श्रीमद्भगवद्गीता

।। श्रीवेदव्यासाय नमः ।।

श्री आनन्दतीर्थभगवत्पादाचार्यविरचितः

गीतातात्पर्यनिर्णयः

।। श्रीमद्भगवद्गीता ।।

श्रीमद्भगवद्गीता

धृतराष्ट्र उवाच—

धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।

मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ।।

तात्पर्यम्

मङ्गलाचरणम्

ॐ।। समस्तगुणसम्पूर्णं सर्वदोषविवर्जितम् ।

नारायणं नमस्कृत्य गीतातात्पर्यमुच्यते ।।

श्रीपद्मनाभतीर्थविरचिता टीका

प्रकाशिका

श्रियः पतिं हरिं नत्वा गीतातात्पर्यनिर्णयम् ।

ग्रन्थमानन्दतीर्थार्यकृतं स्पष्टीकरोम्यहम् ।।

अथाशेषवेदपञ्चरात्रादिसदागमैकवेद्यं विष्णुं नमस्कृत्य ग्रन्थारम्भं प्रतिजानीते ।। समस्तेति ।।

श्री जयतीर्थमुनिविरचितायां

न्यायदीपिका

इन्दिरावदनांभोजराजहंसाय विष्णवे ।

अमन्दानन्दसन्दोहसुन्दराकृतये नमः ।। १ ।।

धर्मविज्ञानवैराग्यपरमैश्वर्यशालिनः ।

आनन्दतीर्थभगवत्पादान्वन्दे निरन्तरम् ।। २ ।।

स पद्मनाभतीर्थार्कगोगणोस्तु दृशे मम ।

न तत्त्वमार्गे गमनं विनायदुपजीवनम् ।। ३ ।।

प्रणम्य चरणद्वन्द्वं गुरूणां तत्कृपाबलात् ।

व्याकरिष्ये यथाबोधं गीतातात्पपर्यनिर्णयं ।। ४ ।।

अथाशेषपुरुषार्थहेतुभूतामन्यैरन्यथाव्याख्यातां गीतां यथावद्व्याख्यातुकामो भगवानाचार्यः प्रारिप्सितस्य ग्रन्थस्याविघ्नेन परिसमाप्त्यादिप्रयोजनामिष्टदेवतानतिं शिष्टाचारपरंपरादिप्राप्तां शिष्यजनशिक्षार्थं ग्रन्थे निबध्नाति ग्रन्थारम्भं च प्रतिजानीते ।। समस्तेति ।। अन्तरायपरिजिहीर्षादि मन्तो देवतान्तरनतिमाचरन्तो दृष्टास्तत्किं नारायणप्रणामेनेत्यत उक्तम् ।। समस्तेत्यादि ।। नरायण स्यैव समस्तगुणसंपूर्णत्वेनाशेषदोषदूरत्वेन निखिलप्रार्थितप्रदानसामर्थ्यादितरेषां तत्प्रसादासादितशक्तिमत्त्वात्तत्प्रणाम एव कर्तव्य इति भावः । संपूर्णमिति गुणानां प्रत्येकं पूर्णतामाह । विवर्जितमिति च दोषवर्जनस्य निःशेषताम् । समस्तगीतासु भगवद्गीतायाःप्राधान्यज्ञापनाय गीतेत्येवोक्तम् । मुख्यस्य निर्विशेषेण शब्द इति स्मृतेः । स्वयमेव गीताभाष्यस्य कृतत्वात् किंपुनरारम्भेणेत्यतस्तात्पर्यमित्युक्तम् । व्याख्यातत्वेऽपि गीतायास्तदर्थस्य शिष्याणां बुद्ध्यारोहार्थं शब्दानुकरणाद्यन्तरेण पुनस्तात्पर्यमेवोच्यत इति भावः ।।

