गीता

गीता

पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् ।

कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ।। २२ ।।

तात्पर्यम्

‘पुरुषः प्रकृतिस्थः’ इत्यत्र पुरुषशब्दो जीवे । उभयोरपि पुरुषशब्देन पूर्वं प्रस्तुतत्वात् । यथायोग्यमुपपत्तेः । कार्यकरणसम्बन्धं भोगं च मिथ्येति वदतां निवारणायाऽह । ‘पुरुषः प्रकृतिस्थो हि’ इति । हीत्यनुभवविरोधं दर्शयति तेषाम् । न हि ज्ञानाज्ञानसुखदुःखादिविषयस्याऽन्तरानुभवस्य भ्रान्तित्वं क्वचिद् दृष्टम् । नचास्य मिथ्यात्वे किञ्चिन्मानम् । शरीरमारभ्यैव ह्यपरोक्षभ्रमो दृष्टः । तत्रापि बलवत्प्रमाणविरोधादेव भ्रान्तित्वं कल्प्यम् । साक्षिसिद्धस्यापि भ्रान्तित्वाङ्गीकारे येन सर्वस्य भ्रान्तित्वमभ्रान्तित्वं चाऽत्मनोऽवगतं तदपि प्रमाणमात्मैव । व्यवहारतोऽप्यस्तीत्यत्र प्रमाणाभावाद् भ्रान्तिरभ्रान्तिर्वा न किञ्चित् सिद्ध्यति ।

प्रकाशिका

‘‘पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणानि’’त्यस्यार्थमाह ।। पुरुषः प्रकृतिस्थ इत्यादिना ।। अत्र प्रकृतिजगुणभोक्ता पुरुषो योग्यतया जीव एव । प्रकृतिं पुरुषं चेति पूर्वं जीवस्यापि प्रकृतत्वात् ।। जीवस्य भोक्तृत्वादिकं मिथ्येति यत् कैश्चदुच्यते तदनेन भुङ्क्ते ही त्यनुभवसिद्धनिर्देशेन निराकृतं भवति ।। अनुभवसिद्धस्य दुःखादेर्मिथ्यात्वे मिथ्या सर्वं सत्य आत्मा इत्यस्यार्थस्योप्यनुभवसिद्धत्वेन मिथ्यात्वापातात् ।। इदं मिथ्या इदं सत्यं इत्ययमर्थो न सिध्येत् ।। वस्तुत्वेनाविद्यमानोऽपि व्यावहारिकतयाऽयमर्थः सिध्द्यतीत्यस्यापि अनुभवसिद्धत्वे । पूर्ववदप्रामाण्यादित्यर्थः ।।

इतोऽपि दुःखाद्यनुभवस्य भ्रान्तत्वं न युज्यते इत्याह ।। अनुभव इत्यादिना ।। अनुभवस्य भ्रान्तत्वे न अनुभवः प्रमाणम् ।। तस्य भ्रान्तित्वात् ।। नचानुमानादिकं तत्र प्रमाणम् ।। तत्साधका भावात् ।। न च व्यवहारस्तत्साधक इति वाच्यम् ।। व्यवहारसाधकाभावात् ।। न च प्रतीतिस्तत्साधिकेति वाच्यम् ।। प्रतीतिसाधकाभावात् ।। न च स्वानुभवः तत्साधक इति वाच्यम् ।। स्वानुभवस्य भ्रान्तत्वे प्रतीत्यभावेऽपि प्रतीतिभ्रमसम्भवात् ।। स्वानुभवस्याभ्रान्तत्वे स्वात्मनोऽनुभवस्यापि भ्रमत्वोपपत्तेः ।। दुःखित्वादिभ्रमान्यथानुपपत्त्या तदधिष्ठानभूतात्माऽस्तीत्येतत्तर्कानुभवस्यापि भ्रमत्वोपपत्तेः ।। भ्रमविषयत्वेनात्मप्रमाणमात्रस्याप्यप्रमाणत्वमेवेति न किञ्चित् सिध्द्यतीत्याह ।। स्वभाव इत्यादिना ।।

