श्रीभगवानुवाच
षोडशोऽध्यायः
देवासुरलक्षणानि
श्रीभगवानुवाच—
अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः।
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ।। १ ।।
अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् ।
दया भूतेष्वलोलुप्त्वं मार्दवं ह्नीरचापलम् ।। २ ।।
तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता ।
भवन्ति संपदं दैवीमभिजातस्य भारत ।। ३ ।।
दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च ।
अज्ञानं चाभिजातस्य पार्थ संपदमासुरीम् ।। ४ ।।
दैवी संपद्विमोक्षाय निबन्धायासुरी मता ।
मा शुचः संपदं दैवीमभिजातोऽसि पाण्डव ।। ५ ।।
द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च ।
दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे ृणु ।। ६ ।।
प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः ।
न शौचं नापि चाचारो न सत्यं तेषु विद्यते ।। ७ ।।
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ।
अपरस्परसंभूतं किमन्यत्कामहैतुकम् ।। ८ ।।
एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः ।
प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ।। ९ ।।
काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः ।
मोहाद्गृहीत्वाऽसद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः ।। १० ।।
चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः ।
कामोपभोगपरमा एतावदिति निश्चिताः ।। ११ ।।
आशापाशशतैर्बद्धाः कामक्रोधपरायणाः ।
ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् ।। १२ ।।
इदमद्य मया लब्धमिदं प्राप्स्ये मनोरथम् ।
इदमस्तीदमपि मे भविष्यति पुनर्धनम् ।। १३ ।।
असौ मया हतः शत्रुर्हनिष्ये चापरानपि ।
ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ।। १४ ।।
आढ््योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया ।
यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ।। १५ ।।
अनेकचित्तविभ्रान्ता मोहजालसमावृताः ।
प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ।। १६ ।।
आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः ।
यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ।। १७ ।।
अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः ।
मामात्मपरदेहेषु प्रद्विषन्तोऽम्यसूयकाः ।। १८ ।।
तानहं द्विषतः क्रूरान्संसारेषु नराधमान् ।
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ।। १९ ।।
आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ।। २० ।।
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः ।
कामः क्रोधस्तथा लोभस्तस्मादेतत्र्रयं त्यजेत् ।। २१ ।।
एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः ।
आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ।। २२ ।।
यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः ।
न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ।। २३ ।।
तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ ।
ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ।। २४ ।।
इति श्रीभगवद्गीतायां षोडशोऽध्यायः
तात्पर्यम्
देवासुरलक्षणम्
‘येऽतिमानेन मन्यन्ते परमेशोऽहमित्यपि
मिथ्या जगदिदं सर्वं भ्रमजत्वान्न तिष्ठति ।
मिथ्यात्वान्नेश्वरोऽस्यास्ति परेभ्यो न च जायते ।
स्वस्मिन्नपि तथाऽन्यस्मिन् नियन्ताऽन्य इतीरिते ।
प्रद्विषन्त्यसुरास्ते तु सर्वे यान्त्यधरं तमः ।
अयोग्येशत्वकामत्वात् लोभाच्चऽत्मसमर्पणे ।
तत्त्ववादिषु कोपाच्च ततस्तेषां न दुर्लभम् ।
अक्षानुमागमानां च स्वोक्तेरपि विरोधिनः ।
यस्मात् तेऽतोऽसुरा ज्ञेया एवमन्येऽपि तादृशाः ।
ये तु विष्णुं परं ज्ञात्वा यजन्तेऽनन्यदेवताः ।
प्रत्यक्षाद्यविसंवादिज्ञानादेव विमुक्तिगाः’ इति ब्रह्मवैवर्ते ।
‘निबन्धाय’ नीचस्थानेऽन्धे तमसि बन्धाय ।
‘सर्गाणां सुबहुत्वेऽपि शुभाशुभपथाधिकौ ।
देवासुराख्यौ द्वावेव गन्धर्वाद्यास्तदन्तरा ।
मुक्तिगा एव विज्ञेया देवा एव विमुक्तिगाः’ इति च ।
‘विमोक्षाय’ इत्यत्र वीत्युपसर्गादेव च मोक्षनानात्वं ज्ञायते ।
‘देवासुरनरत्वाद्या जीवानां तु निसर्गतः ।
निसर्गो नान्यथैतेषां केनचित् क्वचिदेव वा ।
देवाः शापबलादेव प्रह्लादादित्वमागताः ।
अतः पुनश्च देवत्वं ते यान्ति निजमेव तु ।
हेतुतः सोऽन्यथाभावो रक्तता स्फटिके यथा ।
ततो नित्यश्च नाप्येष स्वभाव विनिवर्तकः ।
किञ्चाऽक्रम्यैव तं तिष्ठेद् देवसर्गस्ततो हि यः ।
अशोच्य एव विज्ञेयो मोक्षयोग्यो हरेः प्रियः’ इति च ।। १२४ ।।
इति श्रीमदानन्दतीर्थभगवत्पादविरचिते श्रीभगवद्गीतातात्पर्यनिर्णये षोडशोऽध्यायः
प्रकाशिका
अस्मिन्नध्याये देवासुरलक्षणं निरूप्यते ।। तत्र तावदसुरलक्षणं निरूपयति ।। येऽतिमानेनेत्यादिना ।। अनेन ईश्वरोऽहम् इत्यादिना असत्यमप्रतिष्टन्ते जगदाहुरनीश्वरम् । अपरस्परसम्भूतम्’’ ‘‘मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ।। त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः ।। कामः क्रोधस्तथा लोभ’’ इत्येतदन्तं वचनं विवृतं भवति ।। मायावादिवत् प्रत्यक्षागमादिविरुद्धवक्तारः स्वोक्तविरुद्धवाक्तारो येऽन्ये वादिनः तेप्यासुराः ज्ञातव्याः । इत्येतदुच्यते ।। एवमन्येऽपितादृशा इत्यनेन ।।
ये त्वित्यादिना देवलक्षणं इत्युच्यते ।। जगत्सत्यत्वाद्यङ्गीकारेण प्रत्यक्षाद्यविसंवादिज्ञाना देवा इत्युक्तम् ।। ‘‘दैवी सम्पद्विमोक्षाय निबन्धायासुरीमता ।। द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एवचे’’त्येतत् घटयति ।। निबन्धायेत्यादिना ।। यदेतत् देवत्वासुरत्वादि तस्वरूपं निरूपयति ।।
देवासुरेत्यादिना ।। १२४ ।।
इति श्रीमदानन्दतीर्थभगवत्पादविरचितस्य श्रीमद्गीतातात्पर्यनिर्णयस्य प्रकाशिकायां
पद्मनाभतीर्थविरचितायां षोडशोऽध्यायः ।।
न्यायदीपिका
एतदध्यायप्रतिपाद्यमर्थं दर्शयति ।। देवेति ।। अभयादिदेवतालक्षणानां मोक्षहेतुत्वात्तदापादनाय दंभाद्यसुरलक्षणानां तद्विरोधित्वात्तत्परित्यागाय तदुभयमस्मिन्नध्याये निरूप्यत इति भावः ।
