गीता

गीता

यावत्संजायते किंचित्सत्त्वं स्थावरजङ्गमम् ।

क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्वि भरतर्षभ ।। २७ ।।

तात्पर्यम्

‘क्षेत्रक्षेत्रज्ञसंयोगात्’ इत्यत्र क्षेत्रं श्रीः ‘मम योनिर्महद् ब्रह्म तस्मिन् गर्भं दधाम्यहम्’ इति वक्ष्यमाणत्वात् ।

अव्यक्तं च महद् ब्रह्म प्रधानं क्षेत्रमित्यपि ।

उच्यते श्रीः सदा विष्णोः प्रिया निर्दोषचिद्धना ।

सा हि न व्यज्यते विष्णुरत्र क्षेति महागुणा ।

जीवोत्तमा च तेनैतैः शब्दैरेकाऽभिधीयते ।

महान् ब्रह्मा जीवमहान् परात्मप्रेरिताः क्रियाः ।

अहं कर्तेति येनायं जीवो मंस्यत्यसौ शिवः ।

सोऽहङ्कार इति प्रोक्तो जीवाहङ्कृतिकृद् यतः ।

उमा बुद्धिरिति ज्ञेया शब्दादिज्ञानदा यतः ।

मतिदो मन उद्दिष्ट इन्द्रः स्कन्दोऽपि तत्सुतः ।

श्रोत्रं तु श्रावयंश्चन्द्रः स्पर्शो वायुसुतो मरुत् ।

चक्षुः सूर्यश्चक्षयति जिह्वा वारिपतिर्हृतेः ।

अश्विनौ घ्रणमाघ्रातेर्वागग्निर्वचनादपि ।

हस्तौ वायुसुतौ ज्ञेयौ मरुतौ हानिलाभयोः ।

पादौ तु विष्णुनाऽविष्टौ यज्ञशम्भू शचीसुतौ ।

पदनादेव पायुश्च भुक्तस्यैवाप्ययाद् यमः ।

सन्तत्युपस्थितिकृतेरुपस्थः सशिवो मनुः ।

प्रकाशिका

‘‘मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम् ।। सम्भवः सर्वभूतानां ततोभवति’’ इत्यत्तुराध्याये यद्योनिर्महद्ब्रह्मेत्युक्तं चेतनप्रकृत्या रूपं तदेव ‘‘यावत्संजायते किञ्चित् सत्वं स्थावरजङ्गमम् ।। क्षेत्रक्षेत्रज्ञसंयोगात् तद्विद्धीत्यनेन क्षेत्रवशेनोच्यते लिङ्गवशात् ।। एषा चेतनप्रकृतिः अभिव्यक्ता अभिमानिदेवता अव्यक्तादिशब्दवाच्या ।। एवं महत्तत्वाद्यभिमानिनोऽपि महदादिशब्दवाच्या ब्रह्मादिजीवाः ।। तदाह ।। क्षेत्रेत्यादिना ।। वायोः पत्नीत्वेवं धृतिर्मतेति सरस्वतीवत् । विधृतेर्हेतोः धृतिर्मतेत्यर्थः ।। जडाव्यक्ताभिमानित्वेनोदितोऽग्निर्नवागभिमानित्वेन पुनरुच्यते स्थानभेदादित्यवगन्तव्यम् ।। स्थानभेदात्त्वित्यत्राव्यक्ताद्यभिमानिषु येन चेतनेन यज्जडमभिमतम् ।। तदभिमानवता तेनाव्यक्तशब्देन महच्छब्देन तदव्यक्तं तन्महत्तत्त्वमभिधीयते इत्यवगन्तव्यम् ।। एतैरभिमानमित्यत्र ‘‘यावत्संजायते किञ्चित्सत्त्वमि’’त्युक्तस्य जनिं घटयति ।। जनि प्रादुर्भाव इति ।। २७ ।।

