तात्पर्यम्
तात्पर्यम्
न च जीवेश्वरैक्यं मुक्तावपि ।
‘इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः ।
सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च’ ।
‘यो वेद निहितं गुहायां परमे व्योमन् ।
सोऽश्नुते सर्वान्कामान्सह ब्रह्मणा विपश्चिता’ ।
‘एतमानन्दमयमात्मानुपसङ्क्रम्य ।
इमान् लोकान् कामान्नी कामरूप्यनुसञ्चरन् ।
एतत्सामगायन्नास्ते’ ।
‘सर्वे नन्दन्ति यशसा गतेन
सभासाहेन सख्या सखायः ।
किल्बिषस्पृत्पितुषणिर्ह्येषामरं
हितो भवति वाजिनाय’ ।
प्रकाशिका
परं न यत्पदमिति ।। यस्मात्परं स्थानं नास्तीत्यर्थः ।। तदेतत्सिद्ध्यर्थं मुक्तौ जीवेश्वरयोरैक्यम् ‘इदं ज्ञान’मित्यादि भगवद्वचनैर्निषेधति ।। न च जीवेति ।।
न्यायदीपिका
ननु मुक्तानां नित्य चिदानन्दात्मकदेहसद्भाव एव कुत इत्यत आह ।। नवर्तत इति ।। अपरे दोषाः । सुपेशसः सुरूपाः । उन्मिषन्मणिप्रवेशनिष्काभरणाः स्फुरद्रत्नप्रवरहाराभरणाः । सुवर्चसः सुकान्तिमन्तः । अत्र जडाभावमुक्त्वा तेषां शरीरोक्तेरर्थाच्चिनन्दात्मकदेहवत्त्वं ज्ञायते ।
नन्वेतानि वाक्यानि गौणमोक्षपराण्येव । मुख्यमुक्तौ जीवेश्वरयोरैक्येनैतदनुपपत्तेरित्यत आह ।। नचेति ।। कुतोनेत्यतो मुख्यमोक्षानन्तरमपि भेदस्य श्रुतिस्मृति सिद्धत्वादित्याह ।। इदमिति ।। अत्रा पुनरावृत्तिश्रवणान्मुख्यमोक्षत्वं ज्ञायते । न केवलं मुक्तानामीश्वराद्भिन्नतया व्यथाद्यभावमात्रमपितु भिन्नतयैव परमानन्दानुभवोऽप्यस्तीति भावेनाह ।। योवेदेति ।। एतद्वाक्ययोः परब्रह्मप्रकरणगतत्वान्मुख्यमोक्षपरत्वम् । अन्योन्यं सखायस्ते सर्वे मुक्ताः । स्वावगतेन यशोरूपेण ब्रह्मादिसभां सहमानेनेश्वरेण निमित्तेन नन्दन्ति । कथं यतोऽसौ एषामनिष्टस्पर्धी दिव्यान्नदाता सन्निन्द्रियाय हितो भवतीत्यर्थः । अत्राप्यनिष्टाभावश्रवणान्मुख्यमोक्षविषयत्वम् ।
किरणावली
न वर्तते यत्रेति भागवतवाक्यस्य यत्र लोके रजस्तमश्च तयोस्ताभ्यां मिश्रं सत्वं च नास्ति नापि कालविक्रमः कालसामर्थ्यं तत्कृतो विकार इति यावत् । यत्र च माया सुधानुसारेण प्रकृतिरेतद्ग्रन्थानुसारेणाविद्या च नास्ति । अपरे सुधानुसारेण महदादयः । एतद्ग्रन्थानुसारेण कामादयो दोषाश्च न सन्तीति किमु । यत्र च हरेरनुव्रताः ब्रह्मादयो वर्तन्ते । कीदृशा इत्यतः सुरासुरार्चिता इत्यादिविशेणानि । असुराश्च बाणवृषपर्वादयः साधवः सन्ति । तेषामौपाधिकैतद्भावापगमानन्तरं मुक्तौ तैरर्चिता इति भावः । अवदाता निर्मलाः । सुरुचः सूर्यवत्सुप्रभाः । सुपेशसःशोभनावयवाः सुरूपा इति यावत् । सुवर्चस इत्यस्य सुरुच इत्यनेनापौनरुक्तयायोक्तं सुकान्तिमन्त इति । सुधायान्तु