गीता

गीता

प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि ।

विकारांश्च गुणांश्चैव विद्धि प्रकृतिसंभवान् ।। २० ।।

तात्पर्यम्

‘प्रकृतिं पुरुषं च’ इत्यत्र पुरुषशब्देन जीवपरयोः प्रकृतिशब्देन चेतनाचेतनप्रकृत्योः स्वीकाराय उभावपीति । विकाराणां सत्वादीनां चोपादानत्वविवक्षया प्रकृतिसम्भवत्वम् । स्वातन्त्र्यं तु परमेश्वरस्यैव । ‘उपद्रष्टाऽनुमन्ता च’ इत्यादि वक्ष्यमाणत्वात् । गुणानां च विकारत्वेऽप्यधिकविकारत्वविवक्षयाऽन्येषां ‘विकारांश्च गुणांश्च’ इति पृथगुक्तिः

।। २० ।।

प्रकाशिका

‘‘प्रकृतिं पुरुषं चैव विद्धनादी’’त्यनेनैव विदितत्वसिद्धेः उभावपीत्यस्य विवक्षामाह ।। प्रकृतिमिति ।। ‘‘विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवा’’ नित्यस्यार्थमाह ।। विकाराणामित्यादिना ।। २० ।।

न्यायदीपिका

यतश्च यत् स च य इति प्रतिज्ञातं वक्तुं प्रकृत्यादिस्वरूपमुच्यते ।। प्रकृतिमिति ।। तत्र प्रकृतिं पुरुषं चेत्युक्तयैवोभाविति सिद्धेः किमुभावित्युक्तेनेत्यत आह ।। प्रकृतिमिति ।। इत्युक्तमिति शेषः । उभावित्युक्तस्य पुल्लिङ्गेनान्वयसिद्ध्यर्थं व्युत्क्रमः । अनेनोभावित्येतत्पृथग्वाक्यमित्युक्तं भवति । उभे अपीति सङ्ग्रहश्च । विकारांश्च गुणांश्चेत्यत्र विकारादीनां प्रकृतिः स्वतन्त्रं कारणमित्यन्यथाप्रतीतिमिच्छादयो विकारा इत्युक्तत्वाद्गुणशब्दार्थमेव वदन् निराकरोति ।। विकाराणामिति ।। स्वातन्त्र्यमेव प्रकृतेः किं न स्यादित्यत आह ।। स्वातन्त्र्यमिति ।। उपद्रष्टाऽनुमन्ता चेतीश्वरस्यैव स्वातन्त्र्यस्य वक्ष्यमाणत्वान्न प्रकृतेः स्वातन्त्र्यम् । किं तूपादानत्वमेवेत्यर्थः । नन्विच्छादिवत्सत्वादिगुणानामपि विकारत्वाद्विकारांश्च गुणांश्चेति पृथगुक्तिः किं निमित्तेत्यत आह ।। गुणानां चेति ।। सत्वादिगुणानां विकारत्वेऽपि विकारांश्च गुणांश्चेति पृथगुक्तिः सत्त्वादीनामल्पविकारत्वादिच्छादीनां ततोऽधिकविकारत्वात्तद्विवक्षया युक्तेत्यर्थः ।। २० ।।

किरणावली

ननु गीतायां प्रकृतिं पुरुषं चैव विद्धीत्यादिकमप्रतिज्ञातं किमुच्यते । मैवम् । यादृक् चेति प्रतिज्ञातस्य स प्रकारस्य क्षेत्रस्य कथनात् । तत्प्रतिज्ञाक्रमेण प्रागेव कुतो नोक्तमित्यत आह ।। यतश्च यदिति ।। यतः प्रेरणोपयुक्तधर्मविशेषविशिष्टात् । तत्क्षेत्रं प्रवर्तते तच्छृणु । स च प्रेरको यः कस्तच्छृण्विति प्रमेयद्वयं प्रतिज्ञातम् । तत्राद्यमुपद्रष्टानुमन्ता च भर्ताभोक्तामहेश्वरः । परमात्मेति चेत्यन्तेन वक्तुं द्वितीयं च प्रमेयमप्युक्तो ‘‘देहेस्मिन्पुरुष’’ इत्यनेन मां विद्धि सर्वक्षेत्रेष्विति । पूर्वं यो मदाख्यः पुरुषः सर्वक्षेत्रेषु नियामकतयोक्तः सोऽहमेवानुमन्तेति वक्तुं प्रेरणीयं स प्रकारं क्षेत्रं प्रकृतिपुरुषविकारशब्दवाच्यमुच्यत इत्यर्थः । तस्य प्रतिज्ञाक्रमेण प्रागपि वचने गौरवं स्यादिति भावः । यद्यप्यनादिमत्परं ब्रह्मेति नामोक्तयैव स च य इति प्रतिज्ञातमुक्तमिति भाष्ये व्याख्यातमत्रापि प्राक् सूचितम् । तथापि परब्रह्मणि मुक्तिगा इति परब्रह्मशब्दस्य मुख्यतो गुणपूर्णत्वात् परं ब्रह्मेति निरुक्तत्वाच्च प्रभावपरत्वस्याप्युपपत्तेः। स च य इति प्रतिज्ञातं स्पष्टमप्युक्तो देहे स्मिन्नित्यत्रोच्यत इति भावः।