न्यायदीपिका

यदुक्तं हरिरेव सर्वजीवानां सदसद्योनिजन्मसु स्वतन्त्रकारणमिति तत्प्रपञ्च्यते ।। यावदिति ।। तत्र क्षेत्रज्ञस्य हरेः क्षेत्रसंयोगो नाम जडदेहसंयोग इत्यन्यथाप्रतीतिनिरासायाह ।। क्षेत्रेति ।। यावत्संजायत इत्येतद्विवरणरूपे मम योनिरित्युत्तराध्यायगतवाक्ये लक्ष्मीनारायणसंयोगात्सर्वभूतसम्भवस्योक्तत्वादत्रापि क्षेत्रपदेन श्रीरेवोच्यत इति भावः । अव्यक्ततत्वे प्रसिद्धः क्षेत्रशब्दः श्रीवाचीत्येतत्कुत इत्यतः श्रियः क्षेत्रशब्दवाच्यत्वं प्रसङ्गान्महाभूतानीत्याद्युक्ताहङ्कारादिशब्दानां च देवतावाचित्वं प्रमाणेन दर्शयति ।। अव्यक्तमिति ।। सरस्वत्यादीनामपि श्रीशब्दवाच्यत्वात्तद्व्यावृत्त्यर्थमाह ।। सदेति ।। किं जडाव्यक्ताभेदात्तच्छब्दवाच्येत्यत आह ।। निर्दोषेति ।। कथं तर्हि अव्यक्तादिपदवाच्यत्वमित्यत आह ।। साहीति ।। न व्यज्यत इत्यव्यक्तम् । विष्णुरस्यां निवसतीति क्षेत्रम् । महागुणेति महद्ब्रह्म, जीवोत्तमेति प्रधानमुच्यत इत्यर्थः । अत्र महतोऽनुक्तत्वेऽप्यादिकार्यत्वाद्ग्राह्य एव । क्रियाः उद्दिश्य । उक्तं विवृणोति ।। जीवेति ।। शब्दादि बोधयतीति बुद्धिरित्यर्थः । तत्सुतोऽनिरुद्धोऽपि । स्पर्शयतीति स्पर्शः । हृञ्हरण इति धातोः रसाहरणहेतुत्वाज्जिह्वेत्यर्थः । आघ्रातेर्गन्धाघ्राणहेतुत्वात् । वचनात् वचनप्रवर्तकत्वात् । हानिलाभयोर्निमित्तत्वात् । सनलाभ इति धातुः । क्वचिद्विष्णोः पाददेवत्वोक्तेर्विष्णुनेत्युक्तम् । यज्ञशंभूच न हरिहरावित्युक्तम् ।। शचीति ।। पदनाद्गतिप्रवर्तकत्वात् । पदगताविति धातुः ।

किरणावली

यदुक्तं हरिरेवेति ।। उपद्रष्टानुमन्ता चेत्यादिना हरिरेव जीवानां सदसद्योनिजन्मसुस्वतन्त्रकारणं न तु गुणा इति यदुक्तमित्यर्थः ।। सरस्वत्यादीनामपीति ।।

शंरूपे तु रतेर्वायौ श्रीरित्येव च कीर्तिका ।

ताश्चेन्द्रधर्मनासत्यसंश्रयाच्छ्रिय ईरिताः ।।

इति महाभारततात्पर्यनिर्णये एष्यत् सरस्वत्यादीनामपि श्रीशब्दवाच्यत्वोक्तेरिति भावः ।। जडाव्यक्ताभेदादिति ।। जडाव्यक्ताभिन्नशरीरत्वादित्यर्थः । निर्दोषेति मूलस्य प्राकृतदेहादिमत्त्वरूपदोषरहितकेवलचिद्देहत्वादित्यर्थः ।। विष्णुरस्यां निवसतीति ।। अनेन विष्णुरत्रक्षेतीति विवृतं भवति । क्षिनिवासगत्योरिति धातोः । ननु महाभूतानीत्यत्र महत्तत्वस्यानुक्तत्वात्कथं महान्ब्रह्मेति व्याख्यानमित्यत आह ।। अत्रेति ।। गीतायामित्यर्थः । परात्मप्रेरिताः क्रिया इति द्वितीयाया अन्वयाप्रतीतेराह ।। क्रिया उद्दिश्येति ।। ततश्च परमात्मप्रेरिताः क्रिया उद्दिश्याहंकर्तेति येन यत्प्रेरणयामंस्यत्यसौ शिव अहङ्कार इति प्रोक्त इति योजनेति भावः ।। उक्तं विवृणोतीति ।। अविवरणे शिवप्रेरणया जीवस्याहंकरोमीत्यहङ्कारकर्तृत्वेऽप्यहङ्कारशब्दवाच्यत्वं कुत इति शङ्काप्राप्तेरिति भावः । ज्ञापयतीति ज्ञानमिति व्युत्पत्त्याश्रयणे बुद्धिशब्दवाच्यत्वं कुत इत्यतो मूलाभिप्रायमाह ।। शब्दादिबोधयतीति ।। तत्सुतोऽनिरुद्धोऽपीति ।। स्कन्दस्य कामत्वात्कामपुत्रोऽनिरुद्धोऽपि मन इत्यर्थः । वायुसुतो मरुत्प्रवहःस्पर्शयतीति स्पर्श इत्यर्थः । रसाहरणेति ।। रसाहरणं रसस्वीकारोरस साक्षात्कारस्तद्धेतुत्वादित्यर्थः । हकारस्य हानिवाचित्वं हरतेर्हानिवाचित्वात्प्रसिद्धमेव । सकारस्य लाभवाचित्वमुपपादयन्वाक्यार्थमाह ।। हानिलाभयोरिति ।। निमित्तत्वादिति शेषोक्तिः ।। क्वचिद्विष्णोरिति ।। विष्णुर्गत्यैव चरणौ नोदतिष्ठत्तदा विराडिति भागवते विष्णोः पाददेवत्वोक्तेरित्यर्थः । तथा च तत्तात्पर्यनिर्णये यज्ञान्तस्थः स्वयं पादौ विशन्नोत्थापयद्धरिरिति । पायुश्च भुक्तस्यैवाप्ययाद्यम इत्यस्य पापाने पीतस्य भुक्तस्य बहिर्यापनशीलत्वात्पायुरित्यर्थ इति भावः ।