श्रीनिवासेन रचितायां

श्रीमन्न्यायदीप

किरणावल्यां

इन्दीवरदलश्याममिन्दिरानन्दवर्धनम् ।।

वन्दे नन्दसुतं सान्द्रानन्दसुन्दरविग्रहम् ।। १ ।।

यद्व्याख्या सर्वगीर्वाणैरचिन्त्याऽत्यद्भुतामला ।।

निजप्रतिभयोद्भूता तं सर्वज्ञगुरुं भजे ।। २ ।।

श्रीमदानन्दतीर्थार्यशास्त्राब्जे यन्मनस्सदा ।।

चञ्चरीकति तं वन्दे जयतीर्थाभिधं मुनिम् ।। ३ ।।

श्रीसत्यनूत्नाभिधदुग्धवारिधेर्जातः सुविद्योरुकलाभिपूर्णः ।।

तापं हरन्नोऽमृतवीक्षणेन श्रीसत्यपूर्णेन्दुरतीव राजते ।। ४ ।।

अस्मद्देशिकपादाब्जेनमृत्वातत्करुणाबलात् ।।

व्याकरिष्ये यथाबोधं गीतातात्पर्यपञ्चिकाम् ।। ५ ।।

ग्रन्थादौ सकलवाङ्मनसदेवताया रसाया वन्दनीयत्वेन तदन्तरङ्गप्रियत्वेन भगवन्तं नमति ।। इन्दिरेति ।। इन्दिराया वदनमम्भोजमिव सौन्दर्यमकरन्दभाजनत्वात् । अधरामृतमकरन्दभाजनत्वाद्वा । तस्मिन्राजहंस इव तस्मै । एतेनेष्टत्वं विशिष्टत्वं च वन्द्यत्वप्रयोजकमुक्तम् । इन्दिरायाः सर्वेष्टदातृत्वात्सर्वस्माद्विशिष्टत्वाच्च तद्भर्तुःसुतरां तदुभयमिति भावः । विष्णोः साकारत्वेऽनित्यत्वप्रसङ्गः निराकारत्वे इन्द्रिरावदनारविन्दमकरन्दास्वादकत्वायोगः । किञ्च राजहंसस्य मकरन्दास्वादनेनेव भगवत इन्दिरावदनांभोजास्वादनेन सुखोत्पादप्रसङ्ग इत्यत उक्तम् अन्देति । अमन्दः सङ्ख्यापरिमाणाभ्यामनवधिको य आनन्दस्तस्य सन्दोहः स एव सुन्दरा आकृतिर्यस्य तस्मै । निरवधिकानन्दात्मकविग्रहस्याङ्गीकारान्नानित्यत्वम् । नाप्यास्वादनानुपपत्तिः । ......श्याभोगः । किन्तु केवलमनुग्रहार्थमिति भावः ।। १ ।।

आदिगुरुत्वात् व्याख्येयग्रन्थप्रणेतृत्वाच्च श्रीमदाचार्यान्प्रणमति धर्मेति ।। व्याख्येयग्रन्थकर्तुराप्तत्वोपपादनायैतद्विशेषणम् । करणापाटवस्य पापमूलत्वाद्धर्मशालित्वेन करणपाटवं विज्ञानेत्यनेन विवक्षितार्थतत्त्वज्ञानं विप्रलम्भस्य रागमूलकत्वात्क्वचिद्दारिद्य्रहेतुकत्वाच्च वैराग्यपरमैश्वर्यशालित्वेनाविप्रलिप्सा, आनन्दतीर्थेत्यनेनानन्दसन्दायिसुशास्त्रप्रणेतृत्वोक्तया विवक्षा चोक्तेति ज्ञेयम् । यद्वा ‘‘धर्मो ज्ञानं च वैराग्यमैश्वर्यं चतुरात्मकः ।। वायु’’रित्यैतरेयभाष्योक्तेराद्यार्धेन वाय्वभेदमाह । तेन च परमाप्तत्वं द्योतयति । तथा च श्रुतिर्यद्वै मनुरवदत्तद्भेषजमिति । मनुश्चात्र वायुः । ते वायवे मनवे बाधितायेति श्रुतेः । विस्तरस्तु तत्वप्रदीपे । अत्रैश्वर्यमणिमाद्यष्टैश्वर्यम् ।। २ ।।

