गीता
गीता
समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् ।
विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ।। २८ ।।
समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् ।
न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् ।। २९ ।।
तात्पर्यम्
जीवेषु दुःखयोगादिरूपेण विनश्यत्स्वप्यतथाभूतम्
‘दुःखयोगादिरूपेण जीवेषु विनश्यत्स्वपि ।
दुःखयोगादिरहितः सर्वजीवेष्ववस्थितः ।
गुणैः सर्वैः समो नित्यं न हीनो हीनगोऽपि सन् ।
इति पश्यति यो विष्णुं स एव न तमो व्रजेत्’ इति पाद्मे ।। २८,२९ ।।
प्रकाशिका
समं हि सर्वेत्यादेरर्थमाह जीवेष्वित्यादिना ।। २८,२९ ।।
न्यायदीपिका
परमेश्वरस्य सर्वशरीरस्थत्वमुक्तम् । तर्ह्यधिष्ठानतारतम्यात्तस्य तारतम्यं दुःखिसहावस्थानाद्दुःखं च स्यादित्यत उच्यते ।। सममिति ।। तत्र विनश्यत्स्वविनश्यन्तमित्ययुक्तम् । जीवानां विनाशाभावात् । न च तस्याचेतनविषयत्वम् । चशब्दाद्यभावादित्यत आह ।। जीवेष्विति ।। एवं विजानन्नेव ज्ञानीत्युक्तम् । तज्ज्ञानफलमुच्यते ।। सममिति ।। श्लोकद्वयं स्मृत्यैव व्याचष्टे ।। दुःखेति ।। न हिनस्तीत्यस्यार्थः स एवेति ।। २८२९ ।।
किरणावली
सर्वशरीरस्थत्वमिति ।। परमात्मेति चाप्युक्तो ‘‘देहेऽस्मिन् पुरुषःपर’’ इत्यादावित्यर्थः ।। चशब्दाद्यभावादिति ।। सर्वेषु भूतेषु चेत्यचेतनेव स्थानसमुच्चायकस्य चापिशब्दादेरचेतनेष्विति पदस्य वा भावादिति भावः ।। एवं विजानन्नेव ज्ञानीत्युक्तमिति ।। यः पश्यति स पश्यतीत्यतः परमित्युच्यत इति शेष इति भावः ।। नहि नस्तीत्यस्यार्थ इति ।। आत्मनापरमात्मना तत्प्रसादेनात्मानं स्वात्मानं नहि नस्ति तमोलक्षणहिंसायुक्तं न करोतीत्यर्थ उक्त इति भावः।। २८२९ ।।
वाक्यविवेक
चशब्दाद्यभावादिति । समं सर्वेषु भूतेष्विति पूर्वार्धोक्तभूतेष्वित्यस्याविनश्यवस्त्वित्यस्य च विशेषणविशेष्यभावेन चशब्दो नापेक्षितः । भूतेष्वित्यस्य जीवपरत्वविनश्य च त्वान्यत परत्वमिति पक्षे समुच्चायकश्चशब्दोऽपेक्षित इति भावः ।। २८२९ ।।