गीता
गीता
रसोऽहमप्सु कौन्तेय प्रभास्मि शाशिसूर्ययोः ।
प्रणवः सर्ववेदेषु शब्दः रवे पौरुषं नृषु ।। ८ ।।
तात्पर्यम्
सोऽप्सु स्थित्वा रसयति रसनामा ततः स्मृतः ।
सूर्यचन्द्रादिषु स्थित्वा प्रभानामा प्रभासनात् ।
वेदस्थः प्रणवाख्योऽसावात्मानं यत् प्रणौत्यतः ।
खे स्थितः शब्दनामाऽसौ यच्छब्दयति केशवः ।। ८ ।।
प्रकाशिका
‘‘रसोऽहमित्यादेरर्थमाह ।। सोऽप्सु स्थित्वेत्यादिना ।। ८ ।।
न्यायदीपिका
विष्णुतन्त्रत्वात्सर्वस्यासौ परतर इति विविच्य परतरत्वज्ञानं विज्ञानमित्युक्तम् । तद्विज्ञानमेव सर्वस्य तदधीनत्वप्रदर्शनेनाह ।। स इति ।। अनेन विज्ञानप्रदर्शकं रसोऽहमित्यादि व्याख्यातं भवति । रसयति रसमादत्ते रसं प्रेरयति । प्रभासनात् स्वयं प्रभासमानत्वात् । प्रभाप्रेरणाच्च । प्रणौति स्तौति स्तावकत्वं प्रेरयति च । शब्दयति वक्ति शब्दं प्रेरयति च ।। ८ ।।
किरणावली
विज्ञानप्रदर्शकंरसोहमित्यादीति ।। मत्तोन्यत्परतरं न किञ्चिदपि इदं ज्ञानम् । रसोऽहमिति विज्ञानमिति भाष्योक्तेरिति भावः । भोगश्च विशेषतो रसादेः । रसादिस्वभावानां साराणां च स्वभावत्वे सारत्वे च विशेषतोपि स एव नियामक इति भाष्यं मनसि निधाय द्वेधा व्याचष्टे ।। रसयतीति ।। आदत्ते भुङ्क्ते । शशिसूर्ययोरित्युपलक्षणमित्यभिप्रत्य मूले सूर्यचन्द्रादिष्वित्युक्तम् ।। स्तौतीति ।। णुस्तुताविति धातोरिति भावः ।। स्तावकत्वमिति ।। वेदस्य भगवत्स्तावकत्वमित्यर्थः
।। ८ ।।
भावदीपः
भाष्योक्तदिशाऽह ।। विज्ञानप्रदर्शकमिति ।। ८ ।।
भावप्रकाशः
विशेषतोपि स एव नियामकः । भोगश्च विशेषतो रसादेरिति चेति भाष्यानुसारेण रसयतीत्यादि द्वेधाव्याचष्टे ।। रसमादत्ते रसं प्रेरयतीत्यादिना स्तौतीति । रु स्तुताविति धातोरिति भावः ।। ८ ।।
वाक्यविवेकः
रसयतीति । रसशब्दादादत्त इत्यर्थे प्रेरयतीत्यर्थो वा प्रातिपादिकाद्धात्वर्थेषु बहुलमित्यनेन णिच्प्रत्यये रसयतीति रूपं निष्पन्नमित्यभिप्रेत्य रसयति रसमादत्ते रसं प्रेरयतीति व्याख्यानं कृतम् ।। एवमुत्तरत्रापि विज्ञेयम् ।। ८ ।।