तात्पर्यम्

तात्पर्यम्

स्वप्रकाशत्वं च न अमानं सिध्यति । स्वयंप्रकाशत्वं च ततोऽतिरिक्तं चेद्विशेषाङ्गीकारः । न चेत्तदेव प्रमाणगोचरम् । तत्प्रमाणभावे परप्रकाशत्वमात्रनिरासे स्वप्रकाशत्वे प्रमाणाभावादप्रकाशत्वमेव स्यात् । अर्थतः सिद्धिरित्यर्थापत्तितः सिद्धिस्तत्प्रमाणतः सिद्धिर्वा । उभयथाऽपि प्रमेयत्वमेव स्यात् ।

न्यायदीपिका

ननु प्रमाणावेद्यत्वेपि ब्रह्मणो न नास्तित्वं वाच्यम् । स्वप्रकाशतयैव तत्सिद्धेरिति चेन्न । विकल्पानुपपत्तेः । तथाहि । स्वप्रकाशत्वे ब्रह्मणः प्रमाणमस्ति न वा । न तावद्द्वितीयः । प्रमाणाभावे तदसिद्धेरित्याह ।। स्वप्रकाशत्वं चेति ।। आद्ये स्वप्रकाशत्वं ब्रह्मातिरिक्तं तत्स्वरूपमेव वा । प्रथमं दूषयति ।। स्वयंप्रकाशत्वमिति ।। यदि ब्रह्मणः स्वातिरिक्तं स्वयंप्रकाशत्वं प्रामाणिकं स्यात्तदा तस्य सविशेषत्वं प्रसज्यत इत्यर्थः । द्वितीयं दूषयति ।। नचेदिति ।। यदि स्वयंप्रकाशत्वं न ब्रह्मातिरिक्तम् । किं तु तत्स्वरूपमेव तर्हि स्वयंप्रकाशत्वे प्रमाणसद्भावाङ्गीकारे ब्रह्मैव प्रमाणगम्यमङ्गीकृतं स्यात् । तथाचाप्रमेयत्वभङ्ग इत्यर्थः । न स्वप्रकाशपदेन स्वविषयप्रकाशत्वमुच्यते । येन तस्य ब्रह्मातिरिक्तत्वे ब्रह्मणः सविशेषत्वं स्यात् । किं तु परप्रकाशत्वाभाव एवेत्यत आह ।। परेति ।। यदि स्वप्रकाशपदेन परप्रकाशत्वनिरासमात्रमभिप्रेयते तर्हि ब्रह्मणः प्रकाशराहित्यमेव स्यात् । परप्रकाशस्यानभिमतत्वात्स्वविषयप्रकाशत्वाख्यस्य स्वप्रकाशत्वस्योक्तरीत्या प्रमाणाभावेन भावे च सविशेषत्वप्रमेयत्वप्राप्त्या निरस्तत्वादिति भावः । तथापि न नास्तित्वं ब्रह्मणो वक्तुं शक्यते । अस्ति ब्रह्मेत्यादिश्रुत्या असत्वादिव्यावृत्तिद्वारा ब्रह्मणि लक्षितेऽर्थतस्तस्यास्तित्वसिद्धेरिति चेन्न दूषितत्वात् । अभ्युपगम्याप्याह ।। अर्थत इति ।। तत्प्रमाणत इति ।। अस्ति ब्रह्मेतिश्रुतिप्रमाणत इत्यर्थः ।

