तात्पर्यम्

तात्पर्यम्

गुणाः श्रुताः सुविरुद्धाश्च देवे

 सन्त्यश्रुता अपि नैवात्र शङ्का ।

 चिन्त्या अचिन्त्याश्च तथैव

 दोषाः श्रुताश्च नाज्ञैर्हि तथा प्रतिता’ इत्यादि च ऋग्वेदे सौपर्णशाखायाम् ।

एकमेवाद्वितीयं’ ‘नेह नानास्ति किञ्चिन’ ।

मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’ ।

यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति ।

 एवं धर्मान्पृथक्पश्यंस्तानेवानुविधावति’ ।

मत्स्यकूर्मादिरूपाणां गुणानां कर्मणामपि ।

 तथैवावयवानां च भेदं पश्यति यः क्वचित् ।

 भेदाभेदौ च यः पश्येत्स याति तम एव तु ।

 पश्येदभेदमेवैषां बुभूषुः पुरुषस्ततः ।

 अभेदेऽपि विशेषोऽस्ति व्यवहारस्ततो भवेत् ।

 विशेषिणां विशेषस्य तथा भेदविशेषयोः ।

 विशेषस्तु स एवायं नानवस्था ततः क्वचित् ।

 प्रादुर्भांवादिरूपेषु मूलरूपेषु सर्वशः ।

 न विशेषोऽस्ति सामर्थ्ये गुणेष्वपि कदाचन ।

न्यायदीपिका

एकस्यैव भोक्तृभोग्यभावादिगुणा एवेश्वरस्य प्रामाणिका न दुःखादिदोषा इत्यत्र श्रुत्यन्तरं चाह ।। गुणा इति ।। कथं न दोषाः श्रुताः । जनितोतविष्णोरित्यादौ प्रतीतेरित्यत आह ।। अज्ञैरिति ।। प्राकृतगुणानां भगवताऽभेदे सर्वण्यपि रूपाण्येवंविधानीत्यत्र च श्रुतीराह ।। एकमिति ।। एकमेकत्वसङ्ख्यायोगि । एवेत्यवयवादिभेदनिराकरणम् । अद्वितीयं समाभ्यधिकरहितम् । किञ्चन नानेति रूपावयवगुणकर्मभेदः । तर्हि भेदाभेदौ स्यातामित्यत आह ।। मृत्योरिति ।। मृत्योर्मृत्युं तम आप्नोति । नानेवेति भेदाभेदौ भेददर्शने कोऽनर्थ इत्यत आह ।। यथेति ।। यथा पर्वतेषु दुर्गे शिखरे वृष्टमुदकम् अधो विधावति एवं गुणादीन् भिन्नान्पश्यन् तान्दृष्टाननु तेषामेव दर्शनानन्तरमधोविधावतीत्यर्थः ।

सर्वाद्वैतपराः श्रुतय एता इत्यतः ताः स्मृत्यैव व्याचष्टे ।। मत्स्येति ।। अत्यन्ताभेदे व्यवहारभेदः किम्निमित्त इत्यत आह ।। अभेदेपीति ।। यद्यभिन्नेषु गुणादिविशेषेषु विशेषो वर्तते तर्हि विशेषिणां विशेषस्य तथा भेदविशेषयोर्भेदोऽभेदो वा । आद्येऽनवस्था द्वितीये व्यवहारविशेषायोगः । तत्रापि विशेषाङ्गीगीकारेऽनवस्थैवेत्यत आह ।। विशेषिणामिति ।। विशेषिणां विशेषस्य तथाऽभेदविशेषयोः भेदाभावान्न भेदपरंपरयाऽनवस्था । न च व्यवहारविशेषानुपपत्तिः यतस्तत्र विशेषोऽङ्गीक्रियते । नचैवं विशेषपरंपरयानवस्था । य एव विशेषो भिन्नेष्वपि गुणगुण्यादिषु व्यवहारभेदनिर्वाहकः स एव विशेषो विशेषविशेष्यादिव्यवहारभेदनिर्वाहक इत्यङ्गीकारादित्यर्थः । मत्स्यादीना मभेदेपीन्द्रार्जुनादिवत्तारतम्यमपि नास्तीत्याह ।। प्रादुर्भावेति ।।