इतोऽपि मायावादे नात्मास्तित्वं सिध्द्यतीत्याह ।। सुखदुःखेत्यादिना ।। यथा बाह्यार्थेषु शुक्त्यादिषु रजतादिभ्रमस्य मनोवृत्तिरूपस्याविद्याकार्यत्वम् अत एव मिथ्यात्वं चाङ्गीकृतं मायावादिना, एवं दुःखाद्यज्ञानादिविषयस्यात्मरूपस्यानुभवस्य भ्रमत्वेऽविद्याकार्यत्वेन मिथ्यात्वमभ्युपगम्यते ।। ततः प्रकटशून्यवादित्वं मायावादिनः स्यादित्यर्थः ।। अविद्यातत्कार्यविलक्षणतया घटयितुमशक्यत्वेन दुर्घटाऽपि आत्मनोऽस्तिता वक्तुं शक्या ।। श्रुतिसिद्धत्वादिति यद्युच्यते तर्हि दुःखादिप्रपञ्चः सुघटो वाऽस्तु न मिथ्येत्युच्यताम् ।। प्रमाणसिद्धत्वात् ।। स्वमतसमर्थनाशक्ततया दुर्घटत्वं भूषणमङ्गीकुर्वतोऽविद्याया आत्मत्वं दुर्घट भूषणतया स्वीकर्तव्यं स्यात् ।। न तु परित्याज्यम् ।। तदाह ।। दुर्घटत्वमित्यादिना ।। २२ ।।

न्यायदीपिका

यद्यत्र पुरुषपदं जीवपरं तर्हि पुनरुक्तिः स्यात् । जीवस्य कार्यकारणकर्तृत्व इत्यनेनोक्तकार्यकारणसम्बन्धस्यैव प्रकृतिस्थपदेनोक्तेः । सुखदुःखानां भोक्तृत्व इत्यनेनोक्तसुखदुःखादिभोगस्यैव भुङ्क्ते प्रकृतिजान्गुणानित्युक्तत्वादित्यत आह ।। कार्येति ।। कार्यकारणसम्बन्धस्य सुखादिभोगस्य च प्रागुक्तत्वेऽपि तन्मिथ्यात्ववादिनां निरासाय पुरुषः प्रकृतिस्थो हीत्युक्तत्वान्न पुनरुक्तिदोष इति भावः । निराकरणस्य प्रमाणसापेक्षत्वात्तदनुक्त्वोक्ताभिधानमात्रेण कथं निराकरणमित्यत आह ।। हीति ।। अत्र कार्यकारणसम्बन्धस्य सुखादिभोगस्य च हिशब्देनानुभवप्रसिद्धिकथनेन तन्मिथ्यात्ववादिनामनुभवविरोधस्य दर्शितत्वान्नैतदुक्ताभिधानमात्रमिति भावः ।

अहं सुखी दुःखीत्याद्यनुभवस्य भ्रान्तित्वसम्भवात्सुखादिभोग्यमिथ्यात्वाङ्गीकारे कथं तद्विरोध इत्यत आह ।। नहीति ।। सुखादिविषयानुभवो न भ्रमः । आन्तरार्थानुभवत्वात् । आन्तरार्थानुभवस्य भ्रमत्वादर्शनादिति भावः । बाधकाभावाच्च नायमनुभवो भ्रम इत्याह ।। नचेति ।। नन्वात्मादौ जैनादीनां मध्यमपरिमाणत्वादिज्ञानस्य भ्रमत्वदर्शनात्कथमान्तरार्थानुभवत्वादभ्रमत्वमुच्यत इत्याशङ्कां परिहरन् व्याप्तिमाह ।। शरीरमिति ।। नात्रान्तरानुभवत्वमेव हेतुर्येन व्यभिचारः स्यात् । अपित्वपरोक्षत्वविशिष्टम् । अपरोक्षानुभवस्य च बहिरेव भ्रमत्वदर्शनादान्तरानुभवस्य तदभावः सिद्ध्यति । जैनादीनां चानुमानादिनैव मध्यमपरिमाणत्वादिभ्रम इति भावः । बाधकाभावेऽपि सुखाद्यनुभवस्य भ्रमत्वं किं न स्यादित्यत आह ।। तत्रापीति ।। यत्र बहिरर्थानुभवस्य भ्रमत्वं तत्रापि बलवत्प्रमाणविरोधादेव तत्कल्प्यते । अतः सुखादिविषयानुभवस्य बाधकाभावेनाभ्रमत्वं युक्तमिति भावः ।