श्रीमत्पद्मनाभतीर्थभट्टारककृतगीतातात्पर्यनिर्णयव्याख्यानोपजीवनेन विस्तृतव्याख्याने स्वस्य प्रवृत्तेस्तान्प्रार्थयते ।। स इति ।। अत्र किरणवचनसाधारणगोशब्दग्रहणेन तत्कृतव्याख्यानस्य यत्सम्यग्ज्ञानजनकत्वेन सौररश्मिसाम्यमभिप्रेतं तद्व्यनक्ति ।। न तत्त्वेति ।। यस्य गोगणस्योपजीवनं विना गीतातात्पर्यनिर्णयादेः यत्तत्वमबाधितोऽर्थस्तस्य यो मार्गोऽवगतिसाधनं करिष्यमाणमस्मदीयं व्याख्यानं तत्र गमनं प्रवृत्तिरेव नास्ति स गोगण इति योज्यम् ।। ३ ।।

साक्षाद्गुरुप्रणामपूर्वकं चिकीर्षितं प्रतिजानीते ।। प्रणम्येति ।। चरणावित्येतावता पूर्तावपि प्रतिपत्तिविशेषं सूचयितुं चरणयोर्द्वन्द्वमित्युक्तम् । लोकेऽपि हि प्रतिपत्तिविशेषं सूचयितुं तव द्वौ पादौ ग्रहीष्य इति वक्तारो भवन्ति ।। गीतातात्पर्यनिर्णयमिति ।। गीतातात्पर्यस्य निर्णयो यस्मादिति व्यधिकरणो बहुव्रीहिः । यद्वा निर्णीयतेऽनेनेति निर्णयः । गीतातात्पर्यस्य निर्णयो गीतातात्पर्यनिर्णयस्तमित्यर्थः ।। ४ ।।

ननु गीताव्याख्यानं भगवत्पादीयमयुक्तं व्याख्याने बीजाभावात् । आद्यश्लोके पादत्रयं व्यर्थं मङ्गलस्य कर्तव्यत्वे प्रयोजनप्रमाणयोरभावात् । भावेऽपि ग्रन्थे निवेशनं व्यर्थं न हि ग्रन्थनिवेशनमेव मङ्गलम् । कथका(ना)देरपि बहिरनुष्ठेयस्य सम्भवात् । चतुर्थपादे प्रतिज्ञा च व्यर्था । व्याख्यानादेव प्रतिपत्तिसम्भवादित्यत अवतारयति ।। अथेति ।। प्रतिग्रन्थव्याख्यारभ्यत इत्यारम्भार्थोऽथशब्दः । अन्यथाप्रतिपत्तिरेव व्याख्याने बीजमिति भावेनोक्तम् ।। अन्यैरन्यथाव्याख्यातां यथावद्व्याख्यातुकाम इति ।। अन्यैरन्यथाव्याख्यायतां नाम भवद्भिः कुतः सम्यग्व्याख्येयमित्यत उक्तम् ।। अशेषपुरुषार्थेति ।। सम्यग्व्याख्याने मिथ्याज्ञानप्रसक्तयाऽशेषमोक्षयोग्यानानां धर्मादिमोक्षान्ताशेषपुरुषार्थावाप्तिस्ततो न स्यादिति भावः । परिसमाप्त्यदीत्यादिपदेन प्रचयो गृह्यते । परंपरादीत्यादिपदेन तदनुमिता श्रुतिर्गृह्यते ।। शिष्यजनशिक्षार्थमिति ।। स्वस्यान्तरायाभावात्केवलशिष्यशिक्षार्थं कृतामसन्निहितशिष्यशिक्षार्थं ग्रथयतीत्यर्थः ।। ग्रन्थारम्भं चेति ।। श्रोतृशेमुष्यनुकूलनायेति पूरणीयम् । देवतान्तरनतिं विघ्नेशादिनतिम् ।