वर्चोबलमित्युक्तम् । यश्चलोकः सविद्युदभ्रावलिभिर्नभ इव विद्योतमानाः प्रमदोत्तमायासुता विद्योतमानप्रसदोत्तमास्ताभिर्भ्राजिष्णुभिर्लसद्विमानावलिभिः परिवृतः सर्वत्र विराजते । यद्वा विद्योतमानाश्चताः प्रमदोत्तमाश्च ताभिर्निमित्तभूताभिर्लसद्भिर्विमानावलिभिरिति योज्यम् । तं लोकं सन्दर्शयामासेति पूर्वेणान्वयः । तस्मै स्वलोकं भगवान्सभाजितः सन्दर्शयामास परं नयत्पदमित्युक्तत्वात् । केषां विमानावलिभिः । महात्मनाम् । कीदृशानां प्रवालादिवर्चसाम् । पुनःकीदृशानां परिस्फुरत्कुण्डलमौलयश्च ते मालिनश्च तेषामिति विग्रहः । यद्वा परिस्फुरन्त्यः कुण्डलमौलिमाला येषां सन्ति तेषामित्यर्थः ।।
अत्र जडाभावमुक्त्वेति ।। ननु ताभ्यां मिश्रं सत्त्वं नास्तीत्युक्तया शुद्धं सत्वमस्तीत्युक्तप्रायत्वात् । कथं जडाभावोक्तिरतश्च तदात्मकदेहत्वं च प्राप्यते । अङ्गीकृतं च भगवता बादरायणेन भावं जैमिनि र्विकल्पाम्नानादिति । तत्कथं चिदानन्दात्मकदेहवत्त्वेऽर्थादपीदं प्रमाणं स्यादिति चेत् एतच्चोद्यपरिहाराय सुधायां तयोः सत्वं च मिश्रमित्यस्य प्रकारान्तरेण व्याख्यातत्वात् । तथाच तद्वाक्यानि । सत्वशब्दोऽनेकार्थः । क्वचित्प्रकृतिपरिणामविशेषस्य वाचकः । क्वचित्साधुत्वस्य । तत्र सत्त्वं न वर्तत इत्युक्ते न ज्ञायतेकस्य प्रतिषेध इति । अतस्तयो रजस्तमसोर्मिश्रं सहचरितमित्युक्तम् । रज आदिप्रकरणाज्ज्ञास्यत इति चेन्न । श्रुत्यभावे प्रकरणाद्यन्वेषणात् । अत्र रजः प्रभृतीनामवृत्तिर्नामबन्धकतया व्यापाराभाव इति । तथा च सत्त्वं नास्तीत्युक्तसाधुभावो नास्तीति प्रतीतिवारणाय गुणत्रयप्रविष्टसत्त्वगुणप्रतिषेधोऽत्र क्रियत इति ज्ञापनाय तयोर्मिश्रं सत्त्वं नास्तीत्युक्तत्वेनास्य शुद्धसत्त्वाभ्यनुज्ञाने तात्पर्याभावस्य सुधावाक्यसिद्धत्वात् । संसारिणामिव मुक्तानां बन्धकजडमात्राभावमुक्त्वा देहोक्तावप्राकृतदेहवत्त्वमनेन सिध्द्यतीति किमनुपपन्नम् । अबन्धकस्य लीलोपात्तस्य शुद्धसत्त्वात्मकस्य देहस्य सद्भावेऽप्यत्र तद्विवक्षाभावात् । स्पष्टं च प्रमाणमुक्तम् ।।
चिदानन्देति ।। तदन्तर्बह्विरेव चेत्यत्र सायुज्यभाजस्तदन्तर्बहिश्च तत्रापि मुक्तौ ब्रह्मणस्तदन्तरेव कैश्चिद्रूपैः स्थित्वैव रूपान्तरैर्बहिश्च । वायुर्विष्णुं प्रविश्यैवेत्युक्तत्वात् । येन सा युज्यभाजस्ते बहिरेवेति योज्यम् ।। एतद्वाक्ययोरिति ।। यो वेदेति आनन्दमयमिति वाक्ययोरित्यर्थः । ‘‘ब्रह्मविदाप्नोति पर’’मित्युपक्रमेण परब्रह्मप्रकरणगतत्वावगमादिति भावः ।।
