गीता
गीता
अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् ।
यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ।। ५ ।।
यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् ।
तं तमेवैति कौन्तेय सदा तद्भावभावितः ।। ६ ।।
तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च ।
मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयः ।। ७ ।।
अभ्यासयोगयुक्तेन चेतसा नान्यगामिना ।
परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ।। ८ ।।
तात्पर्यम्
मद्भावं मयि भावम् । सदा तद्भावभावितानामेव स्मरंस्त्यजतीति केवलतत्कालस्मरणं भवति । न चेत् स्मरतोऽपि समाधिस्थस्खलनवत् पूर्वकर्मानुसारिस्मृत्या तत्प्राप्तिरेव भवति । अपरोक्षज्ञानिनां प्रारब्धकर्मावसाने स्मरंस्त्यजतीति भवत्येव । ‘प्रयाणकालेऽपि च मां ते विदुः’ इत्युक्तत्वात् । ‘युक्तचेतसः’ इति विशेषणान्नित्यं स्मरतामेवापरोक्षज्ञानं जायते ।
‘भक्तया ज्ञानान्निषिद्धानां त्यागान्नित्यहरिस्मृतेः ।
अरागाद् विहितात्यागादित्येतैरेव संयुतैः ।
अपरोक्षदर्शनं विष्णोर्जायते नान्यथा क्वचित्’ इति सत्तत्त्वे ।। ५८ ।।
न्यायदीपिका
प्रयाणकाले च कथं ज्ञेयोऽसीत्यस्य किमर्थं कथं भूतः केन प्रकारेण स्मर्तव्योऽसीत्यर्थः । तत्र किमर्थं स्मर्तव्योऽसीत्यस्य परिहार उच्यते ।। अन्तेति ।। तत्र मद्भावपदस्यान्यथाप्रतीतिनिरासायार्थमाह ।। मद्भावमिति ।। अन्यथा तं तमेवेतीति वाक्यशेषविरोध इति भावः । नन्वंतकाले स्मरणादेव तत्प्राप्तेः सदा तद्भावभावितत्वं किमर्थमुच्यत इत्यत आह ।। सदेति ।। न तत्प्राप्त्यर्थं सदा तद्भावभावितत्वमुच्यते । किं तु स्मरंस्त्यजतीत्युक्तं साक्षादन्तकालस्मरणं सदातद्भावभावितानामेव भवतीति साक्षादन्तकालस्मरणोपाय एवोच्यत इति भावः । ननु अन्तकाल एव महता प्रयत्नेन भगवत्स्मरणस्य कर्तुं शक्यत्वात्किं सदा तद्भावभावितत्वेनेत्यत आह ।। नचेदिति ।। सदा तद्भावभावितत्वाभावे महता प्रयत्नेन स्मरतोऽप्यन्यविषय एव प्रारब्धकर्मवशात्स्मृतिर्भवति । ततश्च तत्प्राप्तिरेव भवति । यथा खलु महता प्रयत्नेन समाधिं कुर्वतोऽपि प्रारब्धकर्मवशात्ततः स्खलनं भवति । अतः सदा तद्भावभावितत्वेन भाव्यमिति भावः। यदि प्रारब्धकर्मवशादन्तकाले ब्रह्मस्मृतिर्न भवेत्तर्हि ज्ञानिनामपि प्रारब्धकर्मभावादन्तकाले ब्रह्मस्मृत्यभावेन मोक्षाभावः प्रसज्यत इत्यत आह ।। अपरोक्षेति ।। अपरोक्षज्ञानिनां स्मरंस्त्यजतीत्युक्तं साक्षादन्तकालस्मरणं भवत्येवातो नामोक्षः । तस्याप्रारब्धपूर्वोत्तरकर्मनाशाश्लेषसद्भावात्प्रारब्धकर्मणां परिमितत्वेन भोगेनावसानसम्भवादिति भावः ।