किरणावली

गुणाः श्रुता इति श्रुतिः । श्रुता अश्रुता अपि सुविरुद्धा अन्यत्र सहादृष्टाः अविरुद्धा देवे सन्ति । अश्रुता अपि द्विविधाः केवलं रमादिभिरेव यथाशक्तिचिन्त्याः अन्यैस्सर्वथा अचिन्त्याश्च । तथाणुत्वादयो दोषाः श्रुताश्चनश्रुता एव न भवन्ति इत्यर्थं सिद्धवत्कृत्य अज्ञैरित्येतदवतारयति ।। कथमिति ।। सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः ।। जनिताग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः ।। इत्यत्र उमया सहितः सोमो रुद्रो विष्णोर्जनितेत्यादौ प्रतीतेरित्यर्थः । अज्ञैः सोमविष्ण्वादिशब्दार्थानभिज्ञैर्हि तथा वेदार्थत्वेन दोषाः प्रतीता इत्यर्थः । वस्तुतस्तुदोषाः श्रुता एव न भवन्ति विष्णुरिति यजमानस्य यज्ञस्य वा नाम । तौ सोमाद्भवत इति सोमो जनितोऽत विष्णोरित्युच्यत इति जन्माधिकरणीयसुधोक्त प्रकारेण जनितोऽत विष्णोरित्यस्यार्थो बोध्यः । ननु प्रमेयदीपिकायां तथा गुणा इव दोषाः श्रुता अश्रुताश्च न सन्ति किंत्वन्यैर्हि मिथ्यादृष्टिभिस्तथा प्रतीता इति श्रुताश्चदोषा न सन्तीति व्याख्यातत्वादत्र पुनः श्रुताश्चनेत्यस्य तच्छ्रवणमेव नेत्यर्थाङ्गीकाराद्विरोध इति चेन्न । वास्तवश्रवणाभावेनास्य ग्रन्थस्य प्रवृत्तत्वात् । नेह नानेत्यत्र किञ्चन नाना नेति रूपावयवगुणकर्मभेद इत्यनेनैव रूपभेदाभावस्य वक्ष्यमाणत्वादपौनरुक्तयाय व्याचष्टे ।। एकमेकत्वसङ्ख्यायोगीति ।। सुधायां नानेत्यस्यावयवगुणकर्मादिभेदमात्रनिषेधपरत्वेन व्याख्यानात् स्वरूपभेदाभावलाभायैकमभिन्नमिति व्याख्यातम् ।।

एवेत्यवयवादीति ।। यद्यत्रेश्वराख्ये वस्तुन्यवयवगुणादि निरूपितो भेदः स्याद्यदि चेश्वरनिरूपितो गुणादिभेदः स्यात्तदागुणगुणिरूपे वस्तुन्येकत्वं न स्यात् । नहि भिन्नेष्वेकत्वं दृष्टम् । तथाचैकमेवेत्येवकारेणावयवादिनिरूपितभेदनिराकरणमित्यर्थः ।। रूपावयवगुणकर्मभेद इति ।। रूपादीनां परस्परं भेद इत्यर्थः । नानाभूतावयवगुणकर्मनिषेधेपि तन्नानात्वमेव निषिद्धं स्यात्सविशेषणेहि विधिनिषेधाविति न्यायादिति सुधायामेवोक्तम् ।। तर्हि भेदाभेदाविति ।। भेदनिषेधकवाक्यस्य शुद्धभेदनिषेधपरत्वोपपत्तेरिति भावः । मृत्योर्नरकादेरप्यतिशयेन मृत्युर्मृत्योर्मृत्युरिति भावेन स याति तम एवत्विति प्रमाणं मनसि निधायाह ।। मृत्योरिति ।। सुधायांतु मृत्योरनन्तरं मृत्युं नरकमाप्नोतीति व्याख्यातम् ।। नानेवेति भेदाभेदाविति ।। इव शब्दो यदुक्तं पूर्वपदेन तत्प्रतियोगिनि द्वितीये वर्तते । इवोभये च सादृश्ये इति वाक् शब्दनिर्णय इत्यनुव्याख्यावचनात् । अत्र च नानोक्त्वा प्रयुक्त इवशब्दः अनाना संगृह्णातीति भावः । मूले तथैवेत्येवकारस्य भेदमेव केवलभेदमेव पश्यतीत्यन्वयः । तम एव तु विशिष्टमन्धन्तम एवेत्यर्थः ।। अभेदविशेषयोरिति ।। अभिन्ने अभेदवति विशेषो वर्तत इत्येकवस्तु निष्ठत्वेनोक्तयोरभेदविशेषयोरित्यर्थः ।। आद्येऽनवस्थेति ।। भेदपरंपरयेति शेषः । अनवस्थैवेति विशेषपरं परयेति शेषः ।।

इन्द्रार्जुनादिवत्तारतम्यमिति ।। सर्वे गुणा आवृता मानुषत्वे युगानुसारान्मूलरूपानुसारादित्युक्तेरावरणभावाभावाभ्यां तारतम्यमित्यर्थः । मूले प्रादुर्भावादीत्यादिपदेनावेशरूपाणामन्तर्नियामकरूपाणां च ग्रहणम् । यद्यपि मूलरूपमेकमेव तथापि कृष्णादीनां साक्षान्मूलरूपाणि यज्ञादीनि । पूर्वेन्द्रोसौ यज्ञनामा रमेश इत्याद्युक्तेः । तन्मूलरूपं नारायणाख्यं प्रलयवृत्तीति साक्षात् परंपरया मूलरूपमादायेयमुक्तिः ।।

