गीता
गीता
इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत ।
सर्वभूतानि संमोहं सर्गे यान्ति परन्तप ।। २७ ।।
येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् ।
ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ।। २८ ।।
जरामरणमोक्षाय मामाश्रित्य यतन्ति ये ।
ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ।। २९ ।।
तात्पर्यम्
द्वन्द्वमोहो मिथ्याज्ञानम् ।
‘तमस्तु शार्वरं विद्यान्मोहश्चैव विपर्ययः’ इति भारते ।
जीवेश्वरादिकं द्वन्द्वम् । तद्विषयो मोहो द्वन्द्वमोहः । सम्मोहः तदाग्रह ः
‘तदाग्रहो महामोहस्तामिस्रः क्रोध उच्यते’
इत्युक्तत्वात् । सर्गे सर्गकाल एव ।
‘जीवधर्मानीश्वरे तु यो जीवेष्वैश्वरानपि ।
विद्याज्जीवेश्वरैक्यं वा द्वन्द्वमोही स उच्यते’ इत्याग्नेये ।। २७२९ ।।
प्रकाशिका
इच्छा–द्वेष–समुत्थेन द्वन्द्वमोहेन भारत । सर्वभूतानि सम्मोहं सर्गे यान्ति’’ इत्यस्यार्थमाह ।। द्वन्द्वेत्यादिना ।।
‘‘तमो मोहो महामोहस्तामिस्रश्चान्धसंज्ञितः ।।
अविद्या पञ्च पर्वैषा प्रादुर्भूता महात्मन’’
इत्येतद्वचनव्याख्यानरूपमिदं वचनम् ।
तमस्तु शार्वरं विद्यान्मोहश्चैव विपर्ययः ।
तदाग्रहो महामोहस्तामिस्रः क्रोध उच्यते ।
मरणं त्वन्धतामिस्रमविद्या पाञ्चपर्विक
इत्यस्यार्थः सोदाहरणः कथ्यते । शर्वरीभवत्तमस्सदृशं जीवेश्वरवैलक्षण्याज्ञानाख्यं तम एकम् । जीवेश्वराभेदज्ञानाख्यो विपर्ययापरपर्यायो मोह एकः । तदाग्रहो महामोहः सम्मोहापरपर्यायः एकः । जीवेश्वराभेदनिरासकर्तृषु क्रोधस्तामिस्र एकः । जीवेश्वरभेदवादिभिः सह मरणपर्यन्तविग्रहोऽन्धतामिस्र एक इत्यविद्या पाञ्चपर्विकेति ।। २७ ।।
न्यायदीपिका
यत्केषांचिदद्वैतज्ञानं तदपि मदिच्छयेत्युक्तं नाहं प्रकाश इति तदयुक्तम् ।
ऐकात्म्यं नाम यदिदं केचिद्ब्रूयुरनैपुणाः ।
कामक्रोधाभिभूतत्वादहङ्कारवशंगताः ।
इत्यादाविच्छाद्वेषादेरेवाद्वैतज्ञानहेतुत्वोक्तेरित्यत उच्यते ।। इच्छेति ।। तत्र मोहसंमोहशब्दयोरर्थभेदप्रदर्शनाय द्वन्द्वमोहपदमनूद्य मोहशब्दार्थमाह ।। द्वन्द्वेति ।। मोहशब्दस्य मिथ्याज्ञानवाचित्वं कुत इत्यत आह ।। तम इति ।। शर्वरीसम्बन्धितमोवदावरकमज्ञानमित्यर्थः । अस्तु मोहो मिथ्याज्ञानं द्वन्द्वमोहो नाम क इत्यत आह ।। जीवेति ।। आदिपदेन सर्वज्ञत्वाल्पज्ञत्वादितद्धर्मग्रहणम् । मोहशब्दागतार्थतया संमोहशब्दं व्याचष्टे ।। संमोह इति ।। तदाग्रहो