एवं व्याख्याने भगवद्वाक्यसंमतिमाह ।। प्रयाणोति ।। नन्वेवं सति अन्तकालस्मरणस्य प्रारब्धकर्मावसानमेव कारणम् ।। तत्कारणतयाऽपरोक्षज्ञानं चेति प्राप्तम् । तथा च किं सदा तद्भावभावितत्वेनेत्यत आह ।। युक्तेति ।। सत्यं साक्षादन्तकालस्मरणस्य प्रारब्धकर्मावसानमेव कारणम् । तत्कारणत्वादपरोक्षज्ञानं चेति । तथापि सदा तद्भावभावितत्वं चान्तकालस्मरणकारणं भवत्येव । अपरोक्षज्ञानसाधनत्वात् । सदा तद्भावभावितत्वस्यापरोक्षज्ञानसाधनत्वेन युक्तचेतस इत्युक्तत्वादिति भावः । अनेन युक्तचेतसो मामाश्रित्य यतन्ति ये ते तद्ब्रह्म विदुरिति योजना सूच्यते । यन्नित्यस्मरणं भगवदपरोक्षज्ञानसाधनमुक्तं तद्भक्तयादियुक्तमेव तथा । न स्वयमेवेति स्मृत्याऽऽह ।। भक्तयेति ।। ५८ ।।
किरणावली
नचेत्स्मरतोपीति मूले नचेदित्यस्यार्थमाह ।। सदेति ।। स्मरतोपीत्यस्य शेषपूरणं महता प्रयत्नेनेति । पूर्वकर्मानुसारिस्मृत्येत्युक्तस्मृतेर्विषयप्रदर्शन मन्यविषय एवेति ।। प्रारब्धकर्मवशादिति ।। विषयान्तरस्मरणापादक पूर्वकर्मसूर्वरितकर्मप्रतिबन्धवशादित्यर्थः । त्यजतीत्यतः परमध्याहरति ।। उक्तं साक्षादन्तकालस्मरणमिति ।। साक्षादन्तकालश्च शरीरविसर्गकालः । यद्वा साक्षादन्तकालस्मरणं नाम कायत्यागपर्यन्तमच्छिद्रतया स्मरणम् । अपरोक्षज्ञानिनां प्रारब्धकर्मावसाने स्मरन्निति विशिष्य प्रारब्धकर्मणां स्मरणप्रतिबन्धकत्वोक्तेर्भावमाह ।। प्रारब्धेति ।। परिमितत्वेनेति ।। अपरिमितत्वे प्रारब्धकर्मणां भोगनाश्यत्वायोगादिति भावः । ननु गीतायां युक्तचेतसः प्रयाणकाले विदुरिति तद्भावनाया अन्त्यकालस्मरणहेतुत्वोक्तेः कथं भगवदुक्तपरंपरा गीतालब्धेत्यत आह ।। अनेनेति ।। भक्तया ज्ञानादित्यत्र ज्ञानपदेन शास्त्रयुक्तिजन्योऽनुभवः प्रतिभा वा ।। ५ ।।
भावदीपः
तत्प्राप्तिरेव भवतीति ।। अन्यवस्तुप्राप्तिरेव भवतीत्यर्थः ।। अप्रारब्धेति ।। प्रारब्धेतरसंचितागामिकर्मणां यथाक्रमं नाशाश्लेषेत्यर्थः । तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशाविति सूत्रादिति भावः ।। भोगेनेति ।। भोगेन त्वितरे क्षपयित्वाऽथ संपत्स्यत इति सूत्रादिति भावः ।। अनेनेति ।। इत्युक्तत्वादिति मूलवाक्येन । युक्तचेतसोऽपरोक्षज्ञानिनः । तद्ब्रह्म विदुर्व्याप्तं तद्रूपं पश्यन्तीत्यर्थ इति भावः ।। ५ ।।
भावप्रकाशः
किमर्थं कथंभूतः केन प्रकारेणेति । अन्तकाले । कविं पुराणम् । यदक्षरमिति त्रयाणामपि प्रश्नानां समाधानत्रयस्य वक्ष्यमाणत्वादिति भावः ।। प्रतीतार्थे बाधकमाह । अन्यथेति । वाक्यशेषे एतीति गतिकर्मत्वोक्त्या भेदस्यैव प्रतीयमानत्वादिति भावः । आरब्धपूर्वोत्तरेति । तदधिगम उत्तरपूर्वाधयोरश्लेषविनाशौ तद्व्यपदेशादिति भगवता तथा सूत्रितत्वादिति भावः ।। प्रारब्धकर्मणां परिमितत्वेनेति । ब्रह्मणां शतकालात्तु पूर्वमारब्धसङ्क्षय इत्यादिना प्रारब्धकर्मणां परिमितकाले भोगेन परिसमाप्तिकथनेन परिमितत्वावगमादिति भावः ।। ५८ ।।