गीता

गीता

य एवं (एनं) वेत्ति पुरुषं प्रकृतिं च गुणैः सह ।

सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ।। २४ ।।

ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना ।

अन्ये सांख्येन योगेन कर्मयोगेन चापरे ।। २५ ।।

अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते ।

तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ।। २६ ।।

तात्पर्यम्

द्विविधं पुरुषं चैव प्रकृतिं द्विविधामपि ।

सह तत्तद्गुणैः सम्यग् ज्ञात्वा पश्यति यः पुमान् ।

सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते’ ।।

अनादियोग्यताभेदात् पुंसां दर्शनसाधनम् ।

नानैव तत्र विष्णोस्तु प्रसादाद् वैष्णवं वपुः ।

स्वयं विज्ञायते किञ्चित् श्रूयते किञ्चिदन्यतः ।

तथा ज्ञात्वा हरिं ध्यात्वा स्वान्तः पश्यन्ति केचन ।

ऋषयः केचिदृषयो नारदाद्या बहिस्त्वपि ।

देवा विष्णुप्रसादेन लब्धसत्प्रतिभावलात् ।

सर्वं क्रमेण विज्ञाय प्रतिभास्पष्टताक्रमात् ।

पश्यन्ति बहिरन्तश्च विष्णुं ध्यानमृतेऽपितु ।

येषां ध्यानमृते दृष्टिस्तेषां ध्यानेऽपि दर्शनम् ।

स्यादेव साङ्ख्ययोगास्तद् देवा ब्रह्माऽधिकोऽत्र च ।

केचित्तु क्षत्रियवरा अश्वमेधादिकर्मभिः ।

यजन्तो भक्तिमन्तश्च यज्ञभागार्थमागतम् ।

श्रवणप्रतिभाभ्यां च स्मरन्तः पुरुषोत्तमम् ।

पश्यन्त्यन्ये तथाऽन्येभ्यः सर्वं श्रुत्वाऽनुमत्य च ।

उपास्यैव तु पश्यन्ति नान्यथा तु कथञ्चन ।

ऋषीन् राज्ञस्तथाऽऽरभ्य प्रतिभाऽभ्यधिका क्रमात् ।

यावद् ब्रह्मा बह्मणस्तु प्रायो नाप्रतिभासितम् ।

विष्णोः प्रीत्यर्थमेवास्य श्रोतव्यं प्रायशो हरेः ।

अन्येषां श्रवणाज्ज्ञानं क्रमशो मानुषोत्तरम् ।

अत्यल्पप्रतिभानत्वान्मानुषाः श्रुतवेदिनः ।

सर्वे ते दर्शनात् तस्मात् स्वयोग्यान्मुक्तिगामिनः’ इति च ।

अन्येषामपि किञ्चिच्छ्रवणे विद्यमानेऽपि मानुषाणामल्पप्रतिभानत्वात् ‘श्रुत्वाऽन्येभ्यः’ इति विशेषणम् । मनुष्याणां प्रतिभामूलप्रमाणापेक्षा प्रायो न सम्यगुत्पद्यते चेति ‘श्रुतिपरायणाः’ इति ।। २४२६ ।।

प्रकाशिका

य एनं वेत्तीत्त्यस्यार्थमाह ।। द्विविधमिति ।।

ध्यानेनेत्यादेरर्थमाह ।। अनादीत्यादिना ।। ‘श्रोतव्यं प्रायशो हरेः’ हरेरेव सकाशात् श्रोतव्यमित्यर्थः ।। ‘‘अन्ये त्वेवमजानन्तः श्रुत्वाऽन्येभ्य उपासत’’ इत्येतत्स्वाभाविकमनुष्योत्तमविषयं, न तु मनुष्यजन्मदेवविशेषविषयमित्यभिप्रेत्य तल्लक्षणमाह ।। अश्रुतप्रतिभेत्यादिना ।। यः परुषः स्वमुखमानेन नवमानाधोदेहवान्, या स्त्री स्वमुखमानेन अष्टमानाधोदेहवती तौ स्त्रीपुरुषौ स्वस्वाङ्गुलिमानेन षण्णवसत्यङ्गुलौ स्वस्वपादमानेन सप्तपादौ सुरोत्तमौ ज्ञेयौ ।। अत्र तालशब्देन मध्यमाङ्गुल्यग्रात् मणिबन्धपर्यन्तः कर उच्यते ।। तत् षण्णवत्यङ्गुलं क्रमेण ह्रसदेकनवत्यङ्गुलपर्यन्तमुत्तमावरसुरावधिकदेवमानं भवति ।। अत्र सप्तपादमानं क्रमेण ह्रसदेकाङ्गुलोनमेव भवति ।। तदेकनवत्यङ्गुलं यावत् क्रमेण ह्रसत् गन्धर्वविद्याधराधमदेवमानम् ।। अत्रापि सप्तपादमानं ह्रसत् पूर्ववत् एकाङ्गुलोनं भवति ।। सप्ताशीत्यङ्गुलं मनुष्यमानम् ।। ततो ह्रसत् आसुरं मानम् ।। सप्ताशीत्यङ्गुलादुपरि षण्णवत्यङ्गुलादधः यदष्टाङ्गुलम् तदुपदेवदेव मानम् ।। षण्णवत्यङ्गुलं तूत्तमदेवमानम् ।। च्यवनोचथ्यादिऋषीणां पृथुशशिबिन्दुहैहयादिचक्रवर्तिनामवरदेवमानं ज्ञातव्यम् । एतल्लक्षणं स्वाभाविकमित्येतदुच्यते ।। यावदित्यनेन ।। २४२६ ।।

