गीता
द्वितीयोऽध्यायः
प्रज्ञावादपदार्थविवरणम्
गीता
सञ्जय उवाच—
तं तथा कृपयाऽऽविष्टमश्रूपूर्णाकुलेक्षणम् ।
विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ।। १ ।।
भगवानुवाच—
कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् ।
अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ।। २ ।।
क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते ।
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ।। ३ ।।
अर्जुन उवाच—
कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन ।
इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ।। ४ ।।
गुरूनहत्वा हि महानुभावान्
श्रेयो भोक्तुं भैक्षमपीह लोके ।
हत्वाऽर्थकामांस्तु गुरूनिहैव
भुञ्जीय भोगान् रुधिरप्रदिग्धान् ।। ५ ।।
न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः ।
यानेव हत्वा न जिजीविषामस्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ।। ६ ।।
कार्पण्यदोषोपहतस्वभावः
पृच्छामि त्वा धर्मसम्मूढचेताः ।
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे
शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ।। ७ ।।
न हि प्रपश्यामि ममापनुद्याद्
यच्छोकमुच्छोषणमिन्द्रियाणाम् ।
अवाप्य भूमावसपत्नमृद्धं
राज्यं सुराणामपि चाधिपत्यम् ।। ८ ।।
सञ्जय उवाच—
एवमुक्तवा हृषीकेशं गुडाकेशः परन्तपः ।
न योत्स्य इति गोविन्दमुक्त्वा तूष्णीम्बभूव ह ।। ९ ।।
तमुवाच हृषीकेशः प्रहसन्निव भारत ।
सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ।। १० ।।
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।
गतासूनागतासूंश्च नानुशोचन्ति पण्डिताः ।। ११ ।।
तात्पर्यम्
प्रकर्षेण जानन्तीति प्रज्ञाः तदवादः प्रज्ञावादः । प्राज्ञमतविरुद्धवादं वदसि । कथम् ? गतासून् ।। ११ ।।
प्रकाशिका
पूर्वोक्तमेवार्थमशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे इत्यारभ्याशेष भगवद्गीतया प्रतिपादयितुम् उपक्रमते ।। प्रकर्षेणेति ।। कथमेतदिति आशङ्कापरिहारत्वेनोपरितनवाक्यमुपादत्ते गतासूनिति ।।
न्यायदीपिका
एवं संक्षेपतो गीतातात्पर्यमुक्त्वाऽथ विस्तरेण तद्विवक्षुः कतिपयश्लोकाधिकाद्याध्यायस्या तिरोहितार्थत्वात्संग्रहोक्तयैव व्याख्याततां मन्वानोऽशोच्यानन्वशोचस्त्वमित्यादि व्याकुर्वन्प्रज्ञावादपदार्थमाह ।। प्रकर्षेणेति ।। तदवादो न तदुपेक्षितः अपितु तद्वादविरुद्ध इत्यभिप्रेत्योक्तं विवृण्वन्वाक्यार्थमाह ।। प्राज्ञेति ।। ननु कथं विनशिष्यंतोऽशोच्याः येनाशोच्यानन्वशोचस्त्वमित्युच्यते ।। कथंच न योत्स्य इति वाक्यं प्राज्ञमतविरुद्धम् । दृष्ट्वेममित्यादिनोपपत्तेरुक्तत्वादित्याक्षिपति ।। कथमिति ।। तत्राद्यचोद्यपरिहारतयोत्तरार्धमुपादत्ते ।। गतासूनिति ।। ११ ।।
किरणावली
तदवादो न तदुपेक्षित इति ।। नञोऽल्पाद्यन्यार्थत्वे प्रज्ञावादादन्यः प्रज्ञावाद इति तदुपेक्षितवादे लब्धे तन्निषेधाय नञो विरुद्धार्थमङ्गीकृत्योक्तं विवृण्वन्नित्यर्थः ।। ननु कथमिति ।। ‘‘अशोच्यानन्वशोचस्त्वं’’ इत्यत्र यथाश्रुतान्वये असिद्धस्यानुवादः सिद्धस्य विधानमित्यापत्तेः । यांस्त्वमन्वशोचस्तेऽशोच्या इति वाक्यविन्यासं हृदि कृत्वोक्तं कथं विनशिष्यन्तोऽशोच्या इति । आसन्नविनाशाः कथमशोच्या इत्यर्थः ।। उपपत्तेरिति ।। बन्धुस्नेहनिमित्तनाशभयान्न योत्स्य इत्युपपत्तेरित्यर्थः ।। उपादत्त इति ।। चशब्द उपमायाम् । पण्डिता अगतासूनिव गतासूनपि नानुशोचन्तीत्यस्यार्थस्यातिरोहितत्वादिति भावः ।। ११ ।।
भावदीपः
सङ्ग्रहोक्त्यैवेति ।। ‘तत्र साक्षादिन्द्रावतारम्’ इत्यादिनेति भावः ।। दृष्ट्वेममित्यादिनेति ।। पूर्वाध्याये ‘दृष्ट्वेमं स्वजनं कृष्ण’ इत्यादिना भयकम्पगाण्डीवस्रंसनादेर्युद्धनिवृत्तावुपपत्तेरुक्तत्वादित्यर्थः ।। उत्तरार्धमुपादत्त इति ।। अर्थस्तु स्पष्टः । चशब्द उपमाऽर्थो ध्येय इति भावः ।।
भावप्रकाशः
सङ्ग्रहोक्तयैवेति । नारायणद्विट्तदनुबन्धिनिग्रहमित्यादिनेत्यर्थः । तदपवादो न तदुपेक्षित इति । नञस्तदन्यत्वार्थकत्वमभिप्रेत्यैवमुक्तमिति भावः । विनशिष्यन्त इति । आसन्नविनाशा इत्यर्थः । उपपत्तेरुक्तत्वादिति । युद्धस्याकर्तव्यत्वे कुलक्षयादि द्वारानरकवास सम्पादकत्वरुपापपत्तेरुक्तत्वादित्यर्थः । गतासूनितीति । पण्डिता आगतासूनिव गतासूनासन्नविनाशानपि नानुशोचतीत्यर्थः ।। ११ ।।
वाक्यविवेकः
सङ्ग्रहोक्तयैवेति । संक्षेपेण गीतातात्पर्यकथनेनैव कतिपयश्लोकाधिकाद्याध्यायस्य व्याख्यानतां मन्वान इत्यर्थः । उत्तरार्धमुपादत्त इति । उत्तरार्धे अगतासुन् प्रति पण्डितः नानुशोचतीत्युक्तया अशोच्य इत्यर्थलाभात् उत्तरार्धोपादानेनाद्यचोद्यस्य परिहार इति भावः ।। ११ ।।