेषतः प्रपञ्चयत्यनेनाध्यायेन । ‘दूरेण ह्यवरं कर्म’ इति प्रश्नबीजम् ।। १,२ ।।
प्रकाशिका
गताध्यायसङ्गतत्वेनोत्तराध्याय प्रतिपाद्यमाह ।। ज्ञानमिति ।। ‘‘दूरेण ह्यवरं कर्मं बुद्धियोगाद्धनञ्जये’’त्युक्तेन कारणेनायमर्जुनप्रश्नः
‘‘ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन ।
तत्किं कर्मणि घोरे मां नियोजयसीति ।।’’
दूरेणेति ।। १ ।।
न्यायदीपिका
पूर्वाध्यायसङ्गतत्वेनैतदध्यायार्थं दर्शयितुं पूर्वाध्यायप्रतिपाद्यमाह ।। ज्ञानमिति ।। एषा तेऽभिहितेत्यन्तेन । ज्ञायत इति ज्ञानमीश्वरादिस्वरूपं निरूपितम् । ततोऽध्यायपरिसमाप्तिपर्यतं तत्स्वरूपज्ञानोपायश्चोक्तः पूर्वाध्याय इत्यर्थः । तत्संगतत्वेनैतदध्यायार्थमाह ।। तत्रेति । तयोर्ज्ञानयोगयोर्मध्ये योगोऽपि द्विविधो भवति कर्मध्यानयोगभेदात् । तत्र प्रागुक्तमेव कर्मयोगं प्रपञ्चयत्यनेनाध्यायेन भगवानित्यर्थः । ननु कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वेत्यादिना पूर्वत्रापि कर्मयोगस्य प्रपञ्चितत्वात्किमनेनाध्यायेनेत्यत उक्तम् ।। विशेषत इति ।। नन्वत्रापींद्रियाणि पराणीत्यादिना ज्ञानस्याप्युक्तेः कथं कर्मयोगं प्रपञ्चयतीत्युच्यत इत्यतो वाह ।। विशेषत इति ।। प्राचुर्येणेत्यर्थः । ननु कर्मणः सकाशाद्बुद्धेर्ज्यायस्त्वं प्राक्कुत्रोक्तम् । यद्बीजोऽयं ज्यायसीचेत्कर्मण इत्यर्जुनप्रश्न इत्यत आह ।। दूरेणेति ।। १२ ।।
किरणावली
आत्मस्वरूपं ज्ञानसाधनं चोक्तं पूर्वत्र ज्ञानसाधनत्वेनाकर्म विनिन्द्यकर्मविधीयत उत्तराध्याय इति भाष्यं मनसि निधाय ज्ञानयोगशब्दयोरर्थमाह ।। एषेति ।। ईश्वरादीत्यादिपदेन जीवो गृह्यते ।। ततः अध्यायपरिसमाप्तिपर्यन्तमिति ।। एषा तेऽभिहिता सांख्ये बुद्धिर्योगेत्विमां ृणु इत्यादिनेति भावः । नचैवं द्वितीयाध्यायस्यैकवाक्यत्वानुपपत्तिः । साधनस्यैव प्राचुर्यात् । प्राचुर्येण प्रतिपादनमात्रेणाध्यायपादैकवाक्यतायाः सूत्रे व्यवस्थापितत्वात् । ज्ञानमित्यादितु प्रकरणभेदप्रदर्शनायोक्तमिति ।। तत्स्वरूपज्ञानोपाय इति ।। कर्मसमाधिलक्षणज्ञानोपाय इत्यर्थः ।
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ।
तानि सर्वाणि संयम्य युक्त आसीतः मत्पर
इति ध्यानयोगस्यापि विहितत्वात् ।। प्रागुक्तमेव कर्मयोगमिति ।। प्रागुक्तं कर्मयोगमेवेत्यर्थः ।। १२ ।।
भावदीपः
इत्यन्तेनेत्यस्य निरूपितमित्यन्वयः । न त्वेवाहमित्यादिना ग्रन्थेनेत्यपि योज्यम् । कर्मणि ल्युडिति भावेनाह ।। ज्ञायत इति ।। ईश्वरादीत्यादिपदेन प्राधान्येन प्रकृतस्य जीवस्य प्रासङ्गिकवेददेशकालादेश्च ग्रहः । ईश्वरस्यापि युद्धगतत्वेन येषामनित्यत्वशङ्का तान्प्रति तस्यापि नत्वेवाहमित्यादिना प्राधान्येन प्रकृतत्वाद्योगे त्विमां ृण्विति प्रतिज्ञापूर्वं त्रैगुण्यविषया वेदा इत्यादिनेश्वरज्ञानोपायस्यैवोक्तत्वादीश्वरादीति स्वशब्देन तस्योक्तिः । अत एव तत्स्वरूपज्ञानोपायश्चोक्त इत्युक्तम् ।। कर्मध्यानयोगेति ।। कर्मरूपज्ञानोपायध्यानरूपज्ञानोपायभेदादित्यर्थः ।
भावप्रकाशः
पूर्वाध्यायसङ्गतत्वेनेति । पूर्वोत्तराध्याययोर्भेदसिध्यर्थं स्वस्मिन्नेकवाक्यतासिध्यर्थं चेति शेषः । आत्मस्वरूपं ज्ञानसाधनं चोक्तं पूर्वत्रेति भाष्यं मनसि निधाय ज्ञानयोगशब्दयोरर्थमाह । ज्ञायत इतीति ।। कर्मयोगमित्युक्तया सिद्धं योगविभागमाह । योगोऽपि द्विविध इति ।। कर्मयोगापेक्षया विज्ञानस्यैव प्राधान्यात्कथं विशेषत इत्युक्तमित्यत आह । प्राचुर्येणेति ।। तथा च प्रायिकत्वाच्चाध्यायानां पादानां च न विरोध इति सूत्रभाष्योक्तरीत्या कर्मयोगं प्रपञ्चयतीत्युक्तिरुपपन्नेति भावः ।। १२ ।।
वाक्यविवेकः
ननु ज्ञानयोगश्चोक्त इत्यनुपपन्नम् । ज्ञानस्य प्रागनभिधानात् इत्यत आह । ज्ञायत इतीति । कृत्यल्युटो बहुलमिति स्मरणात् कर्मणि ल्युटि ज्ञानमिति रूपमिति द्रष्टव्यम् ।। १२ ।।