तात्पर्यम्

तात्पर्यम्

यथाचैवैकमृत्पिण्डज्ञानादेः सदृशत्वतः ।

मृन्मयं तदकार्यं च ज्ञातं मृदिति वै भवेत् ।

यथैव मृत्तिकेत्यादि नित्यनामप्रवेदनात् ।

वाचाऽरब्धमनित्यं तु ज्ञातं तन्मूलमित्यपि ।

एवं कारणभूतोऽसौ भगवान्पुरुषोत्तमः ।

प्रधानश्च स्वतन्त्रश्च तन्मूलमखिलं जगत् ।

तदाधारं विमुक्तौ च तदधीनं सदा स्थितम् ।

स सूक्ष्मो व्यापकः पूर्णस्तदीयमखिलं जगत् ।

तस्मात्तदीयस्त्वमसि नैव सोऽसि कथञ्चन ।

न्यायदीपिका

सादृश्याद्भगवज्ज्ञानादौ सत्यन्यज्ज्ञातादिवद्भवतीत्यत्रोक्तं यथा सोम्यैकेन मृत्पिंडेन सर्वं मृण्मयं विज्ञातं स्यादिति दृष्टान्तं व्याचष्टे ।। यथाचेति ।। ज्ञातं ज्ञातादि । प्राधान्याद्भगवज्ज्ञानादि मात्रेणाज्ञातादेरप्यन्यस्य ज्ञानादिफलं भवति । भगवज्ज्ञानादौ सत्येव ज्ञातस्याप्यन्यस्य ज्ञानादेः फलं भवतीत्युभयत्रोक्तम् । वाचारम्भणं विकारोनामधेयं मृत्तिकेत्येव सत्यमिति दृष्टान्तं व्याचष्टे ।। यथेति ।। यस्मात्सांकेतिकनामधेयस्य वाचारम्भणं क्रियते अतस्तद्विकारोऽत एवाप्रधानं मृत्तिकेत्यादि संस्कृतं नाम नित्यम् । अत एव प्रधानं प्राधान्यान्मृत्तिकेत्यादि संस्कृत ज्ञानादि मात्रेण सांकेतिकाज्ञानादावपि तत्फलं विद्वानिति व्यवहार विषयत्वादिकं भवति । संस्कृतनामज्ञान एव सांकेतिकनामज्ञानं जातमपि सफलं भवति । तन्मात्रेण विद्वानिति व्यवहारविषयत्वाद्यभावादित्यर्थः ।। तन्मूलमिति ।। तत्प्रधानकत्वादित्यर्थः । एवं सोम्य स आदेशो भवतीति दार्ष्टान्तिकवाक्यं व्याचष्टे ।। एवमिति ।। प्रधानोऽतस्तज्ज्ञानादिनोक्तप्रकारद्वयेनान्यज्ञानादिसाफल्यं भवतीति शेषः । एवं सदृशश्चेतिद्रष्टव्यम् । प्राधान्यमेवेश्वरस्य कुत इत्यतः सदेव सोम्येत्यादिना स्वातन्त्र्येण जगत्कारणत्वमुक्तम् । तदेवाह ।। स्वतन्त्रःकारणभूत इति ।। ईश्वरोहमिति भावाकरणे हेतुतयेश्वरमाहात्म्यमुक्तम् । माहात्म्यान्तरं चोच्यते । सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठा इति । तदर्थमाह ।। तन्मूलमिति ।। माहात्म्यान्तरमुक्त्वाऽभेदबुद्धिं मा कुर्वित्युच्यते । स एषोणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्वमसि श्वेतकेतो इति । तद्व्याचष्टे ।। स इति ।। व्यापकः पूर्ण इत्यात्मशब्दस्यार्थद्वयम् । पूर्णो गुणैः । नैव सोऽसीति । अतत्वमसीति विभज्य व्याख्यानान्तरम् ।

किरणावली

मृत्पिण्डज्ञानादीत्यादिपदानुरोधेनाह ।। ज्ञातं ज्ञातादीति ।। एवमुत्तरत्रापि ज्ञेयम् । मूलं सङ्गमयितुं श्रुत्यर्थमाह ।। यस्मादिति ।। नामधेयमिति षष्ठ्यन्तं विपरिणम्यते । तथा च श्रुतौ यस्मात् क्रियते । अतः अप्रधानमिति पदानामध्याहारः । मृत्तिकेत्येवेत्यत्रेतिशब्द आद्यर्थे । तत्रापि नामधेयमित्यनुवर्तते । सत्यमित्यनेन सदातनं सत्यमिति व्युत्पत्त्यानित्यमुच्यत इति भावः । तथा च यस्मात्सांकेतिकनामधेयस्य वाचा वागिन्द्रियेणारम्भणमुत्पादनं क्रियते । ततः सांकेतिकं नामधेयं विकारः विक्रियत इति विकार उत्पत्तिमदत एवानित्यं च । यद्वा । नामधेयं विविधः कारः प्रकारो विकारः । प्रकारप्रकारिणोरभेदात् । पुरुषेच्छानुसारेण बहुविधमतश्चोत्पत्तिमत् । उत्पत्तिमत्त्वादप्रधानं च । मृत्तिकेत्यादि संस्कृतं नामधेयं सत्यं नित्यमत एव प्रधानमिति श्रुत्यर्थ इति भावः ।