न्यायदीपिका

प्रकृतिं पुरुषं चैवेत्याद्युक्तार्थे बुभुत्सातिशयोत्पादनाय तज्ज्ञानफलमुच्यते ।। य एनमिति ।। तत्प्रमाणवचनेनैव व्याचष्टे ।। द्विविधमिति ।। ज्ञात्वा परोक्षतः । सर्वथा वर्तमान इत्यस्य प्रमादादन्यायेन वर्तमानोऽपि नियतमोक्ष इत्यर्थः । परमपुरुषादिदर्शने किं साधनमित्यत आह ।। अनादीति ।। कथं नानात्वमित्यत आह ।। तत्रेति ।। स्वयमिति । स्वप्रतिभया । तथेति उक्तप्रकारद्वयेन । अनेन ध्यानेनेत्युक्तार्थं भवति । किञ्चिदित्युक्तया तेषां ध्यानातिरिक्तसाधनसद्भावेऽपि तस्याल्पत्वादनुक्तिरित्युक्तं भवति ।। ऋषयोऽन्तःप्रकाशा इत्यादौ ऋषीणामन्तर्दर्शननियमोक्तेः केचनेत्युक्तिः किमर्थेत्यत आह ।। केचिदिति ।। ऋष्यन्तरविषया श्रुतिरिति भावः । देवा इत्यनेनान्ये सांख्येनेत्युक्तार्थं भवति । क्रमेण कालक्रमेण । देवानां ध्यानाभावे दर्शनं भवति चेत्तर्हि दर्शनविरोधिध्यानं किमर्थं ते कुर्वन्तीत्यत आह ।। येषामिति ।। साङ्ख्यं प्रतिभायोगो दर्शनोपायो येषान्ते साङ्ख्ययोगाः । प्रतिभा स्पष्टताक्रमादित्युक्तम् । तत्र सर्वोत्तमप्रतिभा देवेषु कस्य मुख्येत्यत आह ।। ब्रह्मेति ।। केचिदित्यनेन कर्मेति व्याख्यातं भवति । अत्रापि श्रवणप्रतिभयोरल्पत्वं द्रष्टव्यम् । अन्य इत्यनेनान्येत्वित्युक्तार्थं भवति ।

ऋषिदेवराज्ञां प्रतिभोक्ता । तत्र किमेतेषामेकविधैव प्रतिभाऽस्ति । अथ तारतम्येनेत्यपेक्षायामाह ।। ऋषीनिति ।। ब्रह्मणः प्रतिभाप्रमाणमाह ।। ब्रह्मण इति ।। तर्हि तस्य हरेः सकाशाच्छ्रवणं किमर्थमित्यत आह ।। विष्णोरिति ।। प्रीत्यर्थमेव नतु ज्ञानार्थम् । केषां तर्हि ज्ञानार्थं श्रवणमित्यत आह ।। अन्येषामिति ।। मानुषोत्तरमिति मानुषाणां प्रायः श्रवणादेव ज्ञानमित्यर्थः । नन्वेवं ध्यानादियोगिनामपि श्रवणादिसद्भावे कथं मानुषाणां श्रुतवेदित्वं क्वचिदुच्यत इत्यत आह ।। अत्यल्पेति ।। एवं दर्शनसाधनं नानाविधमुक्त्वा प्रकृतमनुसन्धत्ते ।। सर्व इति ।।

