गीता
कानाम विभूतिः
गीता
एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः ।
सोऽविकम्पेन योगेन युज्यते नात्र संशयः ।। ७ ।।
तात्पर्यम्
‘युज्यते येन योगोऽसावुपायः शक्तिरेव वा’ इति च । विशिष्टभवनं विभूतिः । महत्त्वम् । विविधभवनं वा । योगः सामर्थ्यम् ।। ७ ।।
प्रकाशिका
‘एतां विभूति योगं चे’त्येतद्व्याचष्टे ।। युज्यत इत्यादिना ।। ७ ।।
न्यायदीपिका
उक्तमाहात्म्यज्ञाने फलमुच्यते ।। एतामिति ।। तत्र कर्मसमाधियोगयोरत्रानुक्तेः कथमेतं योगमित्युच्यत इत्यतो नात्र कर्मयोगादिर्विवक्षित इति भावेन योगशब्दस्यार्थान्तरं स्मृत्या दर्शयति ।। युज्यत इति ।। युज्यते उपेयं सम्भवतीत्यर्थः । शक्तिश्च युज्यते शक्यमनयेति योग इत्यर्थः । नन्वत्राणिमाद्यैश्वर्यस्यानुक्तत्वात्कथमेतां विभूतिमित्युच्यत इत्यत आह ।। विशिष्टेति ।। अभिप्रायमाह ।। महत्वमिति ।। महत्वं च सुरगणाद्यविज्ञेयतयोक्तमिति भावः । वक्तुमर्हस्यशेषेण दिव्याह्यात्मविभूतय इति पृष्टे महत्वस्य अनुक्तत्वात् कथं विभूतिशब्दो महत्त्वार्थ इत्यत आह ।। विविधेति ।। तत्र विविधभवनं विभूतिशब्देनाभिप्रेतमिति भावः । अस्तु योगशब्दस्योपायादिवाचित्वं तथाऽप्यत्र कोऽप्युपायो नोक्त इत्यतोऽत्र शक्तिरेवार्थः । साचोक्तेति भावेनाह ।। योग इति
।। ७ ।।
किरणावली
योगस्य प्रकृतत्वोपपादनाय लिङ्गव्यत्ययेनानुवदति ।। एतं योगमिति ।। उपेयं प्राप्यं शक्यं शक्तिविषयतायोग्यम् ।। साचोक्तेति ।। भूतानां बुद्ध्यादीनां तद्धर्माणां च स्रष्टृत्वोक्तया प्रभवमित्यस्य प्रभावमिति व्याख्यातत्वाद्वा शक्तिरुक्तेत्यर्थः । तथा भजन्त इति सर्वकारणत्वादिज्ञानेन विश्वासेनेति वाऽर्थः ।। ७ ।।
भावदीपः
उपेयमिति ।। प्राप्यमित्यर्थः । अन्यव्यावृत्तिभ्रान्तिनिरासायैवकारत्यागेनान्वयपूर्वमुपादत्ते ।। शक्तिश्चेति ।। योग इत्यन्वयः ।। शक्यमिति ।। शक्तिविषयतायोग्यमित्यर्थः ।। सा चोक्तेति ।। भूतानां बुद्ध्यादिभूतधर्माणां च स्रष्ट्रत्वोक्त्या प्रभवमित्यस्य प्रभावमिति व्याख्यानाद्वा शक्तिरुक्तैवेत्यर्थः ।। तथा भजन्त इति ।। सर्वकारणत्वादिज्ञाने विश्वासेनेति वार्थः ।। ७ ।।
भावप्रकाशः
एतं योगमितीति ।। एतामित्यस्य लिङ्गव्यत्ययेनानुवृतस्य योगमित्यनेन सम्बन्ध इत्यभिप्रेत्यैवमुक्तमिति द्रष्टव्यम् ।। अविज्ञेयतयोक्तमिति । नमे विदुः सुरगणा इत्यनेनेत्यर्थः ।। ७ ।।
वाक्यविवेकः
उपायस्य योगशब्दवाच्यत्वं व्युत्पत्तिप्रदर्शनेनाह ।। युज्यते उपेयमिति । उपायेन उपेयः युज्यत इति उपायोगशब्दार्थः । युज्यत इत्यनेनोक्तं सम्बन्धं विस्पष्टमाह । सम्भवतीत्यर्थ इति । शक्तिश्चेति ।। अनया शक्तया शक्यं युज्यत इति शक्तिरपि योगशब्दार्थ इत्यर्थः ।। ननु यथा अणिमादिनोक्तं एवं महत्वमपि नोक्तमित्यत आह । महत्वं चेति । महत्तत्वं विभूतिशब्दार्थो न भवतीति शक्यते ।। वक्तुमर्हस्यशेषेणेति ।। यद्यद्विभूतिमिति श्लोके विभूतिशब्दस्य महत्वमर्थः स्यात् तर्हि वक्तुमर्हस्यशेषेण दिव्याह्यात्मेत्यर्जुनप्रश्नवाक्यागतविभूतिशब्दस्यापि महत्वमेवार्थः स्यात् न च तत्रापि महत्त्वमर्थ इति वक्तुं युक्तं प्रश्नोत्तरे भगवद्वाक्ये महत्वानभिधानात् ।। तस्मादत्रापि विभूतिशब्दस्य न महत्वमर्थ इति भावः ।। ७ ।।