ननु प्रकृतिं पुरुषं चेति गीतानुसारेण मूलेऽपि प्रकृतिशब्देन चेतनाचेतनप्रकृत्योरपीति प्रथमं वक्तव्यं व्युत्क्रमेण किमर्थमुक्तमित्यत आह ।। उभावि(त्युक्तस्येति)त्यस्येति ।। उभाविति पुल्लिङ्गशब्दस्य पुल्लिङ्गेन पुरुषशब्देनान्वयसिद्ध्यर्थमित्यर्थः । उभावित्यस्य पुल्लिङ्गेन पुरुषपदेनान्वये प्रकृतिरित्यनेनाप्यन्वेति व्युत्क्रमेण पृथग्वाक्यत्वस्य द्योतितत्वादित्याह ।। अनेनेति ।। उभौ पुरुषं पुरुषावनादीविद्धीति पृथग्वाक्यत्वमिति भावः । तर्हि प्रकृतिमित्यनन्वितमित्यत आह ।। उभे अपीति ।। उभे अपीति सङ्ग्रहोऽध्याहारश्चेत्युक्तं भवतीति योज्यम् । ततश्चोभे अपि प्रकृती अनादीविद्धीति योजनेति भावः । यद्वा प्रकृतिं पुरुषं विद्धि किमिति पुरुषमुभौ जीवपरौ अनादी च विद्धि । प्रकृतिं चोभे चेतनाचेतनसंज्ञे अनादी च विद्धीति योजना ।। अन्यथाप्रतीतिमिति ।। अस्य निराकरोतीत्यनेन सम्बन्धः ।। उक्तत्वादिति ।। इच्छाद्वेष इति गीतायां मूले चेत्यर्थः ।। सत्वादीनामल्पविकारत्वादिति ।। प्रलये सूक्ष्मरूपेण सतां सत्त्वादीनां सर्गकाले प्रकृतिक्षोभे जाते कार्यौन्मुख्यलाभाय सूरणादि बीजानामिवात्यल्पो विशेषो लयात्सर्ग इति ।। २० ।।

भावदीपः

भाष्योक्तसङ्गतिमाह ।। यतश्चेत्यादि ।। वक्तुमिति ।। उपद्रष्टेत्यादिनेति योज्यम् । ततः प्रेरकाद्यत् प्रवर्तमानमस्ति प्रकृत्यादिक्षेत्रमित्यर्थः । स च प्रेरकश्च य इति प्रतिज्ञातमित्यर्थः ।। पुल्लिङ्गेनान्वयायेति ।। पुरुषपदेनान्वयाय पुरुषशब्दितौ उभावित्यन्वयाय पश्चादुक्तपुरुषशब्दार्थं प्रागुक्त्वा पश्चात्प्रकृतिशब्दार्थ उक्त इत्यर्थः । व्युत्क्रमव्याख्यानेन किं जातमित्यत आह ।। अनेनेति ।। पृथग्वाक्यमिति ।। प्रकृतिं पुरुषं च विद्धि उभौ जीवपरौ उभे चेतनाचेतनप्रकृती चानादी विद्धीत्येवमित्यर्थः ।। इति सङ्ग्रहश्चेति ।। इत्यस्याप्यत्र(सं)ग्रहणमित्यर्थः ।। प्रतीतिभ्रान्तिं निराकरोतीत्यन्वयः

।। २० ।।

भावप्रकाशः

ननु प्रकृतिं पुरुषं चेति गीतानुसारेण मूलेऽपि प्रकृतिशब्देन चेतनाप्रकृत्योरिति प्रथमं वक्तव्यं व्युत्क्रमेण किमर्थमुक्तमित्यत आह । उभावित्युक्तस्येति । उभाविति पुल्लिङ्गशब्दस्य पुल्लिङ्गेन पुरुषशब्देनान्वयसिध्यर्थमित्यर्थः ।। पृथग्वाक्यमितीति ।। पुरुषावुभावितीति पृथग्वाक्यमितीत्यर्थः ।। अन्यथाप्रतीतिमिति ।। अस्य व्यवहितेन निराकरोतीत्यनेन सम्बन्धः ।। इत्युक्तत्वादिति । इच्छाद्वेषः सुखं दुःखमित्यादिना गीतायां मूले चोक्तत्वादित्यर्थः ।। २० ।।

वाक्यविवेक

ननु गीतायां प्रकृतिं पुरुषं चेत्युक्तत्वात् तदनुसारेण मूलेपि प्रकृतिशब्देन चेतनाचेतनप्रकृत्योः पुरुषशब्देन जीवपरयोरिति वक्तव्यं किमर्थं प्रकृतिपुरुषशब्दयोर्व्युत्क्रमेणार्थनिरूपणं इत्यत आह । उभावित्युक्तस्येति ।। उभावित्यस्य अर्थवशात् द्विवचनान्ततया विपरिणतेन पुल्लिङ्गेन पुरुषशब्देनान्वयः ।। अध्याहृतस्योभे इति स्त्रीलिङ्गशब्दस्य अर्थवशात् द्विवचनान्ततयापि परिणतेन प्रकृतिशब्देनान्वय इति बोधनार्थक्रमेण प्रकृतिपुरुषशब्दार्थनिरूपणम् । अन्यथोभावित्यनेन प्रकृतिपुरुषनिष्ठद्वित्वबोधः स्यात् न तु प्रकृत्योः पुरुषयोर्द्वित्वस्य बोध इति भावः ।। तद्विवक्षया युक्तेत्यर्थ इति

।। २० ।।