तत्राभिमानश्च ईश्वरोऽहं, असत्यमप्रतिष्ठन्ते जगदाहुरनीश्वरम् । अपरस्परसम्भूतं मामात्मपरदेहेषु प्रद्विषन्तः, ततोयांत्यधमाङ्गतिं त्रिविधं नरकस्येदमित्यादिना चार्वाकाणामसुरत्वमुच्यत इत्यन्यथाप्रतीतिनिरासाय तत्स्मृत्यैव व्याचष्टे ।। य इति । परेभ्यो न च जायते । भ्रमजत्वादेव । कुत एते असुरा इत्यत आह ।। अक्षेति ।। सती पृथिवीत्यादिप्रत्यक्षस्य, विश्वं सत्यमित्याद्यागमस्य, प्रमाणदृष्टत्वाद्यनुमानस्य सर्वस्य मिथ्यात्वे सर्वमिथ्यात्वस्यापि मिथ्यात्वप्राप्त्या सर्वस्य त्वमिति स्वोक्तिविरोधः । न केवलं परमेश्वरोऽहमित्यादि मन्वाना असुराः किंतु येऽन्ये प्रत्यक्षादिविरुद्धवादिनस्ते सर्वेऽप्यसुरा इत्याह ।। एवमिति ।। देवलक्षणमाह ।। ये त्विति ।। अनेन ज्ञानयोगव्यवस्थितिर्दानमित्यादि व्याख्यातं भवति ।। कुत एवंविधानां देवत्वमित्यत आह ।। प्रत्यक्षेति ।। विमुक्तिगा इत्यनेनैव दैवीत्युक्तार्थं भवति ।।
ननु ततो यांत्यधमां गतिमित्यासुरसंपदोंऽधतमसहेतुत्वस्य वक्ष्यमाणत्वात्कथं निबन्धायासुरी मतेति बन्धहेतुत्वमुच्यत इत्यत आह ।। निबन्धाय नीचेति ।। नात्र संसारहेतुत्वमुच्यते, किं त्वतिनीचान्धतमससाधनत्वमेवेति भावः । ननु भूतसर्गाणामतिबहुप्रकारत्वात् द्वौ भूतसर्गावित्यादि कथमुच्यत इत्यत आह ।। सर्गाणामिति ।। सर्गाणां सुबहुत्वेऽपि द्वाविति वक्तुं शक्यते । शुभाशुभफलाधिक्यविवक्षयेति भावः । गन्धर्वमनुष्याधमादीनामपि शुभाशुभफलाधिकत्वात्को विशेषो देवादीनामित्यत आह ।। गन्धर्वेति ।। तदुभयफलान्तर्वर्तमाना एवेत्यर्थः । तद्विवृणोति ।। मुक्तिगा इति ।। एवं तमोगा एवेति च द्रष्टव्यम् । तर्हि देवादीनामपि मुक्तयादिगत्वादेभ्यः को विशेष इत्यत आह ।। देवा इति ।। एवमसुरा एवातिदारुणतमोगा इति द्रष्टव्यम् ।
यदुक्तं द्वावित्युक्तिघटनाय मोक्षस्यानेकविधत्वाद्देवानामेवाधिकमोक्षो नान्येषामिति तद्गीतायामपि ज्ञायत इत्याह ।। विमोक्षायेति ।। ननु देवत्वादेः कारणविशेषेण हानोपादानदर्शनाद्द्वौ भूतसर्गाविति निसर्गत्वोक्तिः कथमित्यत आह ।। देवेति ।। निसर्गत्वादेव नान्यथा भवतीत्यर्थः । ननु प्रह्लादाद्यसुराणां देवत्वदर्शनात्कथमन्यथाभावाभाव इत्यत आह ।। देवा इति ।। प्रह्लादादीनां स्वतो देवानामेव कारणविशेषेणैवासुरत्वम् । अतस्तद्विहाय देवत्वं युक्तमिति भावः । ननु तत्राप्यसुरत्वं नष्टमित्यस्त्येवेत्यत आह ।। हेतुत इति ।। औपाधिकत्वादसुरत्वस्य नाशो युक्त एव । न तेन स्वाभाविकासुरत्वानाशमतस्य विरोध इति भावः । मास्त्वसुराणां देवत्वं देवानां तु देवत्वपरित्यागेनासुरत्वं प्राप्तमित्यत आह ।। नापीति ।। नासुरभावः प्रह्लादादीनां देवत्वस्वभावनिवर्तकः । औपाधिकत्वात् । स्फटिकशोक्ल्यानिवर्तकलौहित्यवदिति भावः । तर्हि शापादिवैयर्थ्यमित्याशङ्क्य परिहरति ।। किंत्विति ।। ततो देवानामसुरत्वाभावात् । देवत्वस्यानपगमेऽपि कुतोऽशोच्यत्वमित्यत आह ।। मोक्षेति ।। तदुपपादयति ।। हरेरिति ।। अनेनैव मा शुच इत्यस्य तात्पर्यं चोक्तं भवति ।। १२४ ।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्गीतातात्पर्यनिर्णयस्य टीकायां जयतीर्थमुनिविरचितायां न्यायदीपिकायां षोडशोऽध्यायः ।। १६ ।।
किरणावली
