गीता

गीता

सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ।

ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ।। ३८ ।।

एषा तेऽभिहिता साङ्घ्ये बुद्धिर्योगे त्विमां शृणु ।

बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ।। ३९ ।।

तात्पर्यम्

सम्यक् ख्यातिर्ज्ञानं साङ्ख्यम् । युज्यतेऽनेनेति योगस्तदुपायः ।

सम्यक्तत्त्वदृशिः साङ्ख्यं योगस्तत्साधनं स्मृतम्’ इति शब्दनिर्णये ।

ब्रह्मतर्कस्तर्कशास्त्रं विष्णुना यत्समीरितम् ।

 अक्षपादकणादौ च साङ्ख्ययोगौ च हैतुकाः ।

 बौद्धपाशुपताद्यास्तु पाषण्डा इति कीर्तिताः ।

मीमांसा त्रिविधा प्रोक्ता ब्राह्मी दैवी च कार्मिकी ।

ब्रह्मतर्कं च मीमांसां सेवेत ज्ञानसिद्धये ।

वैदिकज्ञानवैरूप्यान्नान्यत्सेवेत पण्डितः’

इत्यन्यसाङ्ख्ययोगयोर्निषिद्धत्वान्नारदीये । साङ्ख्यस्य निरीश्वरत्वादुक्तत्वाच्चेश्वरस्य । साङ्ख्यैर्योगैश्च विहितहिंसाया अप्यनर्थहेतुत्वाङ्गीकारात् । अत्र तु युद्धविधानाच्च मोक्षार्थत्वेनैव कर्मबन्धं प्रहास्यसीति । परमसाड्ख्ययोगयोश्चोक्तार्थत्वेनैव न विरोधः ।। ३९ ।।

प्रकाशिका

एषा त इत्येतद्व्याचष्टे ।। सम्यगिति ।। अत्र साङ्ख्य–योगशब्दाभ्यां न वैदिकाभासभूतसाङ्ख्यदर्शनं योगदर्शनं न चोपादेयमित्येतदर्थं पुराण वचनमाह ।। ब्रह्मतर्क इति इतोऽप्यत्र साङ्ख्ययोगशब्दौ न वैदिकाभासदर्शनपरावित्याह ।। साङ्ख्यस्येत्यादिना ।। साङ्ख्य–योगशब्दाभ्यामत्र परयोः साङ्ख्य–योगयोर्भगवदवताराभ्यां कपिलदत्तात्रेयाम्यां कृतयोः स्वीकारे न विरोधः ।। भगवद्गीतार्थप्रतिपादकत्वादित्याह ।। परमेति ।। ३९ ।।

न्यायदीपिका

उक्तमुपसंहृत्य प्रकरणान्तरमारभ्यते ।। एषेति ।। तत्र साङ्ख्ययोगशब्दौ दर्शनविशेषपराविति प्रतीतिनिरासाय तदर्थं सप्रमाणकमाह ।। सम्यगिति ।। अत्र दर्शनविशेषपरत्वमेवैतच्छब्दयोः किं न स्यादित्यत आह ।। ब्रह्मतर्क इति ।। अत्रोक्तसाङ्ख्ययोगयोर्बुद्ध्या युक्त इति प्रशस्तत्वादितरयोर्निन्दितत्वान्न तावत्रोक्ताविति भावः । इतोपि न साङ्ख्यपदेनात्र प्रसिद्धसाङ्ख्यं विवक्षितमित्याह ।। साङ्ख्यस्येति ।। अत्र साङ्ख्यपदेन प्रसिद्धसाङ्ख्यग्रहणे साङ्ख्योक्तमभिहितमित्युक्तं स्यात् । न च तद्युक्तम् । अत्र न जायत इत्यादावीश्वरस्योक्तत्वात्साङ्ख्यस्य च निरीश्वरत्वात् ।। अतश्च नात्र साङ्ख्यं शास्त्रविशेष इत्यर्थः । इतोपि नात्र साङ्ख्ययोगशब्दौ प्रसिद्धशास्त्रपरावित्याह ।। साङ्ख्यैरिति ।। अत्र पूर्वोत्तरप्रकरणयोः साङ्ख्यादिभिः पारत्रिकानर्थहेतुत्वमेव हिंसाया अङ्गीक्रियते नत्वैहिके । अत्र पुना राज्यार्थमेव हिंसाविधीयतेऽतो न विरोध इत्यत आह ।। मोक्षेति ।। साङ्ख्ययोगशब्दयोः सोपपत्तिक मर्थान्तरं चाह ।। परमेति ।। पूर्वोत्तरप्रकरणोक्तार्थप्रतिपादकत्वादित्यर्थः । न विरोधोऽत्र तदुक्तग्रहण इति शेषः ।। ३९ ।।

