गीता
गीता
मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम् ।
संभवः सर्वभूतानां ततो भवति भारत ।। ३ ।।
तात्पर्यम्
‘योनिर्भार्या तथा स्थानं योनिः कारणमेव च’ इति शब्दनिर्णये ।
अत्र योनिर्भार्या ‘तस्मिन् गर्भं दधाम्यहम्’ इति वाक्यशेषात् ।। ३ ।।
प्रकाशिका
‘क्षेत्रक्षेत्रज्ञसंयोगात् तद्विद्धी’’ति यदुक्तं तदिदं स्पष्टयति मम योनिर्महद्ब्रह्म तस्मिन्गर्भदधाम्यहम् इत्यनेन ।। तथा स्थानमिति गुह्यस्थानमित्यर्थः ।। ३ ।।
न्यायदीपिका
परं भूयः प्रवक्ष्यामीति प्रतिज्ञातमुच्यते ।। मम योनिरिति ।। तत्र योनिशब्दस्य कारणार्थत्वप्रतीतिनिरासाय भार्याद्यर्थत्वे प्रमाणमाह ।। योनिरिति ।। स्थानं गुह्यस्थानम् । अस्त्वेवं योनिशब्दो भार्याद्यनेकार्थः । प्रकृतः किमर्थ इत्यत आह ।। अत्रेति ।। योनिशब्दस्यानेकार्थत्वात्कथमयमेवार्थ इत्यत आह ।। तस्मिन्निति ।। ३ ।।
भावप्रकाशः
ममयोनिर्मम मातेति प्रतीतिनिरासायेत्यर्थः ।। अथवा मम स्वरूपभूता योनिः कारणं विश्वस्येति परोक्तरीत्या प्रतीतिनिरासायेत्यर्थः ।। ३ ।।