गीता

गीता

अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः ।

परं भावमजानन्तो ममाव्ययमनुत्तमम् ।। २४ ।।

नाहं प्रकाशः सर्वस्य योगमायासमावृतः ।

मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ।। २५ ।।

तात्पर्यम्

अव्यक्तः परमात्माऽसौ व्यक्तो जीव उदाहृतः ।

मन्यते यस्तयोरैक्यं स तु यात्यधरं तमः’ इति च ।। २४, २५ ।।

प्रकाशिका

अव्यक्तमित्यस्यार्थमाह ।। अव्यक्त इति ।। २४,२५ ।।

न्यायदीपिका

अथ केचन द्वेषिणोऽपि सन्तीत्युच्यते ।। अव्यक्तमिति ।। तदर्थं पूर्ववदेतेषां फलस्यानुक्तत्वात् फलं च स्मृत्यैवाह ।। अव्यक्त इति ।। एवं सर्वप्रेरकत्वादिमहिमवांश्चेद्भगवांस्तत्कथं भगवतः केचिज्जीवाभेदं मन्यन्त इत्यतो वैतदुच्यते । सर्वात्मनाज्ञेयत्वाभ्यां जीवेश्वरयोर्व्यक्ताव्यक्तत्वम् ।। २४,२५ ।।

किरणावली

तदर्थमिति ।। तदर्थं फलं च स्मृत्यैवाहेत्यन्वयः । फलोक्तौ हेतुः पूर्ववदिति । त्रैविद्यानां भागवतानां च देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपीति यथा फलमुक्तं तद्वदेषां फलस्यानुक्तत्वादित्यर्थः । यद्यप्यज्ञात्वा देवयजस्तमो यान्तीति फलमुक्तम् । तथाप्यज्ञानावस्थायां तमसोऽभावाद्विपरीतनिश्चयदशायाञ्च व्यक्तं व्यक्तिमापन्नमित्यत्र प्रतिपादनात् पर्यवसानमपेक्ष्यैव तु फलं प्रागुक्तम् । न तु स्पष्टमिति भावः । प्रकारान्तरेण गीतामवतारयति ।। एवंसर्वप्रेरकत्वादीति ।। रसोहमित्याद्युक्तप्रकारेण रसादिप्रेरकत्वादित्यर्थः । नन्वीश्वरवज्जीवोप्यव्यक्तः । सर्वेषां सर्वजीवज्ञानाभावात् । किञ्चेश्वरोपि जीव इव व्यक्त एव । अन्यथा मोक्षायोगादित्यत आह ।। सर्वात्मनेति ।। साकल्येनेत्यर्थः

।। २४२५ ।।

भावदीपः

केन हेतुना जीवेश्वरौ व्यक्ताव्यक्तशब्दवाच्यावित्यत आह ।। सर्वात्मनेति

।। २४,२५ ।।

भावप्रकाशः

सर्वात्मनेति । साकल्येनेत्यर्थः ।। २४२५ ।।