अन्योन्यमिति ।। अन्योन्यं सखायस्ते अक्षण्वन्तःकर्णवन्तः सखाय इत्यादिना प्रकृताः । सर्वे सागरे मग्नाः । कक्षगताः ऐरह्रदवासिनः सर्वे मुक्ताः । आगतेन स्वावगतेन । मनोजवेष्वसमा बभूवुरित्याद्युक्तरीत्या यथायोग्यं स्वस्वावगतेन । यशसा यशोलक्षणगुणस्वरूपेण । यद्यपि यशःकीर्तिशब्दौ दिक्षु यानाद्यशोव्याप्तं कीर्तिः प्रत्यक्षतः स्तुतिरिति वचनाद्गुणकथनपरौ । तथाप्यत्र कथ्यमानगुणपरत्वं ज्ञेयम् । सभां सहत इति सभासहः । ब्रह्मादिसभां सहमानेन । स्वोपकारकत्वात् सख्येश्वरेण निमित्तेन नन्दन्ति । कथं हि यतोऽसावीश्वरः एषां मुक्तानाम् । किल्बिषस्पृत् अनिष्टस्पर्धी स्पर्धतेरर्थेस्पृदिति धात्वन्तरम् । अरम् अलं पूर्णं दिव्यमिति यावत् । पितुमन्नं सनोति ददातीति पितुषणिः । अन्नं वै पितुरिति श्रुतेः । षणु दाने दिव्यान्नदाता सन् वाजिनाय इन्द्रियं वै वाजिनमिति श्रुतेरिन्द्रियाय हितो भवतीत्यर्थ इति भावः ।
भावदीपः
जडाभावमुक्त्वेति ।। न वर्तत इत्यादिनेति भावः ।। शरीरेति । ‘श्यामावदाताः’ इत्यादिनेति ज्ञेयम् ।। एतद्वाक्ययोरिति ।। ‘यो वेद’ इति, ‘आनन्दमयम्’ इति वाक्ययोः ‘ब्रह्मविदाप्नोति परम्’ इत्युक्तपरब्रह्मप्रकरणगतत्वादित्यर्थः ।। यशोरूपेणेति ।। यशोनामकरूपेणेत्यर्थः। ‘तस्य नाम महद्यशः’ इति श्रुतेः ।। ईश्वरेणेति ।। सख्येति योज्यम् । ‘किल्बिषस्पृत्पितुपणिर्ह्येषामरंहितो भवति वाजिनाय’ इति शेषार्थमाह ।। यतोऽसाविति ।।
भावप्रकाशः
नवर्तत इति मूलस्यायमर्थः ।। यत्र लोके सत्वशब्दोऽनेकार्थः ।। क्वचित् प्रकृतिपरिणामविशेष वाचकः । क्वचित्साधुत्वस्य । तत्र सत्वं न वर्तत इत्युक्तेन ज्ञायते कस्य प्रतिषेध इति । अतस्तयोरजस्तमसो मिश्रं सहचरितमित्युक्तम् ।। रजआदिप्रकरणात् ज्ञायत इति चेत् ।। श्रुत्यभावे प्रकरणाद्यन्वेषणात् । रजःप्रभृतीनामप्रवृत्तिर्नाम बन्धकतया व्यापाराभावः । कालविक्रमः कालसामर्थ्यकृतो भावविकारः । माया प्रकृतिः अपरे इत्येतत् अपरे महदादयो न वर्तन्त इति किमु वक्तव्यमिति ।। सुधायां व्याख्यातमत्र प्रकारान्तरेण व्याचष्टे ।। अपरेदोषा इति ।। हरेरनुवृता यत्र वर्तन्ते असुराः साधवः सन्ति । अवदाताः निर्मलाः सुरुचः सुप्रभाः । सुपेशस इत्येतद्व्याचष्टे ।। सुपेशसः सुरूपा इति । वर्चो बलमिति सुधायां व्याख्यातम् ।। अत्र प्रकारान्तरेण व्याचष्टे ।। सुवर्चसः सुकान्तिमन्त इति । हरेरनुव्रता इत्यनेन सम्बन्धः ।। यो लोके एवंविधानां महात्मनां लसद्विमानावलिभिः परितो विराजते ।। केचित् प्रवालवर्चस इत्यादि परिस्फुरत्कुण्डल मौलयश्च ते मालिनश्चेति विग्रहः ।। यद्वा परिस्फुरंत्यश्च ताः कुण्डलमौलिमालाश्चेति कर्मधारयं विधाय पश्चादिनिरुत्पाद्यः विद्योतमानाः । प्रमदोत्तमायासु विमानावलिषु तास्तथोक्तास्ताभिः । यद्वा विद्योतमानाभिः