गीता

ब्रह्मैव जगत्कारणम्

गीता

अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते ।

इति मत्वा भजन्ते मां बुधा भावसमन्विताः ।। ८ ।।

तात्पर्यम्

‘भजन्ते माम्’ इत्यनेन जीवेश्वरैक्याशङ्कां निवर्तयति ।। ८ ।।

प्रकाशिका

‘अहं सर्वस्य प्रभवो मत्तस्सर्व प्रवर्तते ।। इति मत्वा भजन्तै मां बुधा इत्यस्याभिप्रायमाह ।। भजन्ते मामित्यनेन ।। ८ ।।

न्यायदीपिका

उक्तार्थे विश्वासोत्पादनार्थं सन्ति च तथा भजन्त इत्युच्यते ।। अहमिति ।। तत्राहं सर्वस्य प्रभव इत्यादिनैव मामित्यस्य सिद्धत्वात्किंपुनर्भजन्ते मामित्युच्यत इत्यत आह ।। भजन्ते मामिति ।। मामित्यनुक्ते जीवेश्वरैक्याभिप्रायेण स्वात्मानमुद्दिश्याहमेव सर्वस्य प्रभव इत्यादि मत्त्वा भजन्त इति प्रतीतिः स्यात् । तन्निवृत्त्यर्थं मामित्युक्तमित्यर्थः ।। ८ ।।

किरणावली

ननु न जीवेन स्वात्मानमुद्दिश्याहं सर्वस्य प्रभव इत्यादि ज्ञातुं शक्यतेऽनुभवविरोधादित्यत उक्तम् ।। जीवेश्वरैक्याभिप्रायेणेति ।। तत्वमस्यादिशास्त्रेण जीवेश्वरैक्यमभिप्रेत्येत्यर्थः

।। ८,९ ।।

भावप्रकाशः

स्वात्मानमिति । जीवात्मानमित्यर्थः ।। ८ ।।

वाक्यविवेकः

मामित्युक्तं इति । भजकाः जीवेश्वरैक्यविवक्षया स्वात्मानं भजन्ते न परमेश्वरमिति प्रतीतिः स्यादिति भावः ।। ८ ।।