गीता
गीता
त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन ।
निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ।। ४५ ।।
तात्पर्यम्
त्रैगुण्याख्यं विषं यापयन्ति अपगमयन्तीति त्रैगुण्यविषयाः ।
‘आश्रित्य वेदांस्तु पुमांस्त्रैगुण्यविषहारिणः ।
निस्त्रैगुण्यो भवेन्नित्यं वासुदेवैकसंश्रय’ इति च ।
‘सत्त्वं साधुगुणाद्विष्णुरात्मा सन्ततिहेतुत’ इति च ।
सन्ततविष्णुस्मरणं नित्यसत्त्वस्थत्वम् । परमात्मा मम स्वामीति ज्ञानमात्मवत्त्वम् । तेनैक्यज्ञानं निवारयति । विरुद्धयोगक्षेमेच्छावर्जितः । अन्यथोत्थानादेरप्ययोगात् ।। ४५ ।।
न्यायदीपिका
प्रतिज्ञातो ज्ञानोपाय उच्यते ।। त्रैगुण्येति ।। तत्र वेदानां त्रैगुण्यविषयत्वात्तान्परित्यज्य निस्त्रैगुण्यो भवेत्यन्यथाप्रतीतिनिरासायाह ।। त्रैगुण्येति ।। यापयन्तीत्यस्य प्रापयन्तीत्यन्यथाप्रतीतिनिरासायाह ।। अपगमयन्तीति ।। प्रतीत एवार्थः किं न स्यादित्यतः स्वोक्तार्थे स्मृतिसंमतिमाह ।। आश्रित्येति ।। सत्त्वस्थत्वं सात्विकत्वम् । आत्मवत्त्वं मनस्वित्वमित्यन्यथाप्रतीतिनिरासाय सत्त्वात्मशब्दार्थं स्मृत्यैवाह ।। सत्वमिति ।। सन्ततिः सम्यग्व्याप्तिः । सत्त्वं विष्णुश्चेत्तत्स्थत्वं स्वाभाविकं किं विधीयत इत्यत आह ।। सन्ततेति ।। न तदाधारतयाऽवस्थानमात्रमत्र विवक्षितमिति भावः । आत्मा विष्णुश्चेत्तद्वत्त्वं स्वाभाविकं न विधेयमित्यत आह ।। परमात्मेति ।। नतु तत्सम्बन्धमात्रमिति भावः । सत्त्वस्थपदेनैवास्यार्थतः प्राप्तत्वात्किं पुनरुच्यत इत्यत आह ।। तेनेति ।। सततं विष्णुस्मरणमात्रविधावैक्येनापि तत्स्मरणं प्राप्यते । अत आत्मवत्त्वकथनेन तन्निवार्य यथावत्स्मरणप्रकार उच्यत इति भावः । अप्राप्तप्राप्तिर्योगः । प्राप्तपरिरक्षणं क्षेमः । तदुभयं सर्वथा त्याज्यमित्यन्यथाप्रतीतिनिरासायाह ।। विरुद्धेति ।। न केवलं शास्त्रविरुद्धविषययोगक्षेमपरित्यागमात्रमत्र विवक्षितम् अपितु तदिच्छात्यागोपीति भावेनेच्छेत्युक्तम् । प्रतीत एवार्थः किं न स्यादित्यत आह ।। अन्यथेति ।। उत्थानादीनामप्यप्राप्तप्राप्तिरूपत्वेन योगत्वात् । ततश्च योगमातिष्ठोत्तिष्ठेत्यादिविरोध इति भावः ।। ४५ ।।
किरणावली
प्रतिज्ञात इति ।। योगेत्विमां शृण्विति प्रतिज्ञात इत्यर्थः ।। स्वाभाविकं किं विधीयत इति ।। एतेन गीतायां भवेत्यस्य निर्द्वन्द्वो भव नित्यसत्वस्थो भवेत्यादिरूपः सम्बन्ध इत्युक्तं भवति ।। यथावत्स्मरणप्रकार इति ।। स्वस्वामिभाव सम्बन्धरूपेण स्मरण प्रकार इत्यर्थः ।। न केवलं शास्त्रविरुद्धविषयेति ।। शास्त्रविरुद्धविषयश्चासौ योगक्षेमपरित्यागश्चेति विग्रहः । त्यजतेः सकर्मकत्वात् । अन्यथाशास्त्रविरुद्धयोगक्षेमेत्येतावता पूर्तेर्विषय पदवैयर्थ्यं च ।। ४५ ।।
भावदीपः
स्वाभाविकं विधीयत इति ।। तच्चायुक्तमित्यत आहेति योज्यम् । किं विधीयत इति पाठे तु यथाश्रुतमेव ।। अस्येति ।। तद्वशत्वस्येत्यर्थः ।। योगमातिष्ठोत्तिष्ठेत्यादिविरोध इति ।। चतुर्थाध्यायोक्तगीतावाक्यविरोध इत्यर्थः ।। ४५ ।।
भावप्रकाशः
प्रतिज्ञात इति । योगे त्विमां श्रुण्वित्यादिनेनेत्यर्थः ।। ४५ ।।
वाक्यविवेकः
मूले विषं यापयन्तीति । विषशब्दोपपदात् यातेः कप्रत्यय इति भावः । मूले सत्वं साधुगुणादिति । सच्छब्दात् मतुप् मादुपधाया इति मकरस्य वकारः ।। निर्वचनत्वात् मतुपस्तकारलोपे सत्त्वमिति रूपमिति भावः।। मूले आत्मा सन्ततीति आङ्पूर्वात् तनोतेडर्मनिन्निति भावः ।।४५।।