ननु पुमर्थसाधनविरोधीन्यनेनाध्यायेन दर्शयतीति भाष्येऽध्यायार्थस्यान्यथोक्तत्वाद्विरोध इत्यतो व्याचष्टे ।। अभयादीति ।। तदुभयमिति ।। यद्यपि पूर्वाध्याये निर्मानमोहा इत्यादिना पुमर्थयोर्ज्ञानमोक्षयोस्साधनं यतंतोऽप्यकृतात्मान इत्यादिना तद्विरोधि चोक्तम् । तथापि तदुभयं प्रपञ्चेन निरूप्यत इत्यर्थः ।। तत्रेति ।। तत्र देवासुरलक्षणोक्तिपरेऽस्मिन्नध्याये चार्वाकाणामसुरत्वमुच्यत इत्यन्यथाप्रतीतिनिरासायेत्यन्वयः । कैर्वाक्यैश्चार्वाकाणामसुरत्वमुच्यत इत्यतस्तानि वाक्यानि पठति ।। अभिमानश्चेत्यादिना ।। अभिमानश्चेत्यनेन दंभो दर्पोऽभिमानश्चेति वाक्ये अभिमान इत्यनेन देहे आत्मत्वाभिमानश्चासुरीं संपदं प्रतिजातस्य भवतीत्युक्तत्वेन देहात्मभ्रमलक्षणचार्वाकलिङ्गश्रवणादीश्वरोऽहमहं भोगीत्यत्र मदतिरिक्त अतीन्द्रिय ईश्वरो नास्त्यहमेवेश्वर इत्यादिचार्वाकलिङ्गश्रवणादसत्यमप्रतिष्ठन्त इत्यत्रातीन्द्रियं जगदसत्यमैन्द्रियकमप्यप्रतिष्ठं प्रतिष्ठापकरहितं अपरस्परसम्भूतमतीन्द्रियाभावादीश्वराधिष्ठितप्रकृतेर्महान्महतोऽहङ्कार इति परस्परसम्भवरहितम् । परस्परसम्भूतं न चेत्किं कथमुत्पद्यत इत्यस्योत्तरं गीतायामन्यदिति । तस्य विवरणं कामहैतुकमिति । स्त्रीपुरुषकाममात्रोत्पन्नमित्येतां दृष्टिमवष्टभ्येति तल्लिङ्गश्रवणात् मामात्मपरदेहेषु प्रद्विषन्त इत्यारभ्य ततो यांत्यधमां गतिमित्यन्तेन स्वपरदेहयोर्नियामक अतीन्द्रिय ईश्वरो नास्तीति प्रद्विषंतस्तत अतीन्द्रियेश्वरापलापादधमां गतिं यान्तीति तल्लिङ्गश्रवणात् त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः । कामः क्रोधस्तथा लोभः इत्यतीन्द्रियपरलोकानादरणेन विषयकामनाद्युक्तया तल्लिङ्गश्रवणादादिपदेन कामोपभोगपरमा एतावदिति निश्चिता इत्यादिना च तल्लिङ्गश्रवणादिति भावः ।।
तत्स्मृत्यैवेति ।। तदुदाहृतवाक्यजातं यथा चार्वाकमात्रपरं न भवति तथा स्मृत्यैव व्याचष्ट इत्यर्थः। नेदं वाक्यजातमुक्तरीत्या व्याख्यानेन चार्वाकमात्रपरं किं नामासुरस्वभावसर्ववादिविषयमिति भावः । येति मानेन मन्यन्त इत्यादेर्मूलस्यायमर्थः । ये वादिनोऽतिमानेन तत्तद्वस्तुस्वरूपमतिक्रान्तं मिथ्याज्ञानमतिमानं तेन तत्तद्वस्तु मन्यन्ते विषयीकुर्वन्तीत्यनेन भ्रान्ताः सर्वे दुर्वादिनः अभिमानश्चेत्येतद्वाक्यविषया इत्युक्तं भवति । परमेशोऽहमित्यपि मन्यन्त इत्यनेन जीवब्रह्मणोरत्यन्ताभेदं वा मन्यमाना ईश्वरोऽहमिति वाक्यविषया इत्युक्तं भवति । इदं सर्वं जगन्मिथ्या नत्वतीन्द्रियमात्रं कुतः भ्रमजत्वादारोपितत्वात् । आरोपितं हि भ्रमजमिति परेषां पक्षः । दीर्घभ्रमकल्पितत्वादिति यावत् । तेन वियदादेर्व्यावहारिकत्वाङ्गीकारात्कथं शुक्तिरजतादिवद्भ्रमकल्पितत्वमिति निरस्तम् । भ्रमजत्वादेवाबाध्यतया न तिष्ठति । मिथ्यात्वादेवेशितव्याभावान्नेश्वरोऽस्यास्ति नत्वतीन्द्रियाभावात् । परेभ्यो न च जायत इत्यत्र मिथ्यात्वादित्यस्य हेतुतयाऽन्वये परेभ्य इति व्यर्थम् । मिथ्यात्वदेव न जायत इत्येतावता पूर्णत्वादित्यत आह ।। परेभ्यो न च जायते भ्रमजत्वादेवेति ।। एतेन विवर्तवादिनो सत्यमप्रतिष्ठन्त इत्यादिवाक्यविषया इत्युक्तं भवति । स्वस्मिन्यथा तथाऽन्यस्मिन्नपि नियन्ताऽन्यो भगवानस्तीति ज्ञानिभिरीरिते ये वादिनः प्रद्विषन्ति न कस्यचिद्विष्णुः कारयिता यदि स स्यान्मामपीदानीं कारयत्वित्यादि रूपेणावमतया