गीता

सात्विकराजसानां तपोदानं

गीता

श्रद्धया परया तप्तं तपस्तत्र्त्रिविधं नरैः ।

अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ।। १७ ।।

सत्कारमानपूजार्थं तपो दम्भेन चैव यत् ।

क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ।। १८ ।।

मूढग्राहेणात्मनो यत्पीडया क्रियते तपः ।

परस्योत्सादानर्थं वा तत्तामसमुदाहृतम् ।। १९ ।।

दातव्यमिति यद्दानं दीयतेऽनुपकारिणे ।

देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ।। २० ।।

यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः ।

दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ।। २१ ।।

ओशकाले यद्दानमपात्रेभ्थश्च दीयते ।

असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ।। २२ ।।

तात्पर्यम्

युक्तैः भगवदर्पणादियोगयुक्तैः । युक्तैरिति दानादिषु सर्वत्र समम्

।। १७२२ ।।

प्रकाशिका

श्रद्धया परया तप्तं तपस्तत् त्रिविधं नरैः ।। अफलाकाङ्क्षिभिर्युक्तैरित्यत्र युक्तैरित्येतत्पदार्थमाह ।। भगवदर्पणादियोगयुक्तैरिति ।। अफलाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते ।। युक्तैरित्यनुषञ्जनीयं तदाह ।। मौनमित्यादिना ।। १७२२ ।।

न्यायदीपिका

अफलाकाङ्क्षिभिर्युक्तैरित्यत्र युक्तत्वं नाम किमित्यत आह ।। युक्तैरिति ।। ननु सात्विकयज्ञदानयोर्भगवदर्पणमनुक्त्वा तपस्येव किमुच्यत इत्यत आह ।। युक्तैरिति ।। न केवलं तपस्येवैतदुच्यते किंतु यज्ञदानतपःस्वपि एतदनुषंजनीयमिति भावः ।। १७ ।।