गीता
परमात्मनि न दोषदृष्टिः कार्या
गीता
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।
परं भावमजानन्तो मम भूतमहेश्वरम् ।। ११ ।।
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ।
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ।। १२ ।।
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः ।
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ।। १३ ।।
सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः ।
नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ।। १४ ।।
तात्पर्यम्
मानुषीं मनुष्यसदृशीम्
‘तन्वा विष्णुरनन्योऽपि स्वाधीनत्वात् तदाश्रितः’ इति च ।
‘ब्रह्मरुद्ररमादीनां साम्यदृष्टिरनन्यता ।
प्रादुर्भावगतस्यापि दोषदृष्टिरपूर्णता ।
धर्मदेहावतारादेर्भेददृष्टिश्च सङ्करः ।
अवतारेष्विति ज्ञेयमवज्ञानं जनार्दने ।
सर्वं मोघं शुभं तस्य योऽवजानाति केशवम् ।
अवरं याति च तमः प्रादुर्भावगतोऽप्यतः ।
ज्ञेयः केवलचिद्देहो विदोषः पूर्णसद्गुणः’
इति च भविष्यत्पर्वणि ।। १११४ ।।
प्रकाशिका
‘अवजानन्ति’ इत्यादेरर्थमाह ।। मानुषीमित्यादिना ।। अनन्यतादृष्टिरपूर्णतादृष्टिरिति दृष्टिपदमध्याहर्तव्यम् ।। अवतारेषु सङ्करस्तु जीवविशेषस्य पृथ्वादेर्विष्ण्ववतारत्वदृष्टिः ।। ११,१४ ।।
न्यायदीपिका
यद्येवंविधो भवांस्तर्हि कथं केचित्त्वामवजानन्ति का च तेषां गतिरित्यत उच्यते ।। अवजानन्तीति ।। तत्र भगवतो मानुषशरीरोक्तेर्भूतभृन्नच भूतस्थ इत्युक्तिविरोध इत्यत आह ।। मानुषीमिति ।। नात्र भगवद्देहस्य मानुषत्वमुच्यते येन विरोधः स्यात् । किं तु मूढानामवज्ञानकारणतया मानुषसादृश्येन प्रतीयमानत्वमेवेत्यर्थः । तथाप्यत्र तनुमाश्रितमिति भगवतस्तद्देहस्य च भेदोक्तेः पूर्वोक्तविरोध इत्याशङ्कां स्मृत्यैव परिहरति ।। तन्वेति ।। यथा देवदत्तशरीरं तदधीनमेवं भगवद्देहस्यापि तदधीनत्वाद्भगवतस्तदाश्रितत्वप्रयोगो गौण इत्यर्थः । अवज्ञानं च न केवलमवरतया ज्ञानं किं त्वन्यदप्यस्तीति भावेन श्लोकं स्मृत्यैव व्याचष्टे ।। ब्रह्मेति ।। अनन्यताऽपूर्णतेत्यत्र दृष्टिरिति संयोज्यम् । अवतारेषु संकरो नामानवताराणामवतारत्वेनावताराणामनवतारत्वेन ज्ञानम् । सर्वस्माद्भिन्नः सर्वोत्तमः स्वगतभेदविवर्जितो यथावदिति च ज्ञातव्यम् ।।
भगवतो दोषित्वादेवावजानन्तीति किं न स्यादित्यतस्तथात्वे देवप्रकृतयोऽप्यवज्ञां कुर्युर्नच तदस्तीत्युच्यते ।। महात्मान इति ।। १११४ ।।
किरणावली