मिथ्याज्ञानदाढर्््यमित्यर्थः । कुतोऽयं संमोहशब्दार्थ इत्यत आह ।। तदाग्रह इति ।। मोहश्चैव विपर्यय इति प्रकृतविपर्ययः तदिति परामृश्यते । क्रोधो यथार्थज्ञानिषु । उक्तशङ्कापरिहारायोक्तं सर्गपदं तदाशङ्कापरिहारकं यथास्यात्तथा व्याचष्टे ।। सर्ग इति ।। सत्यमिच्छाद्वेषादिना मिथ्याज्ञानं भवतीति । तथापि तदवान्तरकारणमेव । सर्गकालमारभ्यैव तस्य कारणत्वात् । शरीरानुत्पत्ताविच्छाद्यभावात् । विष्णोस्तु सर्वदा कारणत्वादुक्तं युक्तमिति भावः । नन्वत्र जीवेश्वरादिविषयद्वन्द्वमोहस्येच्छाद्यवान्तरकारणत्वमुच्यते । न तु जीवेश्वराभेदज्ञानस्य । न हि विशेष्यैक्यज्ञानमेव द्वन्द्वमोह इति नियामकमस्तीत्यत आह ।। जीवेति ।। २७ ।।
किरणावली
इच्छाद्वेषादेरेवेति ।। आदिपदेनाहंकारो गृह्यते । यद्यप्यनैपुणा इत्यनन्तरं शास्त्रतत्वमविज्ञाय तथावादबलाजना इति कारणान्तरमुक्तम् । तथापि मूलकारणपरिग्रहाय कामक्रोधेत्यादिपठितम् । शार्वरमन्धकार इति प्रतीतिनिरासायाह ।। शर्वरीसंबन्धितमोवदिति ।। तमोऽज्ञानं विपर्यासो मोहोऽन्येतु तदाग्रहा इति भागवततात्पर्योदाहृतहरिवंशवचनादिति भावः । जीवधर्मानीश्वरेतु यो जीवेष्वैश्वरानपीति वक्ष्यमाणं मनसि निधायादिपदार्थमाह ।। आदिपदेनेति ।। मोहश्चैवविपर्यय इति प्रकृतेति ।। तस्मिन्नेव भारतवाक्ये पूर्वार्धेन प्रकृतेत्यर्थः । कल्यादिष्वयथार्थज्ञानिषु क्रोधस्य मिथ्याज्ञानाग्रहत्वायोगादाह ।। क्रोधोयथार्थज्ञानिष्विति ।। प्रपञ्चितश्च श्रीपद्मनाभतीर्थभट्टारकैस्तमस्तु शार्वरं विद्यादिति भागवततात्पर्योदाहृत श्लोकार्थः ।
तमो मोहो महामोहस्तामिस्रश्चांधसंज्ञितः ।
अविद्यापञ्चपर्वैषाप्रादुर्भूतामहात्मन ।
इत्येतद्वचनस्य व्याख्यानरूपमिदं वचनम् ।
तमस्तुशार्वरं(प्रोक्तं)विद्यान्मोहश्चैव विपर्ययः ।
तदाग्रहोमहामोहस्तामिस्रः क्रोध उच्यते ।
मरणं त्वंधतामिस्रं अविद्यापाञ्चपर्विकेति ।
अस्यार्थः सोदाहरणं कथ्यते । शर्वरीभगवत्तमःसदृशं जीवेश्वरवैलक्षण्यामानाख्यं तम एकम् । जीवेश्वराभेदज्ञानाख्यो विपर्ययापरपर्यायोमोह एकः । तदाग्रहो महामोहः संमोहापरपर्याय एकः । जीवेश्वराभेदनिराकर्तृषु क्रोधस्तामिस्रं एकः । जीवेश्वरभेदवादिभिः सह मरणपर्यन्तं विग्रहोंधतामिस्रं एक इत्यविद्यापञ्चपर्विकेति ।। उक्तशङ्कापरिहारायेति ।। औतज्ञानं मदिच्छयेत्ययुक्तमिच्छाद्वेषादेरेवाद्वैत ज्ञानहेतुत्वोक्तेरित्युक्त शङ्कापरिहारायेत्यर्थः । सर्गकालमारभ्यैवेति कुत इत्यतः शरीरे सति हीच्छादय इति भाष्यं मनसि निधायाह ।। शरीरानुत्पत्ताविति ।। २७ ।।
