गीता

गीता

कविर्मनीषी परिभूः स्वयम्भूर्याथातथ्यतोऽर्थान्

 व्यदधाच्छाश्वतीभ्यः समाभ्य’ इत्यादिश्रुतेश्च ।। १६ ।।

तात्पर्यम्

‘विश्वं सत्यम्’ । ‘यच्चिकेत सत्यमित्’ ।

न्यायदीपिका

मास्तु भ्रमविषयस्यानिर्वाच्यताऽत्रोच्यत इति । विश्वस्य तु भविष्यति । तत्रासद्वैलक्षण्यस्य सङ्गतत्वात् । सद्वैलक्षण्यं तु बाधान्यथाऽनुपपत्या सिध्यतीत्यतः श्रुतिविरोधान्नेति भावेनाह ।। विश्वमिति ।। विश्वस्य सदसद्विलक्षणत्वं श्रुतिविरुद्धं चेति भावेनाह ।। विश्वमिति ।। यशस्विनाविन्द्राबृहस्पती युवयोर्विश्वं सत्यमेव । कुतः । युवयो सत्यजगत्सृष्ट्यादिकर्म सर्वदेवता अपि जानन्ति । यत इत्याहेत्यर्थः । बल्यादिभ्यः स्पृहणीयं वसु जेता इन्द्रदिभ्यो दाता । ईश्वरो यद्विश्वं चकार तद्विश्वं सत्यमेव न मिथ्येत्यर्थः । सर्वज्ञो मनःप्रेरकः । सर्वतोवरः स्वतन्त्रः परमेश्वरः पदार्थाननन्तकालेऽप्यबाधिततयैवाकरोदित्यर्थः ।। १६ ।।

किरणावली

मघवानौ यशस्विनौ यशोवावमघमिति कर्मनिर्णयोदाहृतश्रुतेः । अच्छेन्द्रा ब्रह्मणस्पतीत्यग्रे श्रवणात् । ब्रह्मणस्पतिशब्दस्य बृहस्पतिपरत्वादिन्द्राबृहस्पती । सत्यमित् सत्यमेव युवोर्युवयोर्व्रतं सत्यजगत्सर्जनादिरूपं कर्म । अप्शब्दः सर्वदेवतावचनः । आपा इत्याप इत्यैतरेये निर्धारितत्वात् । चशब्दोऽप्यर्थः । सर्वदेवता अपि प्रमिनन्ति जानन्ति । स्पार्हं स्पृहणीं वसु स्वर्गादिकम् । श्रुतावुतशब्दौ परस्परसमुच्चये । चिकेत चकार । कविःसर्वर्ज्ञः । रमाब्रह्मादिमनसामीशितृत्वान्मनीषी मनः प्रेरकः । परिभवति सर्वानिति परिभूःसर्वतो वरः । सदानन्याश्रयत्वेन स्वयमेव भवति सत्तादिमानिति स्वयंभूः । स्वतन्त्रः । परमेश्वरः । शाश्वतीभ्यः समाभ्यः शाश्वतीषु समासु । अनन्तकालेऽपि । पूर्वोत्तरावधिरहितकालेऽपि । अत एवेशावास्यभाष्ये । ‘‘अनाद्यनन्तकालेष्वि’’ त्युक्तम् । व्यदधात् वि अदधात् । अबाधिततयैवाकरोदित्यर्थः ।। १६ ।।

भावदीपः

मघवानावित्यस्यार्थो यशस्विनाविति । ‘यशो वा व मघम्’ इति कर्मनिर्णये यशोऽर्थकत्वे मघशब्दस्य श्रुत्युक्तेः । अच्छेन्द्राब्रह्मणस्पती’ इत्यत्र ब्रह्मणस्पतिशब्दार्थो बृहस्पतिरित्युपेत्याह ।। इन्द्रबृहस्पती इति ।। इन्द्राबृहस्पतीति भाव्यम् । ‘‘देवताद्वन्द्वे च’’ इति पूर्वपदस्यानङुक्तेः । ‘युवोरिदापश्चन प्रमिनन्ति व्रतं वाम्’ इति शेषस्यार्थमाह ।। युवयोरित्यादिना ।। युवोः युवयोः । इदित्यस्यार्थ एवेति । व्रतमित्यस्यार्थसत्येत्यादि । आपश्चनेति पदद्वयार्थः । सर्वदेवता अपीति ।। प्रमिनन्ति जानन्ति । ‘तन्न मोघं वसु स्पार्हमुत जेतोत दाता’ इति शेषस्यार्थोक्तिपूर्वमुपात्तपदानामर्थमाह ।। सर्वज्ञ इति ।