यदुक्तं ध्यानादियोगिनामपि श्रवणाद्यस्तीति तदयुक्तम् । तथा सति केषाञ्चिच्छत्वाऽन्येभ्य इति विशिष्योक्तयसम्भवादित्यत आह ।। अन्येषामिति ।। ध्यानादियोगिनां श्रवणादिसद्भावेऽपि मनुष्याणां श्रुत्वाऽन्येभ्य उपासत इति विशेषोक्तिर्युक्ता । तेषामत्यल्पप्रतिभानत्वेन श्रवणबाहुल्यसद्भावादिति भावः । अनेनात्यल्पप्रतिभानत्वादिति विवृतं भवति । कथं मनुष्याणामत्यल्पाऽपि प्रतिभा युज्यते । श्रुतिपरायणा इति श्रवणैकाश्रयत्वोक्तेरित्यत आह ।। मनुष्याणामिति ।। मनुष्याणामत्यल्पप्रतिभासद्भावेऽपि श्रुतिपरायणा इति विशेषणं युक्तम् । तत्प्रतिभाया मूलप्रमाणा पेक्षत्वेन स्वातन्त्र्याभावात् प्रायेणासम्यक्त्वाच्च । अस्वतन्त्रेऽसाधुनि चासत्त्वोक्तिदर्शनादिति भावः ।

किरणावली

द्विविधं पुरुषं चैवेत्येवकारस्य सहैवेत्यन्वयः । सर्वथा वर्तमान इत्यस्य सर्वप्रकारेणेच्छानुसारेण वर्तमान इत्यर्थमभिप्रेत्यार्थमाह ।। अन्यायेन वर्तमान इति ।। ननु कदाचिदपि ‘‘नाधर्मे बुद्धिर्विष्णुदृशां भवेदि’’ति भाष्यवचनात्कथमन्यायेन वर्तमान इत्यत उक्तम् ।। प्रमादादिति ।। तस्मिन्नेव प्रमाणे उत्तरार्धमारभ्य ‘‘प्रमादात्तु कृतं पापं स्वल्पं भस्मी भविष्यति । आदिराजैस्तथादेवैः ऋषिभिः क्रियते कियत् । बाहुल्यात्कर्मणस्तेषां दुःखसूचकमेवतदि’’त्युक्तत्वादिति भावः । वैष्णवं व पुरिति मूलस्य ब्रह्मस्वरूपमित्यर्थः ।। तथेत्युक्तप्रकारद्वयेनेति ।। श्रवणप्रतिभा लक्षणोक्तप्रकारद्वयेन हरिं ज्ञात्वा स्वान्तःपश्यन्तीत्यर्थ इति भावः । ननु कथमनेन ध्यानेनेत्युक्तार्थं भवति । गीतायां ध्यानमात्रस्य दर्शनसाधनत्वोक्तेरत्र पुनःश्रवणप्रतिभयोश्च तदुक्तेरित्यत आह ।। किञ्चिदित्युक्तयेति ।। दर्शनं प्रति ध्यानातिरिक्तसाधनसद्भावेऽपि तस्य श्रवणप्रतिभालक्षणसाधनस्य स्वसमानाधिकरणध्यानापेक्षयाल्पत्वादित्यर्थः । मूले बहिस्त्वपीति तुशब्दस्य केचित्तु केचिदेवेत्यन्वयोऽर्थश्च । सर्वमित्यस्य स्वयोग्यं सर्वमित्यर्थः । प्रतिभास्पष्टताक्रमादिति मूलस्य प्रतिभासाम्येऽपि स्पष्टत्वे भेद इति नार्थः । किंतु प्रतिभाया अधिकाधिकविषयत्वक्रमादित्यर्थः । ध्यानमृतेऽपि त्विति तुशब्दस्य तु विशेषाकारेण ध्यानमृत इत्यर्थः ।। दर्शनविरोधीति ।। प्रतिभयैव दर्शनोपपत्तेः दर्शनविलंबकमित्यर्थः । प्रतिभायाः प्राचुर्येण दर्शनसाधनत्वेऽपि ध्यानस्यापि दर्शनसाधनत्वात् । न दर्शनप्रतिबन्धकत्वमिति मूलाभिप्रायः ।