भावदीपः
उक्तशङ्केति ।। इच्छेति श्लोकावतारिकायामुक्तशङ्केत्यर्थः । शङ्कानिरासप्रकारं स्वयं व्यनक्ति ।। सत्यमित्यादिना ।। अवान्तरकारणत्वं व्यनक्ति ।। सर्गकालमिति ।। इत्यत उच्यत इति ।। फलमुच्यत इत्यर्थः ।। २७ ।।
इति श्रीमद्गीतातात्पर्यटीकाभावदीपे राघवेन्द्रयतिकृते सप्तमोऽध्यायः ।। ७ ।।
भावप्रकाशः
ऐकात्म्यमिति ।। एकश्चासावात्माच तस्य भावः ऐकात्म्यं, सर्वात्मना ब्रह्मैक्यमिति यावत् । यदैकात्म्यं नाम यदिदमनैपुणा अविद्यमाननैपुणाः केचित् ब्रूयुरित्यर्थः ।। अत्र नैपुणा इत्यनन्तरं शास्त्रतत्वमविज्ञाय तथावादबला जनाः इति पाठसत्वेऽपि तस्य प्रकृतोनुपयोगात्तत्परित्यागेन कामक्रोधेत्युत्तरार्धमेवोदाह्रतमिति द्रष्टव्यम् । इत्यादाविति । मोक्षधर्मवाक्य इत्यर्थः ।। इच्छाद्वेषादेरित्यादिपदेनाहंकारो ग्राह्यः ।। शार्वमन्धकार इति प्रतीतिनिरासायाह ।। शार्वरीसम्बधितमोवदिति ।। जीवधर्मानीश्वरे त्वित्युदाहरिष्यमाणप्रमाणानुसारेणादिशब्दार्थमाह आदिपदेन सर्वज्ञत्वेति ।। उक्तशङ्कापरिहारायेति । यत्केषाञ्चित् औतज्ञानेत्यादिनोक्तशङ्कापरिहारायेत्यर्थः ।। सर्गकालमारभ्यैवेति ।। कुत इत्यतः शरीरेहि सतीच्छादय इति भाष्यं मनसि निधायाह ।। शरीरानुत्पत्ताविति ।। २७ ।।
इति श्रीमत्सत्यव्रतपूज्यपादशिष्यसत्यप्रज्ञभिक्षुविरचिते
गीतातात्पर्यनिर्णयन्यायदीपिकाभावप्रकाशे सप्तमोऽध्यायः ।।
वाक्यविवेकः
प्रकृतविपर्यय इति ।। तमस्तु शार्वरं विद्यात् मोहश्चैव विपर्यय इति पूर्वार्धे प्रकृतो विपर्ययस्तदिति परामृश्यत इत्यर्थः ।। उक्ताशङ्कापरिहारायेति ।। यत् केषाञ्चित् औतज्ञानं तदपि मदिच्छयेत्युक्तं नाहं प्रकाश इति ।। तदयुक्तम् ।।
ऐकात्म्यं नाम यदिदं केचिद्ब्रूयुरनैपुणाः ।
कामक्रोधाभिभूतत्वादहङ्कारवशङ्गताः ।।
इत्यादौ विष्णुद्वेषादेरेवाद्वैतज्ञानहेतुत्वाक्तेः इत्याशङ्कापरिहाराय सर्गं यान्ति परंतपेति गीतायां सर्गपदं प्रयुक्तं तत् उक्ताशङ्कानिवर्तकं यथा स्यात्तथा व्याचष्ट इत्यर्थः ।। विष्णोस्तु सर्वदाकारणत्वादिति ।। शरीराभावदशायां वर्तमानस्य तत्तत्स्वरूपस्य मिथ्याज्ञानस्य नियामकत्वं विष्णोरस्तीति भावः ।। २७ ।।
इति श्रीमत्सत्यनिधितीर्थश्रीचरणचरणाराधकश्रीमत्सत्यनाथयतिविरचिते
न्यायदीपिकाव्याख्याने वाक्यविवेके सप्तमोध्यायः ।।