गीता
गीता
अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् ।
तथाऽपि त्वं महाबाहो नैनं शोचितुमर्हसि ।। २६ ।।
तात्पर्यम्
तिष्ठतु तावदयं विस्तरः । यावन्मोक्षं जीवस्य जन्ममरणे स्वयमेव मन्यसे न तु नियमेन । तथापि तावन्मात्रेणापि ज्ञानेन शोचितुं नार्हति ।
‘नित्यं सनातनं प्रोक्तं नित्यं नियतमेव च’ इति शब्दनिर्णये ।
अत्र तु नियतम् । ‘जातस्य हि ध्रुव’ इति प्रकाशनात् ।। २६ ।।
प्रकाशिका
अथ चैनमित्येतद्व्याचष्टे ।। तिष्ठत्वित्यादिना ।। २६ ।।
न्यायदीपिका
एवं स्वयं युक्तीरुक्त्वा शोकोनकार्य इत्युक्तम् । तत्र देहनाशस्यावश्यंभावित्वं यदुक्तं तन्नास्माभिः साध्यमपितु भवतोपि सिद्धम् । तेनैव शोको न कार्य इत्युच्यते ।। अथेति ।। तत्र मुक्तस्यापि जननमरणसद्भावं पराकुर्वन्नेव तं श्लोकं व्याचष्टे ।। तिष्ठत्विति ।। अथ चेत्यस्यार्थस्तिष्ठत्विति । तथापीत्यनूद्य तावन्मात्रज्ञानेनापीति व्याख्यानम् । नित्यपदस्य नियमवाचित्वे मानाभावात्कथं नियमेनेति व्याख्येत्यत आह ।। नित्यमिति ।। एवं नित्यपदस्योभयार्थत्वे नियमार्थग्रहणे कोहेतुरित्यत आह ।। अत्र त्विति ।। एच्छ्लोकार्थ विवरणात्मकोत्तरश्लोके नित्यपदस्य ध्रुव इति विवृतत्वादित्यर्थः ।। २६ ।।
किरणावली
अथचेत्यस्यार्थ इति ।। तात्पर्यार्थ इत्यर्थः । देहनाशस्यावश्यंभावित्वं अथचान्यच्च साध्यादन्यत् सिद्धमेवातस्तद्विषये वाग्विस्तारस्तिष्ठत्विति लभ्यत इति भावः । यद्वा अथचान्यदेवारभ्यते प्राचीनोयुक्तिविस्तारस्तिष्ठत्वित्यर्थ इति भावः । मूले न त्विति वा शब्दार्थकथनम् ।। २६ ।।
भावदीपः
स्वयमिति ।। कृष्णेन जीवचितो नित्यत्वाद्देहनाशस्यावर्जनीयत्वात् जीर्णपातस्य समीचीनलाभेन समाधानादित्यादियुक्तीरुक्त्वेत्यर्थः ।। २६ ।।
वाक्यविवेकः
प्रकाशनादिति मूलस्यार्थमाह । ध्रुव इति विवृतत्त्वादिति ।। २६ ।।