ननु श्रवणप्रतिभाभ्यां स्मरणस्य दर्शनसाधनत्वे कर्मयोगित्वमयुक्तमित्यत आह ।। अत्रापीति ।। अन्ये तथाऽन्येभ्य इति मूलस्य मनुष्याणां प्रथमं श्रवणम् । तेन च मननं तेन च ध्यानम् । ध्यानेनैव दर्शनमिति भावः । तर्हि ध्यानेनात्मनि पश्यन्तीत्युक्तेभ्यो न विशेष इति चेत् । ऋषीणां श्रवणप्रतिभयोर्ध्यानवत्स्वतन्त्रसाधनत्वस्यापि सद्भावात्तेषां ध्यानसाधनश्रवणादेरल्पत्वाच्च । ऋषीन्राज्ञस्तथारभ्येति मूलस्य ऋषीनन्तर्मात्रोपासकानृषीनारभ्य राज्ञो राज्ञ आरभ्य देवानामिति योजना ।। तर्हि तस्य हरेस्सकाशादिति ।। ननु प्रायो नाप्रतिभासितमिति प्रायःशब्देनेषदप्रतिभासिताङ्गीकारात् । तदवगत्यर्थं श्रवणसम्भवात् शङ्कानवकाश इति चेन्न । यदि वेदाद्युक्तं सर्वं प्रायो नाप्रतिभासितं तर्ह्यप्रतिभासितेऽल्पे विषये वेदादिश्रवणसार्थक्येऽपि प्रतिभातस्य बहोर्थस्य हरेः सकाशाच्छ्रवणं किमर्थमित्यर्थाङ्गीकारात् । विष्णोःप्रीत्यर्थमेवास्येति मूलस्य अस्य ब्रह्मणो हरेः सकाशात् यच्छ्रोतव्यं तत्प्रायशो विष्णोः प्रीत्यर्थमेव । न तु ज्ञानार्थम् । निजप्रतिभयैव सकलवेदाद्यर्थस्यावगतत्वेन वेदानां संवादितामात्रत्वात् । ज्ञानार्थमल्पं वेदादिश्रवणमस्तीति प्रायशः इत्युक्तम् । तदुक्तं सूत्रभाष्ये । एवं विधानि सूत्राणि कृत्वा व्यासो महायशाः । ब्रह्मरुद्रादिदेवेषु मनुष्यपितृपक्षिषु । ज्ञानं संस्थाप्य भगवान्क्रीडते पुरुषोत्तम’’ इति । तत्वप्रकाशिकायां च । ब्रह्मरुद्रादिदेवेषु ज्ञानं संस्थाप्येत्यनेन पूर्वस्थितस्यैव विशेषयुक्तयादिभिर्दृढीकरणं किञ्चिदप्राप्तलाभश्चोच्यते । ‘‘जानन्तोऽपि विशेषार्थ ज्ञानाय स्थापनाय वा । पृच्छन्तिसाधव’’ इत्यादेः । केचित्तु । न तु ज्ञानार्थमिति वचनं वेदाद्युक्तगुणादिविषयम् । न तु तदनुक्तगुणादिविषयम् । तत्र ज्ञानार्थमपि श्रवणस्य विद्यमानत्वात् । ततो मूले प्रायश इत्युक्तमित्याहुः । अन्येषामिति मूलस्य ब्रह्मणोऽन्येषां मानुषोत्तरं मानुषाणामुत्तरमधिकं यथा भवति तथा क्रमशो योग्यताक्रमेणात एव प्रतिभाल्पताक्रमेण च श्रवणाज्ज्ञानं भवतीत्यर्थं मनसि निधायाह ।। मानुषाणां प्राय इति ।। एवं दर्शनसाधनमिति ।। परमपुरुषादिदर्शनेन मोक्षो भवतीत्युक्ते परमपुरुषादिदर्शनस्य किं साधनमिति शङ्कायां नानाविधदर्शनसाधनमुक्त्वा स्वस्वयोग्यसाधनसाध्यात्स्वस्वयोग्यदर्शनात् । स्वस्वयोग्यो मोक्षो भवतीति प्रकृतमनुसन्धत्त इत्यर्थः ।।

