तात्पर्यम्
तात्पर्यम्
‘ओहो देहवांश्चैकः प्रोच्यते परमेश्वरः ।
अप्राकृतशरीरत्वाददेह इति कथ्यते ।
शिरश्चरणबाह्वादिविग्रहोऽयं स्वयं हरिः ।
स्वस्मान्नान्यो विग्रहोऽस्य ततश्चादेह उच्यते ।
स्वयं स्वरूपवान्यस्माद्देहवांश्चोच्यते ततः ।
शिरश्चरणबाह्वादिः सुखज्ञानादिरूपकः ।
स च विष्णोर्न चान्योऽस्ति यस्मात्सोऽचिन्त्यशक्तिमान् ।
देहयोगवियोगादिस्ततो नास्य कथञ्चन ।
गुणरूपोऽपि भगवान् गुणभुक्च सदा श्रुतः ।
अहमित्यात्मभोगो यत्सर्वेषामनुभूयते ।
अभिन्नोऽपि विशेषोऽयं सदाऽनुभवगोचरः ।
विशेषोऽपि हि नान्योऽतः स च स्वस्यापि युज्यते ।
नानवस्था ततः क्वापि परमैश्वर्यतो हरेः ।
युक्तायुक्तत्वमपि हि यदधीनं सदेष्यते ।
प्रमाणावगते तत्र कुत एव ह्ययुक्तता’ इत्यादि परमश्रुतिः ।
न्यायदीपिका
नन्वीश्वरस्यदेहसद्भावे श्रुतिविप्रतिपत्तेस्तत्संदेह एव स्यात्कुतो निश्चयस्तत्सद्भावस्येत्यतः श्रुत्यन्तरेण तद्व्यवस्थां दर्शयति ।। ओह इति ।। स्वरूपवान् स्वरूपभूतदेहवान् । सुखज्ञानादिरूपकः । अस्तीति सम्बन्धः । ततश्च देहवानुच्यत इत्यनुषज्यते । देहदेहिनोरैक्यमन्यत्रादृष्टं कथं युज्यत इत्यत आह ।। सचेति ।। ननुसुखज्ञानादि रूपो देहो विष्णोरनन्यश्चेत्तदा तस्य सुखादिगुणरूपत्वं प्रसज्यते । न च तद्युज्यते । आनन्दभुगित्यादावानन्दभोक्तृत्वस्योक्तत्वात् । एकस्य च भोक्तृभोग्यभावादर्शनादित्यत आह ।। गुणेति ।। दृष्टोप्ययमभिन्ने भोक्तृभोग्यभावः किं निमित्त उपपद्यत इत्यत आह ।। अभिन्नेपीति ।। अस्ति । तेनाभिन्नेपि भोक्तृभोग्यभाव उपपद्यत इति शेषः । विशेषसद्भाव एव कुत इत्यत आह ।। अयमिति ।।
नन्वयं विशेषोऽविशेषितोऽन्योऽनन्योवा । आद्ये भेदपरंपरयाऽनवस्था । द्वितीये विशेषविशेषिभावव्यवहारायोगः । तत्रापि विशेषाङ्गीकारेऽनवस्थेत्यत आह ।। विशेषोपीति ।। विशेषो विशेषितोऽनन्य इति न भेदपरंपरयाऽनवस्था । स एव विशेषो यथा भिन्नेपि वस्तुनि भोक्तृभोग्यभावनिर्वाहकः तथा विशेषितो भेदरहितस्यापि स्वस्य विशेषत्वं विशेषिणो विशेषित्वं च निर्वहतीति न विशेषपरंपरयाप्यनवस्थेत्यर्थः । इतोप्येकस्यैवहरेर्भोक्तृभोग्यभावो युक्त इत्याह ।। परमेति ।। अभिन्नस्यैव स्वस्य भोक्तृभोग्यभावेऽनुपपत्तिं परिहर्तु हरेरैश्वर्यं कुत इत्यत आह ।। युक्तेति ।। युक्तायुक्तत्वं वस्तुनोरिति शेषः । तत्रेश्वरे । तर्हीश्वरे दुःखित्वाद्यपि कल्प्यतामयुक्तयभावादित्यत उक्तम् ।। प्रमाणेति ।। एकस्यैव भोक्तृभोग्यत्वादिकं प्रमाणावगतत्वाद्विरुद्धमप्यैश्वर्यबलादङ्गीकार्यं नान्यत् । तस्याप्रामाणिकत्वादितिभावः ।।
किरणावली
