श्रीभगवानुवाच

देवा अपि विश्वरूपस्य दर्शनकाङ्क्षिणः

श्रीभगवानुवाच—

सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम ।

देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ।। ५२ ।।

नाहं वेदैर्न तपसा न दानेन न चेज्यया ।

शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ।। ५३ ।।

भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन ।

ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप ।। ५४ ।।

मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः ।

निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ।। ५५ ।।

इति श्रीभगवद्गीतायामेकादशोऽध्यायः

तात्पर्यम्

ये दर्शनकाङ्क्षिणस्तैरपीदानीं दृष्टं प्रायः ।। ५२५५ ।।

इति श्रीमदानन्दतीर्थभगवत्पादविरचिते श्रीभगवद्गीतातात्पर्यनिर्णये एकादशोऽध्यायः

प्रकाशिका

‘‘सदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम ।। देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः’’ इत्यस्यार्थमाह ।। ये दर्शनकाङ्क्षिण इति ।। ५२५५ ।।

इति श्रीमदानन्दतीर्थभगवत्पादविरचितस्य श्रीमद्गीतातात्पर्यनिर्णयस्य प्रकाशिकायां

पद्मनाभतीर्थविरचितायां एकादशोऽध्यायः ।।

न्यायदीपिका

ननु सुदुर्दर्शमिदं रूपमित्यत्र देवा अप्यस्य रूपस्य नित्यं दर्शनकांक्षिण एव वर्तन्ते न तु पश्यन्तीत्युक्तत्वात्कथमर्जुनादुत्तमैरधमैश्च विश्वरूपस्य दृष्टत्वमुच्यत इत्यतस्तद्वाक्यं यथावद्योजयति ।। य इति ।। अनेन यन्मम रूपं दृष्टवानसि अस्य रूपस्य नित्यं दर्शनकांक्षिणो ये देवास्तेऽपि यद्दृष्टवन्तस्तदिदं सुदुर्दर्शमिति योजना सूचिता भवति । अन्यथोक्तविरोध इति भावः

।। ५२५५ ।।

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्गीतातात्पर्यनिर्णयस्य टीकायां जयतीर्थमुनिविरचितायां न्यायदीपिकायां एकादशोऽध्यायः ।। ११ ।।

किरणावली

देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिण एवेति न कारकक्रिया येन न तु पश्यन्तीति लभ्येत किन्तु तद्देवा इत्यस्य विशेषणमेव । यन्मम रूपं दृष्टवानस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः । अस्माकं विश्वरूपदर्शनं सदा भूयादित्यपेक्षावन्तो ये देवास्तेपीत्यनेन यद्दृष्टवन्त इति लभ्यते । देवदत्त आगतोऽन्येपीत्युक्ते आगता इत्यस्य लाभदर्शनादिति भावेन योजयति ।। अनेनेति ।। प्रतीतार्थे बाधकमाह ।। अन्यथेति ।। विश्वरूपं प्रथमत इत्याद्युदाहृतवचनविरोध इत्यर्थः । मूले दृष्टं प्राय इति प्रायःशब्देनेदानीमपि ज्ञानप्रतिबन्धे सति न दृष्टमिति ज्ञायते । देवानामपि ज्ञानप्रतिबन्धेनेदानीं तद्दर्शनसम्भवादिति भावः ।। ५२ ।।

इति श्रीमद्विठ्ठलाचार्यपुत्रेण श्रीमत्तीर्थाचार्यचरणसेविना श्रीनिवासेनरचितायां

न्यायदीपकिरणावल्यामेकादशोध्यायः ।। ११ ।।

भावदीपः

अन्यथोक्तेति ।। दृष्ट्वाऽद्भुतं रूपं, विश्वरूपं प्रथमतो ब्रह्मापश्यदित्याद्युक्तविरोध इत्यर्थः ।। ५२ ।।

इति राघवेन्द्रयतिकृते श्रीमद्गीतातात्पर्यटीकाभावदीपे एकादशोऽध्यायः ।। ११ ।।

भावप्रकाशः

प्रतीतार्थे बाधकमाह ।। अन्यथेति । विश्वरूपं प्रथमत इत्युदाहृतवचनविरोध इत्यर्थः ।। ५२ ।।

इति श्रीमत्सत्यव्रतपूज्यपादशिष्यसत्यप्रज्ञभिक्षुविरचिते

तात्पर्यनिर्णयन्यायदीपिकाभावप्रकाशे एकादशोऽध्यायः ।।