भावदीपः

एवेत्यनेनापौनरुक्त्यायाऽह ।। एकत्वसङ्ख्यायोगीति ।। अन्वयमुखेनानुवदति ।। किञ्चन नानेति ।। श्रुतय एता इति ।। एकमेवेत्यादयः श्रुतय इत्यर्थः । अभेदविशेषयोरिति पदविभागः ।। विशेषविशेष्यादीति ।। अयं विशेषोऽयं विशेषीत्यादिव्यवहारेत्यर्थः ।।

भावप्रकाशः

गुणाः श्रुता इति मूलस्यार्थः – श्रुता अश्रुता अपि सुविरुद्धाः । अन्यत्र सहादृष्टाः अविरुद्धाश्च । अश्रुता अपि विविधाः । चिन्त्या अचिन्त्याश्च । रमाब्रह्मादिभिः केचन चिन्त्या अन्येऽचिन्त्याः । तथा गुणा इव दोषाः श्रुता अश्रुताश्च नैव सन्ति । अज्ञैर्मिथ्यादृष्टिभिर्हि तथा प्रतीता इति । गीताभाष्यटीकायां श्रुताश्च नसन्तीति व्याख्यातम् ।। अत्र तु श्रुताश्च नेत्यस्य तच्छ्रवणमपि नेत्यर्थः । अत एवाह । कथं न दोषाः श्रुता इति । जनितोत विष्णोरिति ।। सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः । जनिताग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोरित्यत्रोमया सहितः सोमो रुद्रो विष्णोर्जनितेति रुद्रजन्यत्वप्रतीतेरित्यर्थः ।। सुधायामेकमभिन्नमिति व्याख्यातमत्र तदविरुद्धमर्थान्तरमाह ।। एकमेकत्वसङ्ख्यायोगीति ।। किञ्चन नानेति ।। भिन्नं गुणादिकं नेति निषेधे भेदनिषेध एव सिध्यति ।। सविशेष इति न्यायादिति भावः । स याति तम एव त्विति प्रमाणानुसारेणाह । मृत्योः मृत्युं तम इति ।। सुधायान्तु मृत्योरनन्तरं मृत्युं नरकमाप्नोतीति व्याख्यातम् ।। नानेवेति । भेदाभेदाविति । इवशब्दो यदुक्तं पूर्वपदेन तत्प्रतियोगिनि द्वितीये वर्तते ।। यथोक्तमनुव्याख्याने ।। इवोभये च सादृश्ये इति वाक् शब्दनिर्णय इति । अत्र च नानोक्तवा प्रयुक्त इवशब्दः अनाना संगृह्णातीति भावः । आद्येऽनवस्थेति । भेदपरंपरयेति शेषः । अनवस्थैवेति । विशेषपरंपरयेति शेषः ।। तारतम्यमपीति । अन्योन्यगताशेषानुसन्धानभावाभावरूपविशेषमपीत्यर्थः ।।

वाक्यविवेकः

मूले गुणाः श्रुता इति । सुविरुद्धा गुणाः अणुत्त्वमहत्वादयः देवे सन्ति । श्रुताः श्रुत्युक्ताः अश्रुताः भारतोक्ताश्च सन्ति । रमाचिन्त्याः इश्वरप्रत्यक्षगोचराः गुणाश्च सन्ति दोषाः श्रुताः न श्रुत्युक्ता न भवन्ति ।

ननु दोषाः श्रुत्युक्ता न भवन्तीत्त्ययुक्तम् । जनितोत विष्णोरिति श्रुत्यर्थतया दोषाणां ज्ञानादित्यत उक्तम् । अज्ञैर्हि तथा प्रतीता इति । दोषा श्रुत्यर्थतया अज्ञैरेव प्रतीताः । वस्तुतः श्रुत्त्यर्था न भवन्ति । श्रुतीनामर्थान्तरत्वादिति भावः । एकं एकत्वसङ्ख्यायोगीति । अवयवादिभिः सह एकत्त्वसङ्ख्यायोगीत्यर्थः । तैः सहैकत्त्वसङ्ख्या भेदमन्तरा न सम्भवन्तीति अभेदो लभ्यत इति भावः । एवेत्यवयवादिभेदनिराकरणमिति । एवकारेण साङ्ख्योक्तया अभेदलाभेऽपि भेदोऽप्यस्तीत्याशङ्कानिरासायैवकारेण भेदनिराकरणं कृतमित्यर्थः । रूपावयवेति । रूपावयवगुणकर्मणां परस्परं भेद इत्यर्थः । व्यवहारभेदेति । व्यवहारविशेषनिर्वाहक इत्यर्थः ।