इतश्च न सुखादिविषयानुभवस्य भ्रमत्वेन सुखादेर्मिथ्यात्वं वाच्यमित्याह ।। साक्षीति ।। साक्ष्यनुभवसिद्धस्यापि सुखादेर्भ्रान्तिकल्पितत्वे सर्वं मिथ्या, आत्मा सत्य इति व्यवस्थाऽपि न सिध्द्यति । एतद्व्यवस्थाया अपि साक्ष्यनुभवसिद्धत्वेन मिथ्यात्वापातादिति भावः ।। भ्रान्तित्वमभ्रान्तित्वमिति ।। भ्रान्तिकल्पितत्वमभ्रान्तिकल्पितत्वमित्यर्थः । सर्वं मिथ्या आत्मा सत्य इति व्यवहारत एवास्ति । न तु परमार्थतोऽतस्तदसिद्धिर्नानिष्टेत्यत आह ।। व्यवहारत इति ।। व्यवहारत एवेयं व्यवस्थाऽस्तीत्यपि न सिध्द्यति । साक्षिणोऽप्रामाण्ये तत्र प्रमाणाभावादिति भावः । किञ्च साक्ष्यनुभवस्याप्रामाण्ये स्तंभादौ स्थाण्वादिमनोवृत्तिर्भ्रान्तिः । स्तंभादिमनोवृत्तिरभ्रान्तिरित्यपि न सिद्ध्यति । साक्षिण एव ज्ञानस्य भ्रान्तित्वग्राहकत्वात् । तदसिद्धौ च व्यवहारमात्रं च न सिद्ध्यतीति भावेनाह ।। भ्रान्तिरिति ।। एतेन सर्वं मिथ्या आत्मा सत्य इति व्यवस्था व्यवहारतोऽस्तीत्येतदागमादिना सिध्यतीत्येतदपि निरस्तम् । आगमादिप्रामाण्यस्यापि साक्षिग्राह्यत्वात् । साक्षिसिद्धस्येत्यादेरेकग्रन्थत्वे भ्रान्तिरित्यस्य साध्याभिधानपरतया तच्छेषत्वं ज्ञातव्यम् ।

किरणावली

यद्यत्रेति ।। पुरुषः प्रकृतिस्थो हीत्यत्रेत्यर्थः ।। प्रकृतिस्थपदेनेति ।। प्रकृतिकार्यशरीरेन्द्रियसम्बद्ध इति तदर्थाङ्गीकारादिति भावः । कार्यकारण सम्बन्धं भोगं चेति मूलस्य कार्यकारणसम्बन्धं शरीरेन्द्रियसम्बन्धं सुखदुःखादिभोगं च मिथ्येति मिथ्यात्वप्रकारं प्राप्तं वदतामित्यर्थः । अन्यथाकार्यकाणसम्बन्धो भोगश्च मिथ्येति वदतामिति निर्देशः स्यात् ।। अत्र कार्यकारणसम्बन्धस्येति ।। कार्यकारणसम्बन्धस्य तत्कर्तृत्वरूपस्य सुखादिभोगस्य दुःखादिभोगस्य सुखादेस्तद्भोगस्य चानुभवसिद्धत्वकथनेन मत्कर्मनिर्मितोऽयं देहादिः । सुखी दुःखी चाहं सुखाद्यनुभवंश्चाहमित्यनुभवसिद्धत्वकथनेन तन्मिथ्यात्ववादिनां शरीरेन्द्रिय तत्कर्तृत्वादीनां सुखादेः तैः प्रातिभासिकत्वाङ्गीकाराददर्थ ज्ञानरूपस्य दुःखादेः तदनुभवस्य च मिथ्यात्ववादिनामित्यर्थः । यद्यपि तन्मते सुखादिकं प्रातिभासिकं साक्षिभास्यमिति तदनुभवो न मिथ्या । तथापि संसृष्टत्वरूपेण मिथ्यात्वमिति भावः ।। भ्रान्तित्वसम्भवादिति ।। सुखादेः प्रातिभासिकत्वेन भ्रान्तित्वसम्भवात्सुखादिभोगस्य सुखाद्यनुभवस्यापि प्रातिभासिकार्थसंसृष्टत्वेन रूपेण मिथ्यात्वाङ्गीकारे कथं तद्विरोध इत्यर्थः ।।