ननु समस्तैर्गुणैः पूर्णमित्येतावता पूर्णत्वात् समिति व्यर्थमित्यत आह ।। संपूर्णमितीति ।। पूर्णतां निरवधिकताम् । सर्वैर्गुणैः पूर्णमित्युक्ते प्रत्येकं गुणानां सावधिकत्वेऽपि तादृशैरनन्तैर्गुणैः पूर्णमिति प्रतीतिः स्यादतः संपूर्णमित्युक्तम् । सर्वैर्गुणैः सम्यक्पूर्तिर्नाम आनन्देनापि सम्यक्पूर्तिर्ज्ञानेनापीत्येवमादिगुणैः प्रत्येकं सम्यक् सङ्कोचं विना पूर्तिरिति प्रत्येकं गुणानां निरवधिकत्वमाहेत्यर्थः । विवर्जितमिति च दोषवर्जनस्य निःशेषतामिति । दोषाभावस्य दोषासामानाधिकरण्यमित्यर्थः । अस्मादादिषु दुःखादिदोषाभावस्य नष्टशेषदोषसामानाधिकरण्यमस्ति न तथात्र । अनादित एव निःशेषतया दोषाणामभावादिति भावः । अत एवाशेषदोषदूरत्वेनेत्युक्तम् । समस्तगीतासु श्रुतिगीतादिकासु । ननु श्रोतृशेमुष्यनुकूलनाय ग्रन्थारम्भे प्रतिज्ञातव्ये गीतार्थ उच्यत इति वक्तव्यम् । तात्पर्यमुच्यत इति कुत इत्यत आह ।। स्वयमेवेति ।। शब्दानुकरणादीत्यादिपदेन स्वपदवर्णनं ग्राह्यम् । यथा सूत्रभाष्ये सिद्धान्तयत्सूत्रमनुकरोति ।। नेति ।। स्वपदादि वर्णयति ।। अग्नीति ।। इति तत्वप्रकाशिकायामवतारितत्वान्न तथा चेतोर्पणार्थं हि निगद्यत इत्यनुकरणमग्निगायत्र्यादिशब्दार्थरूपोऽसाविति चेतोर्पणार्थं हि निगद्यत इति स्वपदवर्णनम् । यथा वा भाष्ये प्रसन्नचेतसो ह्याशुबुद्धिःपर्यवतिष्ठतीत्यर्थानुकरणम् । ब्रह्मापरोक्ष्येण स्थितिं करोतीति स्वपदवर्णनम् । न चात्रैवम् । किंतु मात्रास्पर्शा इति विषयसम्बन्धा इत्यादिरूपेण तात्पर्यतो व्याख्यानमेवेति भावः । नन्वत्रापि नित्यः सर्वगतस्थाणुरित्यादौ नित्यःसर्वगते स्थितः अणुश्चायमिति सर्वगतस्थाणुरिति अनुकरणं सर्वगतो विष्णुस्तदधीनत्वादिकं तत्स्थत्वमिति स्वपदवर्णनं च वर्तत एवेति चेन्न । प्रायिकत्वाभिप्रायेणैवमुक्तिसम्भवात् । यद्वा यत्र भाष्ये स्पष्टं व्याख्यातं तत्र शब्दानुकरणाद्यन्तरेण तात्पर्यमुच्यते । यच्च न व्याख्यातं प्रकारान्तरेण व्याख्यायते । तत्र क्वचिच्छब्दानुकरणादिकमस्त्येवेति न भाष्येण गतार्थतेति विवक्षितत्वात् । अत एव त्रैगुण्याख्यं विषं यापयन्त्यपगमयन्तीति त्रैगुण्यविषया इत्यनुकरणं स्वपदविवरणं च कृतम् । यापयन्तीत्यस्य प्रापयन्तीत्यन्यथाप्रतीतिनिरासायाह ।। अपगमयन्तीति(टीकायां)स्वपदविवरणपरत्वेन व्याख्यातं बोध्यम् ।

श्री राघवेन्द्रयतिकृत

भावदीपः

लक्ष्मीनारायणं नत्वा पूर्णबोधादिसद्गुरून् ।

गीतातात्पर्यटीकाया भावदीपं करोम्यहम् ।।

सकलवाङ्मनसदेवतेन्दिरोपसर्जनकभगवन्नतिरूपं मङ्गलं ग्रन्थादावाचरति ।। इन्दिरेति ।। एतच्च न सौख्यातिशयाय, किन्तु तदनुग्रहार्थमेवेति भावेनोक्तममन्देत्यादि । ‘अशरीरः प्रज्ञात्मा’ इत्युक्तेः कथमशरीरस्य वदनाम्भोजराजहंसत्वमिति शङ्कानिरासायोक्तं सुन्दराकृतय इति । प्रकृतदेहनिषेधपरा श्रुतिरिति भावः ।

