भगवानुवाच

भगवानुवाच—

प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान् ।

आत्मन्येवाऽत्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ।। ५५ ।।

तात्पर्यम्

‘सर्वकामनिवृत्तिस्तु जानतो न कथञ्चन ।

 अनिषिद्धकामितैवातो ह्यकामित्वमितीर्यते ।

 अपरोक्षदृशोऽपि स्याद्यदा नास्त्यपरोक्षदृक् ।

 क्वचिद्विरुद्धकामोऽपि यथाऽयुध्यद्धरो हरिम् ।

 अतोऽनभिभवो यावद्दृशस्तावन्निगद्यते ।

 स्थितप्रज्ञस्तथाप्यस्य कादाचित्क्यपि या दृशिः ।

 नियमेनैव मोक्षाय भवेद्योग्या भवेद्यदि ।

 अयोग्या भक्तिजाता चेत्क्रमान्मुक्त्यै भवेत्तथा’

न्यायदीपिका

ज्ञानिलक्षणमुच्यते ।। प्रजहातीति ।। तत्र ज्ञानिनः सर्वकामप्रहाणं नाम निषिद्धानिषिद्धसर्वकामप्रहाणमित्यन्यथाप्रतीतिनिरासाय तत्स्मृत्यैव व्याचष्टे ।। सर्वेति ।। कुतो न ज्ञानिनः सर्वकामनिवृत्तिः यतः सर्वशब्दसंकोचः क्रियत इत्यत आह ।। अपरोक्षेति ।। ज्ञानिनः कदाचिन्निषिद्धकामनिवृत्तिरपि नास्ति । कुतः सर्वकामनिवृत्तिरित्यर्थः । तर्हि ज्ञानस्याभिभवकाले ज्ञानिलक्षणाभावाज्ज्ञानित्वाभावः प्रसज्यत इत्यतः सत्यमित्याह ।। अत इति ।। निषिद्धकामराहित्यस्य ज्ञानानभिभवकाल एव सत्वादित्यर्थः । ननु यदि कदाचित् दृशिरभिभूयते तर्हि सा न मोक्षसाधनं स्यात् । कादाचित्कतया दौर्बल्यादित्यत आह ।। तथापीति ।। योग्या स्वबिम्बविषया । आत्मन्येवात्मनेत्यात्मशब्दौ जीवमनःपरावित्यन्यथाप्रतीतिनिरासायाह ।। आत्मनीति ।। कुतो न जीवादिपरावित्यत आह ।। तुष्ट इति ।। अत्रात्मस्थित्यादिना तुष्ट्यभिधानाज्जीवस्थित्यादिना तदसम्भवान्न तत्परावात्मशब्दाविति भावः ।। ५५ ।।

किरणावली

सत्यमित्याहेति ।। नन्वेवं सत्यनभिभूतज्ञानवत्त्वं लक्ष्यतावच्छेदकमभि भूतज्ञानेषु लक्षणाभावेपि नाव्याप्तिरित्युक्तं स्यात् । एतदयुक्तम् । गीताभाष्ये प्रायः सर्वकामान् जहाति शुकादीनामपीषद्दर्शनादिति प्रायेण विरुद्धकामप्रहाणस्य लक्षणत्वेनोक्तत्वादिति चेन्न । इहापीषद्विरुद्धकामवतामीषत्तिरोहितब्रह्मणां लक्ष्यत्वमङ्गीकृत्य कदाचिद्बहुतरविरुद्धकामाभिनिवेशवतां तत्काले सर्वथाऽपरोक्षज्ञानवर्जितानामलक्ष्यत्वमङ्गीकृत्यप्रायः सर्वकामवर्जनलक्षणाभावेप्यदोष इति विवक्षितत्वात् । अत एव यथा युध्द्यद्धरो हरिमित्युदाहृतम् । अस्यार्थस्य भाष्येपि संमतत्वात् । यदा रुद्रादीनामाग्रहो दृश्यते तदाभिभूतं तेषां ज्ञानमिति ।। कादाचित्कतयेति ।। सार्वकालिकत्वाभावेनेत्यर्थः । न तु दृशेः कादाचित्कत्वं मन्तव्यम् । कदाचिद्दृशिरभिभूयत इत्युक्तत्वात् । कादाचित्क्यपिया दृशिरित्यस्य कदाचिदभिभवेन सर्वकालीनापि या दृशिरित्यर्थः । यद्वाल्पकानां कादाचित्की या दृशिः सापि मोक्षाय भवेत् किमुवक्तव्यं देवानां सर्वकालीना कदाचिदभिभववतीति कैमुत्यन्यायेन देवानां कदाचित्तिरोभाववतां मोक्षोपपादनायायं ग्रन्थो योज्यः ।।