एवं श्रुतिं व्याख्याय यथेदं वाचारम्भणवाक्यं प्रथमार्थे दृष्टान्तपरं स्यात्तथा व्याकुर्वद्यथैव मृत्तिकेत्यादि मूलं व्याचष्टे ।। प्राधान्यादिति ।। एतेन अज्ञातमिति शेषः तेनापिशब्दस्य सम्बन्धः । ज्ञातमित्यस्य ज्ञातमिव ज्ञातम् । ज्ञातफलवदित्यर्थ इत्युक्तं भवति । द्वितीयार्थेऽपि दृष्टान्तपरतयायोजयत्त देव वाक्यं व्याचष्टे ।। संस्कृतनामेति ।। एतेन मूले ज्ञातमित्यावर्तते तेन ज्ञातमपीत्यपिशब्दसम्बन्धः । तथा च वाचारब्धं साङ्केतिकं नाम तु विशेषतः बहुशो ज्ञातमपि नित्यनामप्रवेदनादेव संस्कृतनामज्ञाने सत्येव ज्ञातं भवति ज्ञातफलं भवति । बहुभाषापरिज्ञानस्य विद्वानयमिति व्यवहारविषयत्वं फलम् । तच्च संस्कृतनामज्ञान एव पर्यवसानं भवति । प्राकृतभाषापरिज्ञानमात्रेण विद्वानिति व्यवहारविषयत्वाभावादिति मूलार्थ इत्युक्तं भवति । तन्मूलमितीत्यस्य तदेव मूलं यस्य तत्तन्मूलमिति प्रकारेण ज्ञातमित्यर्थः प्रतीयते स न युक्तः प्राकृतस्य संस्कृतमूलकत्वाभावादेकप्रकारेण ज्ञातमिस्य प्रकृतोपयोगाभावाच्चेत्यतः नायं मूलशब्दः कारणार्थकः किंतु प्रधानवाची इतिशब्दश्च हेत्वर्थको न प्रकारवाचीति भावेन सेतिशब्दं तन्मूलशब्दमनूद्य व्याचष्टे ।। तन्मूलमितीति ।। तत्प्रधानकत्वादित्यर्थ इति ।। तथा च वाचारब्धं संस्कृतनाम प्रधानमिति हेतोस्तज्ज्ञानात् फलं भवतीत्यर्थ इति भावः । एवं सोम्य स आदेश इति वाक्यस्य सादृश्यार्थेऽपि दाष्टान्तिकपरत्वात् मूलमपूर्णमध्याहारेण पूरयति ।। एवं सदृशश्चेति ।। सदृशश्चातस्तज्ज्ञानादिनान्यदज्ञातमपि ज्ञातवद्भवतीत्यध्याहार्य द्रष्टव्यमित्यर्थः ।

सदायतना इत्यस्यार्थस्तदाधारमिति । सत्प्रतिष्ठा इत्यस्यार्थो विमुक्तौ चेति । एतदात्मन इदमैतदात्म्यमिति समासार्थस्तदीयमखिलं जगदिति तत्वमसीत्यस्यार्थस्तस्मादिति । तस्मादखिलस्य तदीयत्वात्त्वमपि तत् ऐतदात्म्यमेवासि तदीयोऽसीत्यर्थः ।

भावप्रकाशः

ज्ञानादेरिति पूर्ववाक्यानुसारेण व्याचष्टे । ज्ञातं ज्ञातादीति । न तद्विकार इति विकारविकारिणोरभेदादेवमुक्तम् । वस्तुतस्तु विकारवदित्यर्थः । प्राकृतनाम्नां संस्कृतकारणकत्वाभावादाह ।। तत्प्रधानकत्वादित्यर्थ इति । सदायतना इत्यस्यार्थः तदाधारं विमुक्ताचेति । सत्प्रतिष्ठ इत्यस्यार्थस्तदधीनं सदेति ।। व्यापक इत्यनेन गतार्थत्वशङ्कानिरासाय पूर्ण इत्येतद्व्याचष्टे । पूर्णो गुणैरिति ।।

वाक्यविवेकः

कथमनेन मूलेन दृष्टान्तो व्याख्यात इत्यतो दृष्टान्तव्याख्यानप्रकारं सूचयन् मूलं व्याचष्टे । तस्मादिति । अनेन श्रुतौ प्राधान्यात् मृत्तिकेत्यादिसंस्कृतज्ञानादिमात्रेण सांकेतिकज्ञानादावपि तत्फलं भवतीत्यस्य शेष उक्त इत्युक्तं भवति । दुर्गमार्थत्वात् तन्मूलमितीति पदद्वयमनूद्य व्याचष्टे ।। तन्मूलमितीति । प्रपञ्चो यदि विद्येत इत्यत्र विद्यमानः प्रपञ्चशब्दः न विश्ववाची अपितु भेदपञ्चकवाचीत्यर्थः । इतिशब्दो हेत्वर्थ इत्यभिप्रेत्य पञ्चम्यंततया व्याख्यातमिति बोध्यम् । एवमिति मूले स्वतन्त्रश्चेत्यतःपरं सदृशश्चेतिपदं द्रष्टव्यमित्यर्थः ।