ग्रन्थकर्तॄन्नमति ।। धर्मेति ।। गुरुत्वाद्बहुवचनम् । एवमग्रेऽपि । प्राचीनटीकाकर्तॄनर्थयते ।। स पद्मनाभेति ।। सूर्यकिरणसमूहो यथा लोकस्य ज्ञानाय भवति, तथैतेषां वाक्समूहो मम ज्ञानायास्तु । उत्तरार्धेऽप्यर्थद्वयं ज्ञेयम् । श्रीपद्मनाभेति पाठे यच्छब्दश्रवणात् स गोगण इति योज्यम् । अक्षोभ्यतीर्थाख्यस्वगुरून् नत्वा चिकीर्षितं प्रतिजानीते ।। प्रणम्येति ।।

।। अथेति ।। प्रतिग्रन्थव्याख्याऽऽरभ्यत इत्यारम्भार्थोऽथशब्दः । व्याख्याने बीजोक्तिरशेषेत्यादि । यथावदित्येतद्घटनायोक्तमन्यैरित्यादि । परिसमाप्त्यादीत्यादिपदेन प्रचयसङ्ग्रहः । परम्परादीत्यादिपदेन तदनुमितायाः ‘प्रारिप्सितसमाप्त्यादिकामः स्वेष्टदेवतानतिं कुर्यात्’ इति श्रुतेर्ग्रहः । निबन्धनस्य कृत्योक्तिः शिष्येति । शिष्यैरप्येतदवश्यं कार्यमिति ज्ञापनार्थमित्यर्थः ।

समस्तपदेनापौनरुक्त्यमाह ।। सम्पूर्णमिति ।। सम्मतगीतास्विति ।। वेणुगीताभ्रमरगीतागोपिका गीताभिक्षुगीतेत्यादिरूपास्वित्यर्थः ।। स्मृतेरिति ।। सूत्रभाष्योक्तस्मृतेरित्यर्थः ।

श्री सत्यप्रज्ञतीर्थविरचितः

न्यायदीपिका

भावप्रकाशः

चिदानन्दतनू श्रीशौ सदा पद्मादिसेवितौ

मुदा कृष्णौ श्रयेत्सर्वविदौ वासिष्ठयादवौ ।। १ ।।

श्रीशपादाब्जसंसक्तो वीशशरुद्रादिसेवितः

आशोत्तमो मध्वमुनिराशये मम संविशेत् ।। २ ।।

मध्वदर्शनदुग्धाब्धिं बुद्धिमंथ्ना विमथ्य यः

उद्द्धार सुधां मे स बुद्धिं जयमुनिर्दिशेत् ।। ३ ।।

मध्वशास्त्रमशेषं यः प्रीत्या मह्यमुपादिशत् ।

तं सत्यव्रतयोगीन्द्रं गुरुं वन्दे निरन्तरम् ।। ४ ।।

सत्यव्रततनूजेन सत्यप्रज्ञाख्यभिक्षुणा

गीतात्पर्यटीकार्थो यथामति निरूप्यते ।। ५ ।।

श्रीजयतीर्थश्रीमच्चरणः प्रारिप्सितविघ्नपरिसमाप्त्यादेरङ्गतया प्रमाणावगतमवश्यकरणीयं समुचितविशिष्टेष्टदेवताप्रणामरूपमङ्गलमनुष्टाय असन्निहितशिष्यशिक्षार्थं ग्रन्थादौ निबध्नाति । इन्दिरेति । इन्दिरावदनम् अम्भोजमिव इन्दिरावदनाम्भोजम् । तस्मिन् राजहंस इव । राजहंसः यथाऽम्भोजमकरन्दपाने रतः तथाऽयमपि इन्दिरावदनाधरामृतपानरत इत्यर्थः । अनया लक्ष्मीपतित्वोक्त्याविशिष्टत्वमुक्तमुपपादितं भवति । ननु विष्णुर्विग्रहवान्नवा । आद्ये विनाशप्रसङ्गः । विग्रहवतो विनाशनियमात् । द्वितीये विग्रहाभावे तदाश्रितेन्द्रियाभावेनाद्य विशेषणानुपपत्तिरित्यत आह ।। अमन्देति । अमन्दाः अमन्दः पूर्णो य आनन्दः तस्य सन्दोहः, समूहः । स एव सुन्दराकृतिः मङ्गलविग्रहोयस्य तस्मा इत्यर्थः तथा चाद्य पक्षाङ्गीकारेऽपि विग्रहस्यानन्दात्मकत्वेना जडत्वान्न विनाशप्रसङ्ग इति भावः । अनेनानन्दपूर्णस्य विष्णोर्लोभाद्यभावात् आनन्ददातृत्व रूपेष्टत्वसिद्धिरिति सूचितम् । विष्णोर्व्याख्येयग्रन्थप्रतिपाद्यत्वरूपसमुचितत्वं तु सुप्रसिद्धमेवेति भावः ।।