भावप्रकाशः

मघवन् यशस्विन् धनवन्निति कर्मनिर्णयं मनसि निधाय मघवाना इत्यस्यार्थमाह ।। यशस्विनाविति । अच्छेन्द्राब्रह्मणस्पती इत्युत्तरार्धगतस्य इन्द्राब्रह्मणस्पती इत्यस्यार्थमाह । इन्द्राबृहस्पतीति ।। इदित्यस्यावधारणार्थस्य सत्यमित्यनेन सम्बन्ध इत्याह सत्यमेवेति । वामित्यस्य प्रतिपदं युवयोरिति । व्रतमित्यस्यार्थमाह । सत्यजगत्सृष्ट्यादिकर्मेति ।

आप इत्येव नामैषां ब्रह्मादीनां कथं भवेत् ।

नामेत्यपृच्छल्लक्ष्मीस्तं महिदासं जनार्दनम् ।।

आप इत्येव नामैषां भवतीत्याह सप्रभुः ।

इत्यैतरेयभाष्यं मनसि निधायाप इत्यस्यार्थमाह । सर्वदेवता इति । चनेत्यस्यार्थो अपीति ।। मिनंतीत्यस्यार्थो जानन्तीति । चिकेतेत्यस्यार्थश्चकारेति । इदित्यस्यार्थो एवेति । नमोघमित्यस्यार्थमाह ।। नमिथ्येत्यर्थ इति ।।

एवंभूतोऽपि सार्वज्ञ्यात्कविरित्येव शब्द्यते ।

ब्रह्मादिसर्वमनसां प्रकृत्या मनसोऽपि च ।।

ईशीतृत्वान्मनीषी स परिभूः सर्वतोवरः ।।

सदाऽनन्याश्रयत्वाच्च स्वयंभूः परिकीर्तितः ।।

स सत्यं जगदेतादृक् नित्यमेव प्रवाहतः ।।

अनाद्यनन्तकालेषु प्रवाहैकप्रकारतः ।।

नियमेनैव ससृजे भगवान्पुरुषोत्तमः

इतीशावास्य भाष्यं मनसि निधायक विरित्यादि व्याचष्टे ।।

सर्वज्ञ इत्यादिना ।। १६ ।।

वाक्यविवेकः

इतःपरं टीकाभेदेन वाक्यद्वयं दृश्यते । एकस्यां टीकायां एतत्प्रतीकग्रहणानन्तरं मास्तु भ्रमविषयस्यानिर्वाच्यताऽत्रोच्यत इति । विश्वस्य तु भविष्यति । तत्रासद्वैलक्षण्यस्य तु सङ्गतत्वात् सद्वैलक्षण्यं तु बाधान्यथानुपपत्या सिध्यतीत्यतः श्रुतिविरोधो नेति भावेनाह ।। विश्वमितीति । टीकांतरेतु एतत्प्रतीकग्रहणानतरं विश्वस्य सदसद्विलक्षणत्वं श्रुतिविरुद्धं चेति भावेनाह । विश्वमितीति । आप इत्यस्यार्थः सर्वदेवता इति । येनेत्यस्यार्थ अपीति । मनीषीत्येत् व्याचष्टे ।। मनः प्रेरक इति । परिभूरित्यस्यार्थमाह ।। सर्वतोवर इति ।। शाश्वतीभ्यः समाभ्य इति पञ्चमी सप्तम्यर्थे इत्यभिप्रेत्य आह ।। अनन्तकालेऽपीति । देशत इतीति ।। १६ ।।