जानन्ति । ते सर्वेऽसुरा अधरं तमो यान्तीत्यनेन ये भगवतः सर्वान्तर्नियामकत्वगुणं नाङ्गीकुर्वन्ति ते सर्वेऽपि वादिनः मामात्मपरदेहेष्वित्यादिवाक्यप्रतिपाद्या आसुरा इत्युक्तं भवति । अयोग्येशत्वकामादित्यनेन त्रिविधं नरकस्येदमिति वाक्यं न विषयकामनादिमत्त्वमात्रेण चार्वाकमात्रविषयम् । किंत्वद्वैतवादिप्रभृतिसर्वासुरविषयमित्युक्तं भवति ।। सर्वस्य मिथ्यात्व इति ।। त्वदुक्तरीत्या सर्वस्य मिथ्यात्वे त्वदुक्तस्य सर्वमिथ्यात्वस्यापि मिथ्याभूतसर्वान्तर्गतत्वेन मिथ्यात्वं स्यात् । गन्धर्वनगरान्तर्गतभवनवत् । ततश्च सर्वस्य सत्यत्वप्राप्तेः सर्वं मिथ्येति स्वोक्तिरपि स्वयमेवोपद्रुतेति स्वोक्तिविरोध इत्यर्थः । तेनात्र माता वन्ध्येतिवत्स्ववचनयोर्विरोधाभावात्कथमेतदिति निरस्तम् । सर्वं मिथ्येत्युक्ते उक्तरीत्या न्यायतः सत्यत्वस्य प्राप्तौ स्ववचनस्य स्ववचनेनप्राप्तन्यायविरोधस्य स्ववचनविरोधतुल्यत्वेन स्ववचनेनेवस्ववचन विरोध इत्यभ्युपगमात् । एवमन्येऽपि तादृशा इत्यस्य येऽन्ये तादृशाः भ्रमातिशयेन प्रत्यक्षादिविरुद्धवादिनस्ते सर्वेऽप्यसुरा इत्यर्थमभिप्रेत्याह ।। किंत्विति ।। एतेन मोहजालसमावृता इत्यादेस्तात्पर्यमुक्तं भवति । तत्रासुराणां प्रत्यक्षादिबाधितबह्वर्थविषयमोहजालसमावृतत्वोक्तेरिति भावः ।।
ज्ञानयोगव्यवस्थितिर्दानमित्यादीति ।। विष्णुं परं ज्ञात्वेत्यनेन ज्ञानयोगे ब्रह्मज्ञानाख्ये मोक्षोपाये व्यवस्थितिर्निष्ठेत्येतद्व्याख्यातं भवतीत्यर्थः । ज्ञानयोगे ज्ञानस्योपाये श्रवणादौ व्यवस्थितिरित्येतत्तात्पर्यतो व्याख्यातं भवति । यजदेवपूजासङ्गतिकरणदानेष्वितिहि पठन्ति । टीकाया दानमित्यादीत्यादिपदेन यज्ञश्चेति गृह्यते । ततश्च विष्णुं परं ज्ञात्वा यजन्त इत्यनेनैव यज्ञश्चेति विवृतं भवति । देवतोद्देशेन द्रव्यत्यागस्यैव यज्ञत्वादिति भावः । अन्यदेवता यजन्त इत्यनेनापि यज्ञश्चेति विवृतं भवति । यत्रान्यदेवताः परिवारतामृतेयजन्ते स यज्ञ इति ।। कुत एवंविधानां देवत्वमिति ।। मोक्षयोग्यत्वमित्यर्थः । प्रत्यक्षाद्यविसंवादीति मूलस्य प्रत्यक्षाद्यबाधितज्ञानादेव विमुक्तिं गच्छन्तीति विमुक्तिगा इत्यर्थः । फलेन योग्यतानिर्णय इति भावः ।। विमुक्तिगा इत्यनेनैवेति ।। विमुक्तिगा इत्यनेन दैवीसंपन्मोक्षयोग्यताविमोक्षाय पर्याप्तेत्येतत् विवृतं भवतीत्यर्थः ।।
ततो यान्त्यधमां गतिमित्याद्यासुरसंपद इति ।। अत्रेत्यादीत्यविभक्तिको निर्देशः । इत्यादिनेत्यर्थः । टीकायां बन्धहेतुत्वमुच्यत इत्यत आहेत्यतः परं निबन्धायेति नीचेतीति क्वचित्पाठः । क्वचित्तु इत्यत आह नीचेति इत्येव पाठः । अत्र निबन्धायेत्यनुवादांशस्य सिद्धत्वात् व्याख्यानांशस्यैव प्रतीकग्रहणं बोध्यम् । ननु भूतसर्गाणामतिबहुत्वात् गीतायां द्वौ भूतसर्गाविति विरुद्धोक्तिः कथमिति शङ्कापरिहाराय प्रवृत्तेप्रमाणे सर्गाणां सुबहुत्वेऽपि द्वाविति वक्तुं शक्यत इति बहुत्वाविरोधेन द्वित्वं वक्तुं शक्यत इत्यर्थः । तत्कथमित्यतः शुभाशुभफलाधिकावित्यस्य तात्पर्यमाह ।। शुभाशुभेति ।। गन्धर्वमनुष्याधमादीनामपीति ।। गन्धर्वादीनां मनुष्याधमादीनां चेत्यर्थः । ननु यद्यत्र व्युत्क्रमानुसरणं तदा