सुखादिविषयानुभव इति ।। आदिपदेन दुःखमात्मनः शरीरेन्द्रियकर्तृत्वं च गृह्यते । तथा च सुखदुःखशरीरेन्द्रियकर्तृत्वविषयोऽनुभवः । तदनुभवविषयानुभवश्चेत्यर्थः । तेन ज्ञानाज्ञानसुखदुःखादिविषयस्येति मूले ज्ञानपदमादिपदं च विवृतं भवति । अज्ञानग्रहणं तु यथान्तरार्थानुभवस्य न भ्रमत्वं तथेति दृष्टान्तार्थे । यद्वा भावरूपाविद्यायामहमज्ञो मामन्यं च न जानामीत्यनुभवस्य प्रमाणतया स्वीकृतत्वात् । सुखादिविषयस्य भ्रान्तित्वे विद्यापरोक्षस्यापि तत्प्रसज्यत इत्यतिप्रसङ्गस्य च सूचनाय तद्ग्रहणम् । क्वचिदित्यनेनाव्यभिचरितं तत्प्रामाण्यमिति सूचयति ।। बाधकाभावाच्चेति ।। न केवलमनुमानलक्षणसाधकसद्भावाद्बाधकाभावाच्चेत्यर्थः । न चास्य मिथ्यात्व इति मूले मिथ्यात्वेऽऽर्थव्यभिचारित्वे इत्यर्थः । आन्तरार्थानुभवत्वहेतोर्व्यभिचारं शङ्कते ।। नन्वात्मादाविति ।। आत्मनि जैनानां मध्यमपरिमाणत्वज्ञानस्य नैयायिकानां विभुत्वज्ञानस्याहंप्रत्ययवेद्ये आत्मनि लोकायतानां देहाभेद ज्ञानस्य आदिपदोपात्ते सुखदुःखादौ नैयायिकानामात्मसमवेतत्वज्ञानस्य साक्षिप्रत्यक्षसिद्धेमनस्यतीन्द्रियत्वज्ञानस्येत्यादि गृह्यते ।। बहिरेवेति ।। शरीरमारभ्य बहिरेवेत्यर्थः ।। अनुमानादिनेति ।। आदिपदेन तत्तदागमग्रहणम् । सुखादिविषयानुभवो न भ्रमः । बाधकशून्यत्वादित्यनुमानेऽऽप्रयोजकत्वं शङ्कते ।। बाधकाभावेति ।। यत्र बहिरर्थेऽनुभवस्येति ।। यत्र बहिरर्थे शुक्तयादौ रजताद्यनुभवस्य भ्रमत्वं, तत्रापि बलवत्प्रमाणविरोधादेव भ्रान्तित्वं कल्प्यते । न तु प्रमाणबाधं विना बहिरर्थानुभवमात्रस्य भ्रान्तित्वं कल्प्यतेऽतः सुखादिविषयानुभवस्य बाधकाभावेनाभ्रमत्वं युक्तम् । अन्यथा बाह्यार्थानुभवमात्रस्य भ्रान्तित्वप्रसङ्ग इति भावः ।। इतश्च न सुखादिविषयानुभवस्येति ।। तर्कान्तरबाधितत्वाच्चेत्यर्थः । मूले साक्षिसिद्धस्यापि भ्रान्तित्वाङ्गीकारे इत्यापादकस्यापाद्याभावादापादकांशं व्याकुर्वन्नापाद्यमध्याहरति ।। साक्ष्यनुभवसिद्धस्येत्यादिना ।। यदि साक्ष्यनुभवसिद्धस्य सुखादेर्मिथ्यात्वं स्यात्तर्हि सर्वं मिथ्या आत्मा सत्य इति व्यवस्थापि मिथ्या स्यादिति तर्कस्य व्याप्त्यभावात्तर्काभासोऽयमित्यतः प्रवृत्तस्य येन सर्वस्येति वाक्यस्य तात्पर्यमाह ।। एतद्व्यवस्थाया अपि साक्ष्यनुभवसिद्धत्वेनेति ।। एतद्व्यवस्थायाः ‘‘सत्यं ज्ञानमनन्तं ब्रह्म’’ ‘‘नेह नानास्ति किञ्चने’’ति श्रुतिसिद्धत्वेऽपि तत्प्रामाण्य व्यवस्थापनद्वारा साक्ष्यनुभवसिद्धत्वेन मिथ्यात्वप्रसङ्गः अविशेषादिति भावः । भ्रान्तिरभ्रान्तिर्वा न किञ्चित्सिध्यतीति वाक्यं सुखादिविषयस्य साक्ष्यनुभवस्य भ्रमत्वे तर्कान्तरविरोधप्रदर्शकत्वेन व्याचष्टे ।। किञ्चेत्यादिना ।। स्तंभादौ स्थाण्वादिमनोवृत्तिरिति ।। शिलास्तंभादौ स्थावरस्थाण्वादिमनोवृत्तिरित्यर्थः । भ्रान्तित्वमप्रामाण्यम् ।