भावदीपः

यदुक्तमिति ।। उपद्रष्टेत्यादिनेति भावः ।। सरस्वत्यादीनामपीति ।। ताश्चेन्द्रधर्मनासत्यसंश्रयाच्छ्रिय ईरिता इति भारततात्पर्योक्तेरिति भावः । विष्णुरत्र क्षेतीत्युक्तिसूचितविग्रहमाह ।। विष्णुरिति ।। क्षि निवासगत्योरिति धातोरिति भावः ।। अत्रेति ।। गीतायामित्यर्थः ।

भावप्रकाशः

सरस्वत्यादीनामपीति । सरस्वतीशचीश्यामलोषसां

शंरूपे तु रतेर्वायौ श्रीरित्येव च कीर्त्यते ।

ताश्चेन्द्रधर्मनासत्यसंश्रयाच्छ्रिय ईरिताः ।

इत्यन्यत्रोक्तत्वादित्यर्थः ।। शंरूप इत्यनेन वायुपत्न््नयाः श्रीशब्दवाच्यत्वोक्तया सरस्वत्या अपि तत्सिद्धमिति द्रष्टव्यम् ।।

क्षेतीत्येतत्क्षिनिवासगत्योरिति धातुं मनसि निधाय व्याचष्टे ।। निवसतीति । ननु महाभूतानीत्यत्र महत्तत्वस्यानुक्तत्वात्कथं महान्ब्रह्मेति व्याख्यानमित्यत आह । अत्र महतो अनुक्तत्वेऽपीति । तच्छब्देन स्कन्दपरामर्श इत्यभिप्रेत्याह । तत्सुतोऽनिरुद्धोपीति । रसाहरणहेतुत्वादिति । रससाक्षात्कारहेतुत्वादित्यर्थः ।। सकारस्य लाभवाचित्वमुपपादयति । सनलाभ इतीति ।। हकारस्य हानिवाचकत्वं तु नामैकदेशे नामग्रहणमिति न्यायेन प्रसिद्धमेवेति भावः । क्वचिद्विष्णोः पाददेवत्वोक्तेरिति ।

अनाद्यनन्तोऽपि हरिर्वैकारिकगुणेष्वजः ।।

अवतीर्णः पदाङ्गुष्टमध्यास्ते विश्वभुग्विभुः । इत्यत्रेत्यर्थः ।।

वाक्यविवेक

महाभूतानीत्याद्युक्तेति ।। महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव चेति गीतोक्तानां शब्दानामित्यर्थः ।। न व्यज्यत इत्यनेनाव्यक्तशब्दप्रवृत्तिनिमित्तमुक्तमित्यभिप्रेत्याह । न व्यज्यत इति । क्षिनिवासगत्योरित्यतः अधिकरणे त्रप्रत्यये गुणे क्षेत्रशब्दसिद्धिरिति भावेनोक्तं विष्णुरस्यामिति । महागुणेति महद्ब्रह्मेति शब्दस्य प्रवृत्तिनिमित्तमुक्तमित्यभिप्रेत्याह ।। महागुणेति । क्रिया इत्यतः परं अध्याहार्यमाह । उद्दिश्येति ।। परमात्मपे्ररिताः क्रिया उद्दिश्य येन रुद्रेण प्रेरितो जीवः अहंक्रियाकर्तेति मन्यते । स रुद्रः अहङ्कारशब्दवाच्य इत्यर्थः । बोधयतीति अन्तर्णीतिण्यर्थात् बुधेः कर्तरि क्तिन्प्रत्यये गुणे स्पर्श इति रूपमिति भावः ।। हृञ्हरण इतीति । हृञ्हरण इत्यस्माड्वन्प्रत्यये जकारस्थाकारस्येकारे टिलोपे टापिच जिह्वेति रूपमिति भावः । आघ्रातेरिति । गन्धोपादान इत्यस्मात् करणे ल्युट् प्रत्यये घ्राणमिति रूपमिति भावः ।। वचनादिति । ण्यन्ताद्वचेः क्विपि वृद्धौ णिलोपे वागिति रूपमिति भावः ।। हानिलाभयोर्निमित्तत्वादिति । हान्यर्थकात् ओहावीति धातोः करणे डप्रत्यये हशब्दो हानिनिमित्तवाची लाभार्थकात्सनधातोः करणे तप्रत्यये बाहुलिके टिलोपे स्तशब्दो लाभनिमित्तवाचीति भावः ।। पद्गताविति धातुरिति ।। अस्मात् घञ्प्रत्यये उपधावृद्धौ पाद इति रूपम् ।