मनुष्याधमादीनामितिवन्मनुष्योत्तमादीनामिति वक्तव्यम् । दैत्यरक्षःपिशाचकाः । मर्त्याधमाश्चतुर्धैव तमोयोग्याः प्रकीर्तिता इति वचनात् । मर्त्याधमानां तमोयोग्यावरत्ववदधमा मानुषोत्कृष्टा इति वचनान्मनुष्योत्तमानां मोक्षयोग्यावरत्वादेकगुणोपासकानामपि मानुषोत्तमपदेन विवक्षितत्वात् । यदि च क्रमानुसरणं तदा ऋष्यादीनामिति वक्तव्यम् । देवर्षिपितृपनरा इति मुक्तास्तु पञ्चधेत्युक्तत्वात् । गन्धर्वपदेन ऋष्याद्या मध्यमाः स्मृता इति वचनात्तेषामपि ग्रहणमादिपदेन पित्रादिग्रहणमित्यङ्गीकारे तदनुसारेण क्रममनुसृत्य रक्षःप्रभृतीनामिति वक्तव्यमन्तिममर्त्याधमग्रहणमयुक्तमिति चेत् । न । व्युत्क्रमेणैव गन्धर्वादीनामित्युक्तत्वात् । गन्धर्वपदस्य मनुष्यगन्धर्वपदस्य मनुष्योत्तमक्षितिपोपलक्षणत्वस्वीकाराद्दध्युपघातकत्वलक्षणलक्ष्यतावच्छेदकेन काकपदस्य दध्युपघातकमात्रोपलक्षकत्ववन्मनुष्यत्वलक्षणलक्ष्यतावच्छेदकावच्छिन्नानां सर्वेषामुपलक्षणसम्भवादिति ।। शुभाशुभफलाधिकत्वादिति ।। गन्धर्वादीनां शुभफलाधिकसन्मुक्तिभाक्त्वान्मनुष्याधमादीनामशुभफलाधिकतमोभाक्त्वात्को विशेषो देवादीनां तेषामपि मुक्तितमोभाक्त्वादित्यर्थः ।। तदुभयफलान्तर्वर्तमाना इति ।। गन्धर्वादीनां मनुष्याधमादीनां देवासुराणां च स्वर्गाद्यपेक्षया नरकाद्यपेक्षया चाधिकमुक्तितमोलक्षणफलभाक्त्वाविशेषेऽपि गन्धर्वाद्या मनुष्याधमाद्याश्च तदन्तरा देवासुरोभयफलावान्तरफलयोग्या एवेत्यर्थः ।
ननु मुक्तिगा इति विववरणवाक्ये गन्धर्वाद्या मनुष्याधमप्रभृतयश्च मुक्तिगा एव मुक्तिगा न भवन्तीति नेत्युक्तं तदयुक्तम् । नराधमानां प्रकृतसन्मुक्तिगत्वाभावादित्यत आह ।। एवमिति ।। तथाच गन्धर्वाद्या मुक्तिगा एव नराधमाद्यास्तमोयोग्या एवेत्यर्थ इति भावः ।। देवादीनामिति ।। देवानामसुराणां चेत्यर्थः । मुक्तयादिगत्वान्मुक्तितमोगत्वात् ।। एभ्य इति ।। गन्धर्वादिभ्यो नराधमादिभ्यश्चेत्यर्थः । नराधमेभ्यः को विशेषोऽसुराणामित्यस्य मूले उत्तरानुक्तेरध्याहरत्येवमसुरा इति ।। गीतायामपीति ।। न केवलं ब्रह्मवैवर्ते गीतायामपीत्यर्थः । एतेनोपसर्गादेव चेति चकारस्योपसर्गाच्चेति समुच्चयार्थकत्वमुक्तं भवति । भगवद्गीताज्ञापकस्यान्तरङ्गत्वेन प्राबल्यसूचनायैवकारः । शब्दादेव प्रमित इत्यादौ तथा व्याख्यातत्वादिति ज्ञेयम् ।। देवत्वादेः कारणविशेषेण हानोपादानेति ।। सनकादिशापेन जयविजययोर्देवत्वहानस्य देवताधिकरणन्यायेन मनुष्याणामेव देवत्वोपादानस्यासुरस्यैव बलेः बल्याद्या अन्तरा प्राप्तदेवताः कर्मदेवताः इत्युक्तत्वेन च देवत्वोपादानस्य दर्शनादित्यर्थः । देवासुरनरत्वाद्या इति मूले तुशब्दोऽवधारणे प्रमाणसमुच्चायकचशब्दार्थेच । तथाच देवासुरनरत्वाद्या जीवानां निसर्गः स्वभाव इत्येव । नासुराणां दैवं रूपं न देवानामासुरं न चोभयं मनुष्याणां यो यद्रूपः स तद्रूपः निसर्गो ह्येष भवतीति श्रुतेः । तथा च निसर्गतो निसर्गत्वाद्देवत्वादिः केनचित्कारणेन क्वचिदपि नान्यथा भवतीत्यर्थमभिप्रेत्याह ।। निसर्गत्वादेवेति ।। निसर्गोऽप्यन्यथाभूत इति सोदाहरणमाशङ्कते ।। ननु प्रह्लादाद्यसुराणामिति ।। अन्यथाभावाभाव इति ।। निसर्गस्येति शेषः । अतः