किरणावली

ब्रह्मतर्कस्तर्कशास्त्रमिति मूले विष्णुना यत्समीरितं तर्कशास्त्रं स ब्रह्मतर्कः । ब्राह्मी ब्रह्मविषयिणी दैवी देवविषयिणी कार्मिकी कर्मविषयिणीति मीमांसात्रिविधाप्रोक्ता ।

ब्रह्मतर्कं च मीमांसां सेवेत ज्ञानसिद्धये ।

अक्षपादकणादशब्दाभ्यां तत्प्रणीत शास्त्रं गृह्यते । हैतुकाः शुष्कतर्कप्रधानाः पाषण्डाः वेदबाह्याः अतो नान्यत् शास्त्रं सेवेत । कुतः वैदिकज्ञानविरोधि ज्ञानहेतुत्वादिति योज्यम् ।। इतोपीति ।। स्वव्याहतिप्रसक्तियुक्तितोपीत्यर्थः ।। साङ्ख्योक्तमभिहितमिति ।। बुध्यत इति व्युत्पत्त्या बुद्धिशब्दस्य प्रतिपाद्यपरत्वादिति भावः । अत्रेत्यनुवादः पूर्वोत्तरप्रकरणयोरिति व्याख्या ।। सोपपत्तिकमिति ।। उक्तार्थत्वेत्यनेन पूर्वोत्तरप्रकरणोक्तार्थ प्रतिपादकत्वरूपोपपत्तेरुक्तत्वादित्यर्थः ।। ३९ ।।

भावदीपः

उक्तमिति ।। ‘न त्वं नेमे’ इत्यादिना यज्जीवतत्त्वस्वरूपमुक्तं तत् एषेति प्रथमपादेनोपसंहृत्य ज्ञानोपायनिरूपणप्रकारान्तरमारभ्यते आरम्भप्रतिज्ञा क्रियते द्वितीयपादेनेत्यर्थः । अनयोरपि निन्दितत्वे को विशेष इत्यत आह ।। अत्रोक्तयोरिति ।। न त्वैहिक इति ।। ऐहिकफले न हेतुत्वमङ्गीक्रियत इत्यर्थः ।। अत्र पुनरिति ।। राज्यार्थमिति पदविभागः ।। सोपपत्तिकमिति ।। विरोधाभावलक्षणोपपत्तिसहितं पूर्वोत्तरप्रकरणोक्तार्थप्रतिपादकत्वरूपं धर्मान्तरमित्यर्थः । तेन ज्ञानोपायावेव साङ्ख्ययोगशब्दार्थौ नान्यौ पूर्वोत्तरोक्तार्थविरोधादिति भावः ।। ३९ ।।

भावप्रकाशः

अन्यसांख्ययोगयोर्निन्दितत्वेऽपि प्रकृतेर्गृहणं किं न स्यादित्यत आह । अत्रोक्तसाङ्ख्ययोगयोरिति ।। सोपपत्तिकमिति उक्तार्थत्वेत्यनेन पूर्वोक्तप्रकरणोक्तार्थप्रतिपादकत्वरूपोपपत्तेरुक्तत्वादित्यर्थः ।। ३९ ।।

वाक्यविवेकः

इतोपि न सांख्यपदेन प्रसिद्धं साङ्ख्यं विवीक्षितमित्याहेति सामान्येनोक्तं मूलार्थं विस्पष्टमाह । अत्र साङ्ख्यपदेनेति । साङ्ख्यादिभिरिति ।। साङ्ख्यादिभिर्हिंसायाः पारत्रिकानर्थहेतुत्वमेवाङ्गीक्रियते । नत्वैहिकानर्थहेतुत्त्वम् । इह वैदिकफलोद्देशेन युद्धरूपहिंसायाः कर्त्तव्यत्वमुक्तं अतो न विरोध इत्यर्थः ।। ३९ ।।