किरणावली

स्वप्रकाशतयैवेति ।। तथाचाप्रयोजको हेतुरिति भावः ।। प्रमाणमस्ति नवेति । अत्राद्यपक्षे बहुवक्तव्यत्वात् मूले नेति द्वितीयपक्षस्य प्रथमं दूषितत्वेप्यभावज्ञानस्य प्रतियोगिज्ञानपूर्वकत्वाट्टीकायामेवं विकल्पितं बोध्यम् ।। परप्रकाशत्वाभाव एवेति ।। न चाभावरूपधर्ममादाय सविशेषत्वप्रसङ्गः । अभावपदेनात्र परप्रकाशत्वनिरासस्य विवक्षितत्वेन निर्विशेषत्वभङ्गाभावादिति भावः । परप्रकाशत्वमात्रनिरासे अप्रकाशत्वमेव स्यादित्यन्वयमभिप्रेत्य तावद्योजयति ।। यदि स्वप्रकाश पदेनेति ।। मात्रनिरास इत्यत्र मात्रपदं निरासशब्दात्परं योज्यमिति भावेनोक्तम् ।। निरासमात्रमभिप्रेयत इति ।। ननु परप्रकाशत्वलक्षणविशेषनिषेधे सामान्याभावप्रतिपादनमयुक्तमित्यतो यावत् विशेषबाधे सामान्याभावः प्राप्नोत्येवेतिभावेनोक्तं मूले स्वप्रकाशत्वे प्रमाणाभावादिति । तद्व्याकुर्वन्यावद्विशेषाभावोपपादनाय विशिष्टवाक्यतात्पर्यमाह ।। परप्रकाशस्येति ।। प्रमाणाभावेनेति ।। निरस्तत्वादित्यन्वयः। नन्वेकं परं ज्योतिरनन्यमद्वयमित्यादि प्रमाणमस्तीत्यत आह ।। भावेचेति ।। स्वप्रकाशत्वस्यातिरिक्तत्वे सविशेषत्वस्य तन्मात्रत्वे प्रमेयत्वस्येत्यर्थः ।। दूषितत्वादिति ।। सत्वादिधर्मबोधनं विना तद्विरोधीतरव्यावृत्तेरसम्भवे अवाच्यस्य लक्ष्यत्वायोगेन दूषितत्वादित्यर्थः । अर्थापत्तितः सिद्धिरिति मूलस्यायमर्थः। यतो वाचो निवर्तन्त इति श्रुतेर्ब्रह्मणोऽवाच्यत्वादस्त्यादिपदेनारोपितासत्त्वादिव्यावृत्तिद्वारा ब्रह्मणि लक्षिते असत्त्वे चा सत्त्वव्यावृत्त्यनुपपत्तेरन्यथानुपपत्त्या सद्रूपतासिद्धिरिति ।। श्रुतिप्रमाणत इति ।। श्रुतिप्रमाणतः सिद्धिरिति चेन्न । व्यावृत्तिकथनद्वारा ब्रह्मणि लक्षिते असत्त्वव्यावृत्तेः सत्त्वानतिरेकात्साक्षाद्वचनवृत्त्या सत्त्वाप्राप्तावपि पर्यवसानगत्या श्रुतैव सत्त्वसिद्धिरित्यर्थतः सिद्धिरित्यभ्युपगमात् ।।

भावप्रकाशः

अनुमानस्योपाधिं शङ्कते ।। ननु प्रमाणावेद्यत्वेपीति ।। स्वप्रकाशतयैवेति ।। यत्र नास्तित्वं तत्रास्वप्रकाशत्वमिति साध्यव्यापकत्वमिति साध्यव्यापकत्वात् ।। यत्र प्रमाणेनानुपलभ्यमानत्वं न तत्रास्वप्रकाशत्वं प्रमाणेनानुपलभ्यमानेऽपि ब्रह्मणि स्वप्रकाशत्वस्यैव सत्वेन साधना व्यापकत्वादयमुपाधिरिति भावः ।। अस्ति न वेति । सूचीकटाहन्यायेन मूले प्रथमद्वितीयपक्षनिराकरणेऽप्यभावज्ञानस्य प्रतियोगिज्ञानाधीनत्वेन प्रतियोगिनः प्राधान्यादेवं विकल्पितमिति द्रष्टव्यम् ।। परप्रकाशत्वाभाव एवेति ।। अभावरूपधर्माणां च निर्विशेषित्वाविरोधित्वमिति भावः ।। दूषितत्वादिति ।। न च सर्वशब्दावाच्यस्य लक्ष्यत्वमित्यनेन ब्रह्मणो लक्षितत्वस्य दूषितत्वादित्यर्थः ।। तच्छब्देनार्थापत्तिपरामर्शे विकल्पार्थकवाशब्दानुपपत्तिरित्यत आह । तत्प्रमाणत इति ।

वाक्यविवेकः

तत्सिद्धेरिति । अस्तित्त्वसिद्धेरित्यर्थः ।। परप्रकाशत्वाभाव इति । सचाभावरूपविशेषाभावलक्षणनिर्विशेषत्वाविरोधीति भावः । व्यावृत्तिद्वारेति । व्यावृत्तिबोधनार्थं ब्रह्मणि लक्षिते अर्थतोऽस्तित्वं सिद्धं भवतीति भावः । मूले अर्थतः सिद्धिरिति । अर्थतः सिद्धिरित्यनेन अर्थापत्त्या सत्त्वसिद्धिरित्युच्यते उत तस्य श्रुत्यर्थत्वात् श्रुत्या सिद्धिरित्युच्यत इति भावः ।।

Load More