विषयाद्यभावादयं ग्रथो नारम्भणीयोऽत एव न व्याख्येयश्चेत्याशङ्कां परिहरन् ग्रन्थारम्भे हरिप्रणामवत् गुरुप्रणामस्यापि कर्तव्यत्वात् गुरून् प्रणमति । धर्मेति । अत्र धर्मविज्ञानवैराग्यान्येव परमैश्वर्यमिति वा ऐश्वर्य शब्देनाणिमाद्यैश्वर्यं वा विवक्षितं तैः, शालिन इत्यर्थः । इदं च नम्यत्वोपपादकम् । लोके र्ज्ञानादिमतां नम्यत्वदर्शनादिति भावः । आनन्दतीर्थेति । अत्र आनन्द इति ब्रह्म उच्यते । आनन्दो ब्रह्मेति श्रुतेः । तस्य तीर्थं शास्त्रं यस्मात्स तथोक्तः । तीर्थं शास्त्रेऽध्वरे क्षेत्र इत्यभिधानात् । अत्र तस्येति षष्ट्यर्थश्चप्रतिपाद्यप्रतिपादकभावः । अनेन च परमात्मा शास्त्रस्य विषय इत्युक्तं भवति । तथा आनन्दमयः स्वरूपानन्दः तदनुभव इति यावत् । तस्य शास्त्रमित्यादि पूर्ववत् । षष्ट्यर्थश्च संपाद्यसंपादकभाव इति भावः । अनेन प्रयोजनं आनन्दानुभव इति सिध्यति । आनन्दानुभवार्थ्यधिकारी । यथायोग्यं सम्बधश्च दृष्टव्यः । तथा च विषयादिमत्वादारम्भणीयत्वं । तत एव व्याख्येयत्वं सिद्धमिति भावः ।

इदानीं स्वस्य यत्कृतव्याख्यानोपजीवनेन मध्वशास्त्रव्याख्यानकरणे प्रवृत्तिः तान् प्रार्थयते । स इति । पद्मनाभतीर्थः अर्क इव पद्मनाभतीर्थार्कः । तस्य गोगणः वचनसमुदायः । तत्कृतव्याख्यानमिति यावत् । अत्र किरणवचनसाधारणगोशब्दगृहणेन पद्मनाभतीर्थकृतव्याख्यानस्य सम्यग्ज्ञानजनकत्वेन सौररश्मिसाम्यमभिप्रैतीति भावः । अथ स्वसाक्षाद्गुरुप्रणामपूर्वकं चिकीर्षितं प्रतीजानीते । प्रणम्येति । यथाबोधं बुध्यनुसारेणेत्यनेनागाध बोध भगवत्पादकृत ग्रन्थस्याति दुर्बोधबह्वर्थत्वं सूचयति । गीतातात्पर्यनिर्णयमित्यन्वर्थकसंज्ञाकरणेन गीतातात्पर्यस्य निर्णयो यस्मादिति व्यधिकरणबहव्रीहिर्वा । निर्णीयतेऽनेनेति निर्णयो ग्रन्थः । गीतातात्पर्यस्य निर्णय इति षष्टीतत्पुरुषो वेति सूचयति । आद्यपद्यमवतारयति । अथेति । प्रतिग्रन्थव्याख्यारम्भार्थोऽथशब्दः । परंपरादीत्यादिपदेनाचारेणानुमित श्रुतिर्ग्राह्या । प्राप्तामित्यनन्तरं सर्वदा तत्करणस्वभावादनुष्ठितामिति शेषः । शिष्यजनशिक्षार्थमिति असन्निहितशिष्यजनशिक्षार्थमिति शेषः । निबध्नातीत्यनन्तरं प्रमाणलक्षणटीकानुसारेण श्रोतृशेमुषीमनूकूलयिष्यन्निति वक्ष्यमाणरीत्या गतार्थताशङ्कानिरासार्थमिति वा शेषः । ननु समस्तगुणपूर्णमित्यनेनैवालं किं समित्युपसर्गेणेत्यत आह संपूर्णमिति ।। एवमेव विवर्जितमित्येतदपि व्याख्येयम् ।। गीतेत्येवोक्तमिति ।। अनेनेय गीतासजातीय भ्रमरगीतादिभ्यः प्रधाना, निर्विशेषणगीताशब्दवाच्यत्वात् । यत्र निर्विशेषणशब्दवाच्यत्वं तत्र तच्छब्दवाच्यानां मध्ये प्रधानत्वं यथा व्यास इत्यनुमानं सूचयति । अनुमानानुग्राहकं प्रमाणमाह ।। मुख्यस्येति ।। शब्दानुकरणादीत्यादिशब्देन स्वपदवर्णनं ग्राह्यम् ।