नन्वप्रामाण्यस्य ज्ञानग्राहकातिरिक्तग्राह्यत्वात्कथमेतदिति चेन्न । केवलस्य साक्षिणः प्रामाण्यग्राहकत्वं विसंवादसहकृतस्य तु साक्षिणो प्रामाण्यग्राहकत्वमित्यङ्गीकारेण साक्ष्यनुप्रवेशात् । यद्वा । इदमप्रमाणं विसंवादित्वादित्यप्रामाण्यग्राहकयुक्तिजानुभवप्रामाण्यग्राहकस्य साक्षिण एवान्ततो प्रामाण्यव्यवस्थापकत्वादेवमुक्तिरिति ज्ञेयम् ।। तदसिद्धौ चेति ।। भ्रान्त्यभ्रान्तिव्यवस्थासिद्धौ लोके व्यवहारमात्रं अभिज्ञाभिलपनप्रवृत्तिलक्षणं न सिध्यतीत्यर्थः । एतच्च न किञ्चिदित्यस्य तात्पर्यकथनं द्रष्टव्यम् ।। एतेनेति ।। साक्षिण एव प्रामाण्यग्राहकत्ववचनेनेत्यर्थः । व्यवस्थायाः पारमार्थिकत्वे मिथ्यासत्यभेदस्यापि पारमार्थिकत्वप्रसङ्गेन भेदमात्रनिषेधकागमादिविरोधात् । भेदासामान्यस्यापारमार्थिकत्वपरं श्रुत्यादिकमेव तद्व्यावहारिकत्वे प्रमाणमिति भावः । एवं साक्षिसिद्धस्यापीत्यारभ्य प्रमाणाभावादित्यन्तं वाक्यं सुखादिविषयस्य साक्ष्यनुभवस्य भ्रमत्वे मिथ्यासत्यव्यवस्थाभावापादकतया भ्रान्तिर्वेति वाक्यं ज्ञानप्रामाण्याप्रामाण्यव्यवस्थाभावाद्यापादकतया स्वयं व्याख्यातम् । अधुना साक्षिसिद्धस्यापीत्यारभ्य न किञ्चित्सिद्ध्यतीत्यन्तवाक्यानामेक वाक्यत्वमिति प्राचीनटीकापक्षे भ्रान्तिरभ्रान्तिर्वेति वाक्यं कथं योज्यमित्यत आह ।। साक्षिसिद्धस्येत्यादेरेकग्रन्थ(वाक्य)त्वे भ्रान्तिरित्यस्येति ।। एकवाक्यत्वपक्षे भ्रान्तिरिति वाक्यस्य यदि साक्षिसिद्धस्यापि मिथ्यात्वं स्यात्तर्हि किञ्चिदिदमात्मातिरिक्तं तत्सर्वं भ्रान्तिर्भ्रान्तिकल्पितं मिथ्या किञ्चिदात्माख्यमभ्रान्तिरभ्रान्तिकल्पितं सत्यमिति न सिद्ध्यतीति साध्याभिधानपरतया तच्छेषत्वं ज्ञातव्यम् । येन सर्वस्येत्यादिकस्य साक्षिसिद्धत्वाविशेषोपपादकतया व्यवहारत इत्यस्यापाद्यस्पष्टत्व शङ्कानिवर्तकतया तच्छेषत्वं व्याख्यानद्वयेऽपि तुल्यमिति भावः । तथा च प्राचीनटीकायाम् अनुभवसिद्धस्य दुःखादेर्मिथ्यात्वे मिथ्या सर्वं सत्य आत्मेत्यस्यार्थस्याप्यनुभवसिदद्धत्वेनेदं मिथ्येदं सत्यमित्ययमर्थोन सिद्ध्येत् । वस्तुतोऽविद्यमानोऽपि व्यावहारिकतया यमर्थः सिद्ध्यतीत्यस्यानुभवासिद्धत्वेन पूर्ववदप्रामाण्यादित्यर्थः । इति न किञ्चित्सिद्ध्यतीह्यन्तवाक्यार्थमुक्त्वा इतोऽपि दुःखानुभवस्य भ्रान्तित्वं न युज्यत इत्याह । अनुभव इत्यादिनेत्युत्तरवाममेव दूषणान्तरपरतयावतारितं न तु टीकायामिव भ्रान्तिरभ्रान्तिर्वेति वाक्यमपि दूषणान्तरपरतयावतारितमित्यनुसन्धेयम् ।।