यदुक्तं ध्यानादियोगिनामपीति ।। ध्यानयोगिनां साङ्ख्ययोगिनां कर्मयोगिनामित्यर्थः । श्रवणादीत्यादिपदेन प्रतिभा गृह्यते ।। तथा सतीति ।। मनुष्याणामिव तेषामपि श्रवणप्रतिभयोः सत्वेन तयोः सर्वसाधारणत्वात्केषाञ्चिच्छत्वाऽन्येभ्य इति विशिष्योक्त्यसम्भवादित्यर्थः । श्रवणपदं प्रतिभोपलक्षणमिति भावेनाह ।। ध्यानादियोगिनां श्रवणादीति ।। अनेनेति ।। ध्यानादियोगिनां किञ्चिच्छ्रवणवचनेन मनुष्याणां श्रवणबाहुल्यस्य सूचितत्वादत्यल्पप्रतिभानत्वादिति स्मृतिवचनं श्रवणाद्यपेक्षयात्यल्पप्रतिभानत्वादिति विवृतं भवतीत्यर्थः ।। तत्प्रतिभाया मूलप्रमाणापेक्षत्वेनेति ।। प्रथमं स्वयमेव प्रतिभोदयेऽपि तत्प्रामाण्यावधारणाय मूलप्रमाणसंवादापेक्षत्वेन निःशङ्कप्रवृत्तिहेतुतायां स्वातन्त्र्याभावादित्यर्थः ।

भावदीपः

उक्तप्रकारद्वयेनेति ।। स्वप्रतिभयाऽन्यतः श्रवणेन चेत्यर्थः ।। तेषां ध्यानातिरिक्तसाधनेति ।। स्वप्रतिभादिरूप इत्यर्थः ।। अनुक्तिरिति ।। ध्यानेनेति श्लोक इति योज्यम् ।। इत्यादाविति ।। देवा वाव सर्वप्रकाशा ऋषयोऽन्तःप्रकाशा, मनुष्या एव बहिःप्रकाशा इति चतुर्थाध्याय तृतीयपादीयभाष्योक्तश्रुतावित्यर्थः । प्रतिभाप्रमाणमाहेत्यर्थः ।। प्रकृतमनुसन्धत्त इति ।। प्रकृतिं पुरुषं चैव विद्धि इत्युक्तार्थे बुभुत्सातिशयजननाय तज्ज्ञानफलवचन य एनं वेत्तीत्यादिना प्रकृतं तद् बुद्धिस्थं करोतीत्यर्थः ।। इति विवृतमिति ।। इति स्मृत्युक्तं विवृतमित्यर्थः ।।

भावप्रकाशः

परोक्षत इति । पश्यतीत्यनेनैवापरोक्षज्ञानस्योक्तत्वादिति भावः ।। नन्वपरोक्षज्ञानिना प्रजहाति यदा कामानित्यनेन निषिद्धकामप्रहाणेरुक्तत्वात्कथमन्यायेन वर्तमानोऽपीत्युच्यत इत्यत आह । प्रमादादिति । प्रजाहातीत्यत्र विवक्षितेति भावः । उक्तप्रकारद्वयेनेति । अव्यवहितपूर्वार्धोक्तप्रकारद्वयेनेत्यर्थः ।। हरेः सकाशादिति ।। अनेन विष्णोरित्येतत्पञ्चम्यन्तं सत् श्रोतव्यमित्यनेनापि सम्बध्द्यत इत्युक्तं भवति ।। न तु ज्ञानार्थमिति । इदं च वेदाद्युक्तगुणादिविषय एव तदनुक्तगुणादिविषयेतु ज्ञानार्थमपि श्रवणस्य विद्यमानत्वात् मूले प्राय इत्युक्तमिति भावः ।। यदुक्तं ध्यानादियोगिनामपीति । स्वयं विज्ञायते किञ्चिदित्यनेनेत्यर्थः ।। श्रवणादिसद्भावेऽपीत्यत्रादिपदेन प्रतिभा ग्राह्या । अनेन श्रवणे इत्येतत्प्रतिभाया अपि उपलक्षकमित्युक्तं भवति । विवृतं भवतीति । अभ्यासरूपेण विवृतमित्यर्थः । एवमेव जीवाहं मेति कृद्यत इत्येतदभ्यासरूपेण पूर्वोक्तविवरणरूपमिति ज्ञातव्यम् ।।

वाक्यविवेक

किञ्चिदिति । किञ्चिदन्यतः श्रवणतः ज्ञायत इति ज्ञेयस्याल्पत्वोक्तया ध्यानादि साधनद्वायस्याल्पत्वस्य ज्ञापितत्वात् ध्यानेनात्मनि पश्यन्तीत्यत्र प्रतिभया श्रद्धाल्पत्वानुक्तिर्नतु असत्वादित्युक्तं भवतीत्यर्थः । यदुक्तं ध्यानादि योगिनामपीति ।। यद्यप्येषा शङ्का प्रमाणवाक्येन परिहृता । तथाप्यस्य भाष्यस्य अत्यल्पप्रतिभातत्वादिति प्रमाणवाक्यविवरणरूपत्वात् सैव शङ्का पुनः कृतेति ज्ञेयम् ।