श्रीसत्यनाथयति विरचितः श्रीमन्यायदीपिकाव्याख्यानं

वाक्यविवेकः

गीतातात्पर्यविषयं निर्दोषगुणबृंहितम् ।।

नारायणमहं वन्दे भक्तया मूधर्ि्न कृताञ्जलिः ।। १ ।।

संसारदुःखशमनं मुक्तानन्दनियामकम् ।।

काञ्चीनिवासवरदराजं वन्दे निरन्तरम् ।। २ ।।

आनन्दतीर्थं संसेवे तापत्रयविनाशकम् ।।

गीतातात्पर्यविज्ञप्त्यै सर्वज्ञं देवपूजितम् ।। ३ ।।

गीतातात्पर्यटीकायाः बोधमुद्दिश्य सन्ततम् ।।

जयतीर्थमुनिं वन्दे सर्वशास्त्रविशारदम् ।।

ज्ञानभक्तयादिसंपन्नं साधुसेव्यं जगद्गुरुम् ।।

श्रीमत्सत्यनिधिं नत्वा व्याकुर्वे न्यायदीपिकाम् ।।

जयतीर्थस्वामिभिः गीतातात्पर्यनिर्णयस्य टीका न्यायदीपिका शिष्यानुग्रहार्थकृता ।। सा टीका केनचिद्विदुषा नीता आच्छादिताच ।। तदनन्तरं तत्पुस्तकं विचार्यापि टीकाकाराः न लब्धवन्तः ।। तदनन्तरं शिष्यानुग्रहार्थं पुनः गीतातात्पर्यस्य टीकां कृतवन्तः ।। तस्याश्च न्यायदीपकेति पूर्वटीकानामैव कृतवन्तः ।। टीकाद्वयवाक्यनि प्रायः समानाकाराण्येव ।। क्वचित् क्वचित् वाक्यानि विभिन्नार्थकानि विभिन्नरूपाणि भवन्ति ।। अनन्तरं बहुवर्षेष्वतीतेषु सत्सु पूर्वनिर्मिता केनचिदाच्छादिता टीका प्रकटीबभूव ।। ततः टीकाद्वयमिति ज्ञानाभावात् एकैवटीका बहुविधपाठोपेतेति जना जानन्तीति । अतः यत्र टीकाद्वयवाक्यानि भिद्यन्ते तत्र एतानि वाक्यानि टीकाभेदेन जयतीर्थमुनिकृतानीति वक्ष्यामः । क्वचित् प्रक्षिप्तान्यपि वाक्यानि वर्तन्ते । पदानि प्रक्षिप्तानि वर्तन्ते । तानि सर्वाणि प्रक्षिप्तानि टीकान्तर्गतानीति वक्ष्यामः ।।

टीकाकारश्च यं मङ्गलमनुष्टाय शिष्यशिक्षार्थं ग्रन्थादौ निबध्नाति ।। इन्दिरेति ।। ग्रन्थकर्तृप्रणामं निबध्नाति ।। धर्मविज्ञानेति ।। पूर्वटीकाकारप्रार्थनारूपं मङ्गलं निबध्नाति ।। स पद्मनाभेति ।।