भावदीपः

शङ्कते ।। यद्यत्र पुरुषपदमित्यादिना ।। उक्ताभिधानमात्रेणेति ।। प्रागुक्तस्य पुनः कथनमात्रेणेत्यर्थः । अनुकूलतर्कमाह ।। आन्तरार्थानुभवस्येति ।। बहिरेवेति ।। शुक्तिरूप्यादिस्थल एवेत्यर्थः ।। तत्रेति ।। व्यवहारतो व्यवस्थाऽस्तीत्यत्र प्रमाणाभावादित्यर्थः ।। तदसिद्धाविति ।। भ्रान्त्यभ्रान्तिव्यवस्थासिद्धावित्यर्थः ।। आगमादिप्रामाण्यस्यापीति ।। तज्जन्यज्ञानप्रामाण्यस्यापीत्यर्थः।। इत्यादेरिति ।। न किञ्चित्सिद्ध्यतीत्यन्तस्येत्यर्थः।। साध्येति ।। आपाद्याभिधानपरतयेत्यर्थः।।

भावप्रकाशः

अन्तरार्थानुभवत्वहेतोर्व्यभिचारं शङ्कते ।। नन्वात्मादाविति । आत्मनितद्धर्मेषु चेत्यर्थः ।। मध्यमपरिमाणत्वादिज्ञानस्येति । जैनानां देहपरिमाणत्वज्ञानस्य जैनादीत्यादि पदवाच्यनैय्यायिकानामात्मनि विभुत्वज्ञानस्य तद्धर्मेषु चतुर्विंशतित्वज्ञानस्य चेत्यर्थः ।। सर्वस्य भ्रान्तिरूपत्वस्य परेणानङ्गीकारादाह ।। भ्रान्तिकल्पितत्व इति ।। व्यवहारमात्रं चेति ।। अनेन किञ्चिद्वित्येतत् व्याख्यातं भवति ।। साक्षिसिद्धस्येत्यादेरिति ।। साक्षिसिद्धस्यापीत्यारभ्य नकिञ्चित्सिध्यतीत्यन्तस्येत्यर्थः ।। साध्याभिधानपरतयेति । भिन्नवाक्यत्वेतु साध्यमध्याहार्यमिति भावः ।।

वाक्यविवेक

कथमनेन व्यभिचारपरिहार इत्यत आह नात्रेति ।। साक्षिसिद्धस्यापीति वाक्यं सर्वं मिथ्या आत्मा सत्य इति व्यवस्थितिर्न सिध्यतीत्यापाद्याध्याहारेण योजयति । साक्ष्यनुभवसिद्धस्यापीति । कुतो व्यवस्था सिध्यतीत्यापाद्याध्याहारेण योजयति साक्ष्यनुभवसिद्धस्यापीति कुतो व्यवस्था न सिध्यतीत्यत आह । एतद्व्यवस्थाया इति ।।

Load More