गीता
गीता
वेदाविनाशिनं नित्यं य एनमजमव्ययम् ।
कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ।। २१ ।।
तात्पर्यम्
अविनाशिनं शरीरापायादिवर्जितम् । नित्यं स्वरूपतः। एनं परमेश्वरम् ।
‘कर्तृत्वं तु स्वतन्त्रत्वं तदेकस्य हरेर्भवेत् ।
तच्चाव्ययं तस्य जानन्कथं कर्ता स्वयं भवेत्’ ।। इति परमश्रुतिः ।
अन्यथा अविनाशिनं नित्यमिति पुनरुक्तिः ।। २१ ।।
प्रकाशिका
जीवविषयत्वे दूषणमाह ।। अन्यथा अविनाशिनामिति ।। २१ ।।
न्यायदीपिका
यदुक्तं जीवे स्वातन्त्र्यं मन्यमानो न जानातीति तत्र नायं हन्तीति हेतुरुक्तः। अथ ज्ञानिनां तादृशाभिमानाभावश्च तत्र हेतुरुच्यते ।। वेदेति ।। तत्राविनाशिनित्यपदयोः पौनरुक्त्यपरिहारायार्थभेदमाह ।। अविनाशिनमिति ।। जीवस्य समीपोक्तत्वादेनमित्यस्य जीवविषयत्वप्रतीतिनिरासायाह ।। एनमिति ।। समस्तश्लोकं श्रुत्यैव व्याचष्टे ।। कर्तृत्वमिति ।। जानन् अविनाशित्वादिहेतुनेति शेषः । कर्ता कर्तृत्वाभिमानी जीवस्य समीपोक्तत्वात्तद्विषयोयं श्लोकः किं नस्यादित्यत आह ।। अन्यथेति ।। ईश्वरस्य शरीरापायरहितत्वात्तत्परत्वे शक्यते पुनरुक्तिपरिहारः । नतु जीवपरत्वे । तस्य देहनाशसद्भावात् । अतः पुनरुक्तिविरोधात्समीपोक्तमपि जीवं विहायेश्वरग्रहणं युक्तमिति भावः ।। २१ ।।
किरणावली
ज्ञानिनां तादृशाभिमानाभावश्चेति ।। स्वातन्त्र्याभिमानाभावलक्षणश्चेत्यर्थः ।। समीपोक्तत्वादिति ।। स्वोदाहृतप्रमाणे उभयोः प्रस्तुतत्वेपि अव्यवहितपूर्वार्धे जीवस्य प्रस्तुतत्वात्समीपोक्तस्यैव ग्राह्यत्वादिति भावः । ननु कर्तृत्वं तु स्वतन्त्रत्वमिति श्रुतौ न समस्तश्लोको व्याख्यायते । अविनाशिन मित्यादेरनुपादानात् । स्वातन्त्र्यस्यानुक्तस्य ग्रहणादित्यत आह ।। जानन्नविनाशित्वादि हेतुनेति शेष इति ।। ज्ञानसाधनमनिरूप्य जानन्नित्युक्तययोगादध्याहारो विवक्षित इति भावः । ततश्चायं मूलार्थः । तुशब्दो विशेषार्थः । अवधारणे च तन्मुख्यं कर्तृत्वं क्रियास्वातन्त्र्यमेव । तच्चैकस्य हरेरेव भवेत् । अन्येषां देहहान्यपूर्णतादुःखादिमत्त्वेन स्वातन्त्र्यानुपपत्तेः । नहि स्वातन्त्र्ये (स्वतन्त्रे) पराधीनो देहलाभादिरपूर्णतादिश्च सम्भवति । तच्च स्वातन्त्र्यमव्ययम् । कदापि व्ययरहितमित्यविनाशित्वादि हेतु नाजानन्कथं कर्ता स्वयं भवेदिति ।। जानन्कथं कर्ता भवेदित्यनुपपन्नम् । ज्ञानाभावेपि कर्तृत्वाभावादित्यत आह ।। कर्ता कर्तृत्वाभिमानीति ।। एतेन वेदाविनाशिन मित्यस्य य एनमीश्वरमविनाशित्वाद्युपेतमत एवस्वतन्त्रमव्ययं वेद । अव्ययमिति विशिष्टविशेषणं स्वतन्त्रत्वविशेषणमुपसंक्रामति स्वतन्त्रत्वं चाव्ययं वेद स कं घातयति हन्ति कम् । अहं घातये हन्मीत्येवं भावं न करोतीत्यर्थ उक्तो भवति ।। २१ ।।
भावदीपः
हेतुरुक्त इति ।। स्वातन्त्र्येण न हन्तीत्यत्रास्वातन्त्र्यरूपो हेतुरुक्त इत्यर्थः ।। तादृशाभिमानाभाव इति ।। हन्तृत्वहन्यमानत्वादौ स्वातन्त्र्याभिमानाभावाश्च तत्र स्वातन्त्र्येण हननकर्तृत्वाद्यज्ञाने हेतुरुच्यत इत्यर्थः । ज्ञानी चेच्छत्रुं हन्ति हन्यते च तदा स ज्ञानी स्वस्य हनने स्वातन्त्र्यं न जानाति, स्वातन्त्र्यभ्रान्तिरूपाभिमानाभावादिति वा देहाद्यभिमानाभावादिति वाऽभिप्रायः ।। समीपोक्तत्वादिति ।। पुराणपदेनेति भावः ।
भावप्रकाशः
तादृशाभिमानाभावश्च तत्रेति स्वातन्त्र्याभिमानाभावलक्षणहेतुः स्वातन्त्र्यं मन्यमानो न जानातीत्यत्रोच्यत इत्यर्थः । समीपोक्तत्वादिति । अव्यवहितपूर्वार्धे उक्तत्वादित्यर्थः । स्वातन्त्र्यस्यातीन्द्रियत्वात् तद्ज्ञानमनुमानेनेत्यभिप्रेत्याह । अविनाशित्वादिहेतुनेति शेष इति । अनेन य एनमीश्वरमविनाशित्वाद्युपेतमत एव स्वतन्त्रं वेद एवेति व्याख्यातं भवति ।। जानन्कथं कर्ता भवेदित्युक्ति रनुपपन्ना एतद्ज्ञानाभावेऽपि कतृत्वाभावादित्यत आह । कर्तृत्वाभिमानीति । अनेन कं घातयति हन्ति कम् इत्येतदेव भानं न करोतीति व्याख्यातं भवति । तत्परत्व इति । इशपरत्व इत्यर्थः । पुनरुक्तिविरोधादिति ।। पुनरुक्तिलक्षणबाधकादित्यर्थः ।। २१ ।।
वाक्यविवेकः
जीवस्य समीपोक्तत्त्वादिति । मन्त्रवर्णे अजो नित्य इत्यादिना द्वितीयार्धेनोक्तत्वादित्यर्थः ।। २१ ।।