गुरुप्रणामपूर्वकं चिकीर्षितं प्रतिजानीते ।। प्रणम्येति । मूलवतारयति ।। अथेति । यथावत् व्याख्यातुकामः भगवनाचार्यः इष्टदेवतानतिं शिष्याशिक्षार्थं ग्रन्थयति ।। ग्रन्थारम्भं च प्रतिजानीत इत्यन्वयः ।। परव्याख्यानेनैव गीतार्थज्ञानसम्भवात् किमपूर्वनिर्माणेनेत्यत उक्तम् ।। अन्यथा व्याख्यातामिति ।। नत्यादिरूपमङ्गलाभावेऽपि नास्तिकानुष्ठितग्रन्थसमाप्त्यादेः दर्शनात् मङ्गलं न समाप्त्यादिहेतुरिति मङ्गलविशेषभूतनतेः समाप्त्यादिहेतुत्वात् मङ्गलकर्तव्यमिति शिष्यशिक्षणमयुक्तमित्यत उक्तं प्रारिप्सितस्येति । मङ्गलस्य यादृशतादृशसमाप्तिं प्रति ओतुत्वेऽपि अधिकारिमहाफलहेतुत्वादिविशिष्टसमाप्तिं प्रति हेतुत्वात् तब्दोधनं युक्तमिति भावः ।। समाप्तिविशेषं प्रति हेतुत्वे शिष्टाचारः प्रमाणमित्याह ।। शिष्टाचारेति ।। अन्तरायेति ।। तेषामाचारदर्शनेनैव मङ्गलस्य कर्तव्यताज्ञानसम्भवात् नारायणप्रणामशिक्षणेन किं प्रयोजनमित्यर्थः ।। शिष्टाचारदर्शनशिक्षितेन अन्यदेवताप्रणामज्ञानेनैव अनुष्टानद्वारा समाप्त्यादिप्रयोजनसिद्धेः साधनान्तरोपदेशो नावश्यक इति भावः । एतेन समाप्तिं प्रति द्वयोरपि साधनत्वात् किं नारायणप्रणामेनेति कथनमयुक्तमिति परास्तम् । उपदेशवैय्यर्थ्ये तात्पर्यात् ।

तत्प्राणाम एवेति । विशिष्टफलसिध्यर्थमिति शेषः । गुणपूर्णमित्येतावता पूर्तेः समित्युपसर्गवैय्यर्थ्यमित्यत आह । संपूर्णमितीति ।। पूर्तिर्द्विविधा ।। पूर्णैः पूर्तिः अपूर्णैः पूर्तिश्चेति ।। अत्र आद्यैव पूर्तिः विवक्षितेति ज्ञापनाय संपूर्णमित्युक्तम् ।। अद्यायाः पूर्तेः संपूर्त्यादि शब्दाभिधेयत्वात् संपूर्णशब्देन पूर्णगुणपूर्तिलाभः ।। एतेन संशब्दस्य गुणनिष्टपूर्त्यभिधायकत्वेना गुणविशेषणत्वात् सङ्गुणपूर्णमिति भाव्यमिति परस्तम् ।। विशिष्टपूर्णत्ववाचिना संपूर्णशब्देन गुणानां पूर्णत्वस्य लाभात् ।। अपव्याख्यानैः गीतातात्पर्यस्य अन्यथासिध्यभावेऽपि भाष्येणान्यथासिद्धिः स्यादेवेति शङ्कते ।। स्वयमेवेति ।। शब्दानुकरणाद्यन्तरेणेति भाष्ये गीतापदानुकारिपदैः व्याख्यानं कृतम् ।। यथा स्वपदवर्णनं कृतं एवं च गीतापदवत् भाष्यपदानामपि दुर्गमार्थत्वात् मन्दानां न बुध्यारोहः स्यात् । तथा स्वपदव्याख्यानत्वज्ञानाभावात् भाष्यकारेण गीतापदानुकारिपदैरेकं व्याख्यानं कृतम् ।। स्वपदविवरणात्मकेन ग्रन्थेन गीतायाः व्याख्यानान्तरं कृतमिति भ्रमः स्यात् ।। तदुभयनिवारणार्थं अनेन ग्रन्थेन विस्पष्टं तात्पर्यमुच्यत इति भावः ।।