प्रमदोत्तमाभिः भ्राजिष्णुभिरिति योजना ।। प्रमदोत्तमाविद्युतः विमानावलयो भ्रावलय इति ।। अर्थादिति ।। ननु चिदानन्दशरीरिणेत्यत्रेव मुखात इत्यर्थः ।। श्रुतिस्मृतिसिद्धत्वादिति ।। मूले भारतस्य वेदोत्तमत्वादादावुदाहरणेऽपि वेदस्यापौरुषेयत्वादत्र श्रुतिस्मृतिसिद्धत्वादित्युक्तमिति भावः ।। अत्रापुनरावृत्तिश्रवणादिति ।। सर्गेऽपि नोपजायन्त इत्यादिना जननादिरूपपुनरावृत्यभावश्रवणादित्यर्थः ।।
योवेदेति मूलस्यायमर्थः ।। गुहायां हृदये । व्योमन् व्योमि्न ब्रह्मणा सहेति भेदोक्तिः । न च ब्रह्मणा ब्रह्मरूपेण सर्वान्कामान्सह युगपदश्रुत इति व्याख्येयम् ।। ब्रह्मात्मकत्वमाप्तस्य कामावाप्त्यनङ्गीकारात् ।। सर्वभेदनिवृत्त्युपलक्षणमेतदिति चेन्न । लक्षणाप्रयोजनाभावादिति ।
एतमानन्दमयमिति मूलस्यार्थः ।। आनन्दमयस्य परब्रह्मत्वं त्वन्यत्र निर्णीतम् ।। उपसंक्रम्येति समीपप्राप्त्युक्तया भेदः प्रतीयते ।। इमान् लोकाननुसञ्चरन्निति सम्बन्धः ।। काम्यत इति कामः । कामश्च तदन्नं चेति विग्रहः ।। कामेनेच्छया लभ्यमन्नमिति वा ।। एतत्वक्ष्यमाणमिति ।। सर्वे नन्दति यशसा गतेन सभासाहेन सख्यासखायः । किल्बिषस्पृत् पितुषणिर्ह्येषामरं हितो भवति वाजिनायेति मन्त्रं व्याचष्टे ।। अन्योन्यं सखाय इत्यादिना । आगतेनेत्येतत्व्याचष्टे । स्वावगतेनेति । स्वागतेनेति क्वचित्पाठः ।। तत्र सुष्टु आगतमागमनं यस्य तथोक्तस्तेनेत्यर्थः ।। यशसेत्यस्यार्थो यशोरूपेणेति । सभां सहत इति विग्रहमभिप्रेत्य तदर्थमाह । ब्रह्मादिसभामिति । सख्येत्यस्यार्थ इश्वरेणेति । हीत्यस्यार्थो यत इति ।। येषामित्यस्य प्रतिपदमेषामिति । किल्बिषस्पृदित्यस्यार्थोऽनिष्टस्पर्धेति । स्पर्धतेरर्थे स्पृधेति धात्वंतरम् । पितुं सनोतीति व्युत्पत्तिं मनसि निधाय तदर्थमाह । दिव्यान्नदातेति । अन्नं वैपितुरिति श्रुतेः । षणुदाने । अलमित्यार्थकस्यारमिति पदस्य पितुषणिरित्यनेन सम्बन्धमभिप्रेत्य दिव्यान्नेत्युक्तम् ।। वाजिनायेत्यस्यार्थः इन्द्रियायेति । इन्द्रियं वै वाजिनमिति श्रुतेः ।
वाक्यविवेकः
जडाभावमुक्त्वेति । देहकारणीभूतजडाभावमुक्त्वेत्यर्थः । अपुनरावृत्तिश्रवणादिति । सर्गेऽपि नोपजायन्त इत्यपुनरापुनरावृतिश्रवणादित्यर्थः ।। परब्रह्मप्रकरणगतत्वादिति । ब्रह्मविदाप्नोतित्युपक्रान्तपरब्रह्मप्रकरणगतत्वादित्यर्थः । आगतेनेत्यस्यार्थमाह । स्वावगतेनेति । ब्रह्मादिसभां हमानेसहैनेति । ब्रह्मादिसमूहैरपि जेतुमशक्येनेत्यर्थः । किल्बिस्पृदिति व्याचष्टे । अनिष्टस्पर्धेति । पितुषणिरित्यस्यार्थमाह । दिव्यान्नादातेति । वाजिनाय हितो भवतीत्यस्यार्थमाह । इन्द्रियायेति ।