पुनश्च देवत्वं ते यान्ति निजमेवत्वित्ययुक्तम् । देवत्वस्य निजस्वभावत्वे पुनः यान्तीत्ययुक्तेः प्रह्लादादित्वमागता इत्यप्ययुक्तम् । प्रह्लादादिनामकत्वस्य शापकारणकत्वानुपपत्तेरित्यतो भावमाह ।। प्रह्लादादीनामिति ।। न प्रह्लादादेरसुरत्वं निसर्गः किंतु देवत्वमेव । प्रह्लादादिनामकासुरत्वं च शापाख्यकारणविशेषेणैव । अतोऽसुरत्वस्यानिसर्गत्वादागन्तुकासुरभावप्रहाणेन निजरूपे व्यवस्थानं युक्तमिति न निसर्गस्यान्यथाभावे इदमुदाहरणमिति भावः । निजमेवत्विति मूले तुशब्दोऽवधारणे । यान्त्येवेत्यन्वयः । यद्वा देवत्ववदसुरत्वमपि निजमात्मीयमेवात्मसम्बन्धित्वादित्यतस्तुशब्दप्रयोगः । विशेषाकारेणानागन्तुकतयाऽऽत्मीयमेवेत्यर्थः ।। ननु तत्रापीति ।। प्रह्लादादावप्यसुरत्वं नष्टमिति प्रमेयमस्त्येवाङ्गीकृतमेवेति कथमसुरत्वस्यान्यथाभावाभाव इत्यत आहेत्यध्याहारेण योज्यम् । हेतुत इति मूलस्य प्रह्लादादेर्देवत्वस्वभावस्य योऽन्यथाभाव आसुरभावः स हेतुतः शापलक्षणोपाधिकृत एव । तत्र दृष्टान्तो रक्ततेति । स्वच्छेऽपिस्फटिके जपाकुसुमसन्निधानलक्षणहेतुतो रक्तता यथोत्पन्ना तथैव । स्फटिकलौहित्यस्यापि प्रतिबिम्बत्वादिति भावः । ननु प्रह्लादो नित्यभक्तिमानिति वचनात्कथं तस्यासुरभाव इति चेन्न । आसुरशरीरासुरान्नोपभोगतन्निमित्तकनिद्रालुत्वादेर्बाह्यधर्मस्यात्र विवक्षितत्वात् ।। देवानां त्विति ।। स्वभावतो देवानामेव प्रह्लादादीनामित्यर्थः ।। तर्हि शापादीति ।। दार्ष्टान्तिके शापवैयर्थ्यं दृष्टान्ते जपाकुसुमसन्निध्यादिहेतुवैयर्थ्यमिति भावः । मूले किंञ्चाक्रम्येत्यस्याच्छाद्येत्यर्थः । हि यस्मादाक्रम्यैव तं तिष्ठेत्तत इत्यन्वयमभिप्रेत्य तत इत्यस्यार्थमाह ।। ततो देवानामिति ।। अनेनैवेति ।। प्रह्लादादौ आसुरभावस्यौपाधिकत्वेन स्वाभाविकदेवत्वाच्छादकत्वमात्रत्वेन देवसर्गस्याशोच्यत्ववचनेन माशुचः संपदं दैवीमभिजातोऽसि पाण्डवेत्यर्जुनस्याशोच्यत्वाभिधायकगीतावाक्यस्य तात्पर्यं चोक्तं भवतीत्यर्थः
।। १२४ ।।
इति श्रीमद्विठ्ठलाचार्यपुत्रेण श्रीमत्तीर्थाचार्यचरणसेविना श्रीनिवासेनरचितायां
न्यायदीपकिरणावल्यां षोडशोऽध्यायः ।। १६ ।।
भावदीपः
तदुभयमस्मिन्नध्याये निरूप्यत इति ।। एतेन पूर्वाध्याये ‘‘निर्मानमोहा’’ इत्यादिना पुमर्थयोर्ज्ञानमोक्षयोः साधनस्य, ‘‘यतन्तोऽप्यकृतात्मान’’ इत्यादिना पुमर्थविरोधिनश्च संक्षेपेणोक्तस्य देवासुरलक्षणरूपस्यात्र विस्तरणात् पूर्वानन्तर्यमस्य सूचितं भवति ।। तत्रेति ।। देवासुरलक्षणोक्तिपरेऽध्याये इत्यर्थः ।। तत्स्मृत्यैवेति ।। उदाहृतवाक्यजातमित्यर्थः । अक्षादिविरोधं च व्यनक्ति ।। सतीत्यादिना ।। सती सद्रूपेत्यर्थः ।। सर्वमिथ्यात्वस्यापि मिथ्यात्वादिति ।। सर्वं मिथ्येत्युक्ते सर्वशब्देन वियदादिजगत इव तन्मिथ्यात्वस्यापि सर्वशब्दार्थमध्ये पतितत्वादिति भावः ।। दैवीतीति ।। दैवी संपद्विमोक्षायेत्येतदित्यर्थः ।। अन्धतमोहेतुत्वमिति ।। समासान्तविधेरनित्यत्वादेव समन्धेभ्य इति समासान्तो नाश्रितः । तेन अन्धतमस इति भाव्यमिति नाशङ्क्यम् ।। तदुभयफलान्तर्वर्तमाना इति ।। तेषां तादृशशुभाशुभफले न स्त इत्यर्थः । यद्वा तदुभयफलत्वाद्देवासुरग्रहणेनैव