श्रुतिविप्रतिपत्तेरिति ।। अपाणिपादो जवनो गृहीता बाहूराजन्यःकृतः पद्य्भां भूमिरित्यादि श्रुतिविप्रतिपत्तेरित्यर्थः । मूले ओहत्वं जडशरीराभावेन भिन्नशरीराभावेन चोपपाद्यदेहवत्त्वं स्वरूपदेहवत्त्वेन ज्ञानानन्दात्मक देहवत्त्वेन चोपपाद्यत इति भावेनाह ।। ततश्च देहवानुच्यत इत्यनुषज्यत इति ।। स चेत्यादावेकश्च शब्दस्तस्मादित्यर्थे अन्यो नैवान्योस्तीत्यवधारणे यत्र देहदेहिभावस्तत्र नैक्यं यत्रैक्यं गगनेन तत्र देहदेहिभाव इति परस्परविरुद्धयो समावेशः कथमित्यतोऽणुत्वमहत्त्वसमावेशवदचिन्त्यशक्तयोपपद्यत इति भावः । ततोनास्येत्यस्य तत एवैक्यादेव अन्यथा देहयोगवियोगौ प्रसज्येते इति भावः ।। दृष्टोपीति ।। अहमित्यादावनुभवसिद्धोपीत्यर्थः । विशेषोऽयं सदानुभवगोचर इत्यस्यायमर्थः । अहमर्थस्तावदात्मातिरिक्तो नानुभूयते । अस्ति च मामहंजानामीत्यबाधितः कर्तृत्वकर्मत्व रूपवैलक्षण्यानुभवः । सच तत्प्रतिनिधिमवगमयति । तथाच नात्मा कर्तृत्व मात्रं नापि कर्मत्वमात्रमिति विशेषोऽनुभवगोचर इत्यर्थः ।।
इतोप्येकस्यैव हरेर्भोक्तृभोग्यभावो युक्त इति ।। प्राक् देवदत्तः फलं भुङ्क्त इत्यादि भोक्तृभोग्यभावे सर्वत्र भेदो निमित्तं दृष्टम् । तस्य भेदकार्यत्वात् । अभिन्ने भोक्तृभोग्यभावः किं निमित्तः । अकारणकार्योत्पत्त्ययुक्तेरित्यतः पदार्थगतो भेद प्रतिनिधिर्योविशेषस्तन्निमित्त इत्युक्तम् । इदानीं तु भेदप्रतिनिधि विशेषेण भोक्तृभोग्यभावे अभेदेन तत्प्रतिरोधः किं न स्यात् । अभेदस्य कार्याकरत्वे अभेद एव न स्यादित्याशङ्कापरिहारायेतोप्येकस्यैव भोक्तृभोग्यभावो न युक्तिविरुद्ध इत्याहेत्यर्थः । हरौपरमैश्वर्यतोभिन्नोपि भोक्तृभोग्यभाव उपपद्यत इति प्रागध्याहृतेन संबन्धः । अभेदो न भेदकार्यं विशेषकृतं भोक्तृभोग्यभावापर्यायशब्दव्यवहारादिकं निरुणद्धि ईश्वराचिन्त्यशक्तेरुत्तेजकस्य सद्भावात् । नचाभेदो निरर्थकः । भेदकार्यप्रतिबन्धं विना आनन्दो ब्रह्म विज्ञानमानन्दं ब्रह्मेत्यादि सामानाधिकरण्यव्यवहारादि कार्यकरत्वादभेदाभावे विशेषस्यैवानवताराच्चा भेदे प्रमिते भेदकार्येच प्रमिते तद्भलात्तस्य कल्प्यत्वादिति भावः । एतेन विशेषेण घटनीयेऽर्थे अचिन्त्यशक्तिकल्पनाऽयुक्ता । अन्येनाघटित एवार्थेऽचिन्त्यशक्तेर्वाच्यत्वादिति निरस्तम् ।। युक्तायुक्तत्वं वस्तुनोरिति शेष इति ।। रूपरससामानाधिकरण्यं युक्तं गोत्वाश्वत्वसामानाधिकरण्यमयुक्तमिति युक्तायुक्तत्वमित्यर्थः ।
भावदीपः
श्रुतीति ।। ‘अरूपमव्ययम्,’ ‘अशरीरः प्रज्ञात्मा’ इत्यादिश्रुतिविगानादेवेत्यर्थः । ‘स च’ इति पृथगारम्भाद्वाक्यसमाप्त्यर्थमाह ।। अस्तीतिसम्बन्ध इति ।। विशेषपदानन्तरमस्तीत्यादिपदाध्याहारेण योजनामाह ।। अस्तीत्यादिना ।। विशेषित इति ।। विशेषवत इत्यर्थः ।। भेदपरम्परयेति ।। विशेषविशेषिणोर्भेदः स्वाश्रयाभ्यां विशेषविशेषिभ्यां भिन्नः । सोऽपि भेदः स्वाश्रयभूतभेदिभ्यां भिन्न इत्येवं भेदपरम्परयेत्यर्थः । तत्रेत्यनुवादः ईश्वर इति व्याख्या ।
भावप्रकाशः
श्रुतिविप्रतिपत्तेरिति । अपाणिपादो जवनो गृहीता, सहस्रशीर्षा पुरुष इति विप्रतिपत्तेरित्यर्थः ।
वाक्यविवेकः
देहदेहिनोरिति । यद्यपि देहिनोरैक्यमन्यत्र प्रमाणदृष्टं तथापि प्राचुर्येण दर्शनं नास्तीत्यभिप्रायेणान्यत्र दृष्टमित्युक्तम् । अथवा पूर्वपक्षिणां देहदेहिनोरैक्यस्य क्वाप्यनङ्गीकारादेवमुक्तमिति बोध्यम् । हरेरैश्वर्यं कुत इति । अनुपपत्तिं परिहर्तं शक्तमैश्वर्य• कुतः प्रमाणात् सिद्धमित्यर्थः ।