भूतभृन्नचभूतस्थ इत्युक्तविरोध इति ।। तत्र देहस्य भगवल्लक्षणलक्षितत्वेन भगवत्स्वरूपतयाऽप्राकृतत्वोक्तेरिति भावः । ननु भगवद्देहस्य मानुषसादृश्यमप्ययुक्तम् । जननमरणविकारादेस्तत्सादृश्यस्य कस्याप्यभावादित्यतः मूढानां मानुषवत्प्रतीतामिति भाष्यं हृदि निधाय व्याचष्टे ।। किंतु मूढानामिति ।। किंत्वन्यदप्यस्तीति ।। अवमत्वव्याप्यधर्मदर्शनरूपमप्यवज्ञानमस्तीत्यर्थः । मूले साम्यदृष्टिरित्यादौ जनार्दनेनेति द्रष्टव्यम् । धर्मदेहावतारादेरित्यस्य धर्मधर्मिणोर्देहेदहिनोरवतारमूलरूपयोरित्यर्थः । अनवताराणां पृथ्वादीनां अवताराणां व्यासादीनाम् । मूले सर्वं मोघं शुभमित्यस्य आशासितं कर्मज्ञानं चेति सर्वं शुभमित्यर्थः । राक्षसीमासुरीं चैव प्रकृतिमिति दुर्योग्यतोक्तया सूचितं विपरीतफलमुच्यते अधरमिति ।
आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ।।
इति वक्ष्यमाणत्वादिति भावः । निन्दार्थवादस्य विपरीतविधितात्पर्यकत्वात्तद्व्यनक्ति । प्रादुर्भावगत इत्यादिना । साम्यानन्यतादेर्विरोधिधर्मान् मूलानुक्तान् स्वयमाह ।। सर्वस्माद्भिन्न इत्यादिना ।। अनन्यतेत्यस्य विरोधितया सर्वस्माद्भिन्न इति साम्यस्य विरोधितया सर्वोत्तम इति । धर्मदेहावतारादेर्भेद इत्यस्य विरोधितया स्वगतभेदवर्जित इति । अवतारेषु संकर इत्यस्य विरोधितया यथावदिति चेति प्रादुर्भावगतो न केवलं मूलोक्तधर्मवत्तया मेयः किंतु सर्वस्माद्भिन्नः सर्वोत्तमः स्वगतभेदवर्जितो ज्ञेयः । यथावत् असांकर्येण च ज्ञेय इति च ज्ञातव्यमित्यर्थः ।। ११ ।।
भावदीपः
इत्युक्तिविरोध इति ।। तत्र देहस्य भगवल्लक्षणोक्त्याऽप्राकृतत्वप्राप्तेरिति भावः ।। पूर्वोक्तेति ।। भूतभृदित्यादौ देहस्य तत्स्वरूपत्वोक्तेस्तद्विरोध इत्यर्थः । अनवताराणां पृथ्वादीनां अवताराणां वेदव्यासपरशुरामप्रभृतीनां अवमत्वादिना ज्ञानमवज्ञानमित्युक्तम् । महात्मानस्तु ज्ञात्वा भजन्तीत्यत्र तद्ज्ञानस्वरूपम(मा)त्रस्मृतौ तदप्यत्र ग्राह्यमिति स्वयमाह ।। सर्वस्माद्भिन्न इत्यादिना ।। यथावदित्यत्र ज्ञानमिति योज्यम् ।। १११४ ।।
भावप्रकाशः
पूर्वोक्तिविरोध इति । ममात्मेतिपदेन यद्भगवद्देहस्य चेतनत्वेन भगवदभिन्नत्वमुक्तम् ।। तद्विरोध इत्यर्थः ।। नन्वनन्यतापूर्णत्वयोरसत्वेन कथं तयोरवज्ञानत्वोक्तिः कथं च तमःसाधनत्वोक्तिरित्यत आह । अनन्यतेति । अनन्यतेत्यादेर्विरोधिधर्मान् मूलेऽनुक्तान् स्वयमाह ।। सर्वस्माद्भिन्न इत्यादिना । धर्मावतारादेर्भेददृष्टिरित्यस्य विरोधिधर्ममाह । स्वगतभेदवर्जित इति । अवतारेषु संकर इत्यस्य विरोधिधर्ममाह । यथावदिति । अवताराणामेवावतारत्वमनवताराणामेवानवतारत्वमित्यर्थः ।। १११४ ।।