गीता
गीता
दूरेण ह्यवरं कर्म बुद्धियोगाद् धनञ्जय ।
बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ।। ४९ ।।
तात्पर्यम्
बुद्धौ जातायामपि विष्णुमेव शरणमन्विच्छ ।
‘अज्ञानां ज्ञानिनां चैव मुक्तानां शरणं हरिः ।
तं ये स्वैक्येन मन्यन्ते सर्वभिन्नं गुणोच्छ्रयात् ।
कृपणास्ते तमस्यन्धे निपतन्ति न संशयः ।
न तेषामुत्थितिः क्वापि नित्यातिशयदुःखिनाम् ।
गुणभेदविदां विष्णोर्भेदाभेदविदामपि ।
देहकर्मादिषु तथा प्रादुर्भावादिकेऽपि वा ।
स्वोद्रिक्तानां तदीयानां निन्दां कुर्वन्ति येऽपि च ।
सर्वेषामपि चैतेषां गतिरेषा न संशय’ इति नारदीये ।। ४९ ।।
प्रकाशिका
बुद्धौ शरणमित्येतद्व्याचष्टे ।। बुद्धावित्यादिना ।। ४९५१ ।।
न्यायदीपिका
ज्ञानात्कर्माधममित्युक्तं तर्हि ज्ञानस्योत्तमत्वाज्ज्ञानावस्थायामीश्वरैक्यभावनं युक्तमित्याशङ्कापरिहारायोच्यते ।। बुद्धाविति ।। तत्रैतच्छङ्कापरिहारः कथमुक्त इत्यत आह ।। बुद्धाविति ।। अस्मिन्नेवार्थे स्मृतिसंमतिं दर्शयंस्तयैवोत्तरपादमपि व्याचष्टे ।। अज्ञानामिति ।। फलहेतुपद व्याख्यानं तं ये स्वैक्येनेत्यादि पूर्ववत् ।। कृपणाः कृपाविषयाः । तत्र हेतुमाह ।। तमसीति ।।४९।।
किरणावली
ज्ञानात्कर्माधममित्युक्तमिति ।। दूरेण ह्यवरं कर्मेत्यत्रेति शेषः ।। फलहेतुपदव्याख्यानमिति ।। तं ये स्वैक्येनेत्यादिफलहेतुपदव्याख्यानं पूर्ववद्घटनीयमिति शेषः । फलहेतुर्भगवान्मनसा फलहेतवः ईश्वरोहमिति भावनां कुर्वत इति घटनेति भावः । ब्रह्माहमस्मीति ज्ञानिनां तम इत्येतत्कैमुत्येनोपपाद्यते गुणभेदविदामित्यादिना । स्वोद्रिक्तानां स्वोत्तमानाम् ।। ४९ ।।
भावदीपः
पूर्ववदिति ।। मा कर्मफलहेतुर्भूरित्यत्रेव मनसा मन्यन्त इति योज्यमित्यर्थः । तथाचैक्यभावनां ये कुर्वन्तीत्यर्थलाभ इति भावः । यद्वा फलहेतुपदेन कथमैक्यभावनालाभः । येन तस्येदं व्याख्यानमित्यत आह ।। पूर्ववदिति ।। मा कर्मफलहेतुर्भूरितिवदित्यर्थः । फलहेतुरीश्वरः । ये मनसा फलहेतवो भवन्तीत्यर्थः । फलहेतुरीश्वरोऽहमिति मन्यमाना इति पूर्ववदित्यर्थः । कृपाया अविषयास्त इत्यर्थः । यद्वा कृपां प्रति विषयाः शोच्या इत्यर्थः ।
भावप्रकाशः
दूरेणेत्यर्धस्यामनुवदति । ज्ञानात्कर्मेति ।। पूर्ववदिति ।। यथा माकर्मफलहेतुर्भूरित्यत्र कर्मफलहेतुः ईश्वरः समाभूः मनसेत्यर्थमभिप्रेत्य नेश्वरोऽहमिति भावं कुर्विति व्याख्यानं कृतं तद्वत्फलहेतव इत्यस्य मनसेत्यर्थमभिप्रेत्य तं येस्वैक्येनेत्येतव्याख्यानमित्यर्थः ।। मूले स्वोद्रिक्तानां तदीयानामित्यस्य स्वोत्तमानां विष्णुभक्तानामित्यर्थः ।। ४९ ।।
वाक्यविवेकः
तं ये स्वैक्येनेत्यादीति । माकर्मफलहेतुर्भूरित्यत्र मनसेत्यध्याहारेण मा कर्मफलहेतुर्भूरित्यस्य नेश्वरोहमिति तात्पर्यकारीयं व्याख्यानं यथा मनसेत्यध्याहृत्य मूलारूढं कृतं तथा ये स्वैक्येन मन्यन्ते इति प्रमाणकारीयं व्याख्यानमपि मूलारूढं कार्यमिति भावः ।। ४९ ।।