गीता
वाय्वादयो भगवन्नामानि
गीता
वायुर्यमोऽग्निर्वरुणः शशाङ्कः
प्रजापतिस्त्वं प्रपितामहश्च ।
नमो नमस्तेऽस्तु सहस्रकृत्वः
पुनश्च भूयोऽपि नमो नमस्ते ।। ३९ ।।
नमः पुरस्तादथ पृष्ठतस्ते
नमोऽस्तु ते सर्वत एव सर्व ।
अनन्तवीर्यामित विक्रमस्त्वं
सर्वं समाप्नोषि ततोऽसि सर्वः ।। ४० ।।
सखेति मत्वा प्रसभं यदुक्तं
हे कृष्ण हे यादव हे सखेति ।
अजानता महिमानं तवेदं
मया प्रमादात् प्रणयेन वापि ।। ४१ ।।
तात्पर्यम्
वायुर्बलज्ञानयोगाच्छशाङ्कोऽतिसुखाङ्कितः ।
इन्द्रः स परमैश्वर्यादिति नानाभिधो हरिः । इति च ।। ३९ ।।
प्रकाशिका
‘‘वायु र्यमोग्नि’’रित्यत्र वाय्वादिशब्दा योगवृत्त्या विष्णौ वर्तन्ते इत्येतद्दर्शयितुमर्थान्तरमुदाहरति ।। वायुरिति ।। ३९४१ ।।
न्यायदीपिका
वायुर्यमोग्निरित्याद्यर्जुनस्तुतिवाक्ये वाय्वादीनां भगवदभेद उच्यत इत्यन्यथाप्रतीतिनिरासाय वाय्वादिशब्दानां भगवति योगवृत्तिं स्मृत्यैव दर्शयति ।। वायुरिति ।। वबयोरभेदाद्वकारो बलवाची । अयपयगताविति धातोः आयुशब्दो ज्ञानवाची । इदि परमैश्वर्य इति धातुः
।। ३९४१ ।।
किरणावली
योगवृत्तिं स्मृत्यैव दर्शयतीति ।। यद्यपि स्मृतौ गीतापठिताः केचिच्छब्दास्त्यक्ताः इन्द्रशब्दश्चाधिकः संयोजितः । तथापि स्मृत्युदाहरणस्य विष्णावन्यदेवताशब्दा योगवृत्त्यैव प्रवर्तन्ते नत्वैक्येनेत्येतावन्मात्रप्रदर्शनतात्पर्यकत्वेन स्मृतौ वक्तव्यानुक्तिरधिकोक्तिश्च न दोषाय
।। ३९४१ ।।
भावदीपः
इति धातोरिति ।। उण्प्रत्यये आयुरिति रूपमिति भावः ।। इदि धातुरिति ।। तस्मादप्रत्यये इदित्वान्नुमागमे इन्द्रेति रूपमिति भावः ।। ३९४१ ।।
वाक्यविवेक— अयपयगताविति धातोरिति ।। उण् प्रत्यये निष्पन्न इति शेषः ।। ३९४१ ।।