गीता
गीता
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।
अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ।। ४ ।।
अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ।
जीवभूतां महाबाहो ययेदं धार्यते जगत् ।। ५ ।।
एतद्योनीनि भूतानि सर्वाणीत्युपधारय ।
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ।। ६ ।।
तात्पर्यम्
‘अचेतना चेतनेति द्विविधा प्रकृतिर्मता ।
त्रिगुणाऽचेतना तत्र चेतना श्रीर्हरिप्रिया ।
ते उभे विष्णुवशगे जगतः कारणे मते ।
पिता विष्णुः स जगतो माता श्रीर्या त्वचेतना ।
उपादानं तु जगतः सैव विष्णुबलेरिता’ इति ।। ४६ ।।
प्रकाशिका
भूमिरित्यादेरर्थमाह ।। अचेतनेत्यादिना ।। ६ ।।
न्यायदीपिका
प्रतिज्ञातं ज्ञानमुच्यते ।। भूमिरित्यादिना ।। तत्स्मृत्यैव व्याचष्टे ।। अचेतनेति ।। चेतना श्रीरित्यनेन जीवभूतामिति व्याख्यातं भवति । ते उभे इत्यनेन मे प्रकृतिरित्यस्यार्थ उक्तो भवति । एतद्योनीनीत्यस्यार्थो जगत इति । विष्णोरेव जगत्कारणत्वात्कथमेतदित्यत आह ।। पितेति ।। पितृत्वेनैव विष्णुः कारणमित्यर्थः । अनेनाहं कृत्स्नस्येति व्याख्यातं भवति । तर्हि प्रकृत्योः कीदृशं कारणत्वमित्यत आह ।। मातेति ।। अचेतनप्रकृतेरुपादानत्वशक्तिरपि भगवदधीनेत्युच्यते ।। विष्णुबलेरितेति ।। ४६ ।।