गीता
गुणभेदतः कर्तृत्रैविध्यम्
गीता
मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः ।
सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते ।। २६ ।।
रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः ।
हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ।। २७ ।।
तात्पर्यम्
सर्वस्य भगवदधीनत्वनिश्चयादेवानहंवादी ।। २६,२७ ।।
प्रकाशिका
‘‘मुक्तसङ्गोऽनहंवादी’’त्यत्रानहंवादि पदार्थमाह ।। सर्वस्येति ।। २७ ।।
न्यायदीपिका
गुणभेदतः कर्तुस्त्रैविध्यमुच्यते ।। मुक्तेति ।। तत्र कर्ता चेदनहंवादीति कथमित्यत आह ।। सर्वस्येति ।। कर्ताप्यहमेव कर्तेति सात्विको न वदति । तेन स्वकर्तृत्वादेः सर्वस्य भगवदधीनतया निश्चितत्वादित्यर्थः ।। २६,२७ ।।
किरणावली
कर्तुस्त्रैविध्यमुच्यत इति ।। श्लोकत्रयेणेति शेषः ।। तत्र कर्ताचेदिति ।। कर्ताचेदङ्गीक्रियते तर्हि तत्र श्लोकेऽनहंवादीति पदं कथम् । कर्तुरहंकर्तेत्यनुभवेनाहं वादित्वनियमादित्यर्थः ।। कर्तापीति ।। कार्यानुकूलकृतिमत्तयाऽहङ्कर्तेति वदन्नपीत्यर्थः ।। २६२७ ।।
भावदीपः
कर्तापीति ।। कार्यानुकूलकृतिमानपीत्यर्थः ।। २६२७ ।।
भावप्रकाशः
कर्ता चेदनहंवादी कथमिति । कर्त्तुरहङ्करोमीति वदस्य सम्भावितत्वादिति भावः ।। २६२७ ।।