तेऽपि गृहीता इत्यर्थः ।। देवादीनामपीति ।। देवासुराणामपि मुक्तितमोगत्वाद्देवेभ्योऽसुरेभ्यः को विशेषो देवानामित्यर्थः । यद्वा देवादीनां देवगन्धर्वप्रभृतीनां मुक्तिगत्वाद्देवेभ्यो गन्धर्वादिभ्यो देवानां को विशेष इत्यर्थः । तथा मनुष्याधमानामपि तमोगत्वाद्देवेभ्योऽसुराणां को विशेष इति चार्थः ।। यदुक्तमिति ।। विमुक्तिगा इति शब्देनेति भावः ।। निसर्गत्वोक्तिरिति ।। स्वभावत्वोक्तिरित्यर्थः ।। अन्यथाभावाभाव इति ।। अन्यथात्वाभाव इत्यर्थः । तत इत्यनुवादः देवानामित्यादि व्याख्या ।। तात्पर्यं चेति ।। न केवलं कुतोऽशोच्यत्वमिति शङ्कानिरास इति चार्थः ।। १२४ ।।
इति राघवेन्द्रयतिकृते श्रीमद्गीतातात्पर्यटीकाभावदीपे षोडशोऽध्यायः ।। १६ ।।
भावप्रकाशः
पुमर्थसाधनविरोधीन्यनेनाध्यायेन दर्शयतीति भाष्यं मनसि निधाय व्याचष्टे । अभयादिदेवता लक्षणानामिति । तदुभयमस्मिन्नध्याय इति । यद्यन्यपूर्वयोरध्याययोः साधनप्रतिपादन एव तात्पर्यं तथापि तन्न प्रपञ्चितं किं नाम बन्धस्वरूपमतस्तदस्मिन्नध्याये प्रपञ्च्यत इत्यर्थः ।। भ्रमजत्वादेवेति । नत्वनादित्वादित्यर्थः ।। सर्वमिथ्यात्वस्यापीति ।। तस्यापि सर्वान्तःपातित्वादिति भावः ।। ततो यात्यधमां गतिमित्यादीत्यविभक्तिको निर्देशः । इत्यादिनेत्यर्थः । उभयफलान्तर्वर्त्तमाना इति । उभयफलावान्तरफलयोग्या इत्यर्थः । शुभाशुभफलाधिकत्वमसिद्धमिति भावः ।। मनुष्याधमादीनामवान्तरफलं दर्शयति । एवं तमोगा इति । कारणविशेषेणेति ।। जयादीनां सनकादिशापादिना देवत्वहानेनासुरत्वोपपादनदर्शनादित्यर्थः ।।
इति श्रीमत्सत्यव्रतपूज्यपादशिष्यसत्यप्रज्ञभिक्षुविरचिते
तात्पर्यनिर्णयन्यायदीपिकाभावप्रकाशे षोडशोऽध्यायः ।।
वाक्यविवेकः
देवासुरलक्षणमित्यनेन अध्यायप्रतिपाद्यमुच्यत इत्यत्र ज्ञापकाभावात् किं कैश्चित् श्लोकैः प्रतिपाद्यमुच्यते किं वाध्यायप्रतिपाद्यमुच्यत इति सन्देहः स्यात्तन्निरासाय मूलमवतारयाति ।। एतदध्यायेति ।। तदा पादनायेति । नन्वभयादीनां मुक्तियोग्यलक्षणत्वात् तदापादनायेत्यनुपपन्नम् लक्ष्ये लक्षणप्राप्तेः स्वाभाविकत्वेन प्रयत्नासाध्यत्वात् इति चेन्न । अभयादिलक्षणानामभिवृध्यर्थं प्रयत्नः कर्तव्य इत्यङ्गीकारात् । देहलक्षणस्य केशादेरभिवृध्यर्थं प्रयत्नस्य दृष्टत्वात् ।। तत्परित्यागायेति । पदंभादीनां मुक्तययोग्यलक्षणत्वेन मुक्तियोग्येषु तत्प्रसक्तेरभावात्तत्परित्यागायेत्यनुपपन्नमिति चेन्न । स्वाभाविकानां दम्भादीनां मुक्तययोग्यलक्षणत्वेन मुक्तियोग्येषु तत्प्रसक्तेरभावेऽप्यौपाधिकानां दम्भादीनां मुक्तियोग्येषु प्रसक्तेः सम्भवात् । देवासुराख्यौ द्वावेवेत्यनन्तरं वक्तव्यमाह । इति वक्तुं शक्यत इति ।। एतेन श्रुभाशुभफलाधिकौ देवासुराख्यौ द्वावेवेत्येतावतैव पूर्णे सर्गाणां सुबहुत्वेऽपीति व्यर्थम् ।। सर्गबाहुल्यस्य शुशफलधिकसर्गद्वित्वाविरोधित्वात् । यत्र सत्यपि विरोधिनि तमविगणय्य कार्यं जायते तत्रैव वक्तव्यत्वात् ।। तद्यथा बालोपि ध्रुवः तपसे वनंविवेशेतीति निरस्तम् ।। १२४ ।।
इति श्रीमत्सत्यनिधितीर्थश्रीचरणचरणाराधकश्रीसत्यनाथयतिविरचिते
न्यायदीपिकाव्याख्याने वाक्यविवेके षोडशोऽध्यायः ।।