योग्यास्वबिम्बविषयेति ।। अत्र बिम्बशब्देन नित्योपाध्या स्वरूपया चिद्रूपया युतो जीवः केशवप्रतिबिम्बकः । रूपं रूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणायेत्याद्युक्तं हृद्गतं बिम्बरूपमुच्यते । व्याप्तरूपाद्युपासकानामपि हृदये किञ्चित्कार्यमेवेति ऋग्भाष्ये निर्णीतत्वात् । स एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षत इति श्रुतौ उपदेशो ब्रह्मणस्तु सर्वेषामेव मुक्तये इत्यनुव्याख्याने । ज्ञानं प्राप्य बहुभ्योपि नर्ते मुक्तिश्चतुर्मुखादित्येकादशतात्पर्येचावश्यकतयोक्त चतुर्मुखोपदेशप्राप्तापरोक्षज्ञानस्य हृद्गतबिम्बविषयत्वस्य स्फुटप्रतिभासत्वाच्चेति केचित् । अन्येत्वत्रबिम्बपदेन स्वयोग्यरूपमेवोच्यते न तु बिम्बरूपापरोक्ष्यस्यावश्यकत्वमित्याहुः । अयोग्या भक्तिजाताचेदित्यत्रायोग्यपदेन न सामान्यादप्युपलब्धेरित्युक्तं सामान्यदर्शनमुच्यते ।। आत्मस्थित्यादिनेति ।। आत्मस्थितिर्नामपरमात्मैकाग्रचित्तत्वमादिपदेन विषयवैराग्यं गृह्यते । तथाचात्मन्येव विष्णावेव मनसा स्थितः । न तु विषयेष्वभिनिवेशवानिति मूलार्थ उक्तो भवति ।। ५५ ।।

भावदीपः

तुष्टपदस्य मूलेऽनुवादो व्यर्थ इत्यतस्तस्य कृत्यमाह ।। कुतो न जीवादिपरावित्यादिना ।।

भावप्रकाशः

अपरोक्षदृशोपि क्वचिद्विरुद्धकामोऽपि स्यात् । क्वचिदित्युक्तमेव विवृणोति ।। यदा नास्त्यपरोक्षदृगिति ।। यदापरोक्षज्ञानमभिभूतं तदेत्यर्थः ।। विरुद्धकाममेवोदाहरति ।। यथेति ।। इति योजनां मनसि निधाय वाक्यतात्पर्यमाह ।। ज्ञानिनः कदाचिदिति ।। समोपि भगवान् स्वबिम्बदर्शन एवैनं मोचयतीति श्रुतिं मनसि निधायाह । स्वबिम्बविषयेति ।। स्वयोग्यरूपविषयेत्यर्थः । दृष्ट्यैव ह्यवताराणां मुच्यन्ते केचिदंजसेति वचनात् ।। ५५ ।।

वाक्यविवेकः

ज्ञानित्वाभाव इति । ज्ञानीतिशब्देन व्यवहार्यत्वं न स्यादित्यर्थः । शब्दव्यवहारोहि लक्षणज्ञानफलम् । ततश्च लक्षणाभावे ज्ञानं न स्यात् । तदभावे च तत्फलात्मको व्यवहारो न स्यादिति भावः । ज्ञानेनाभिभवकाल एवेति । व्यवहारकाले नियमेन सत्त्वात् ज्ञानीति व्यवहारजनकं निषिद्धकामवर्जनं ज्ञानिलक्षणं भवत्येवेति भावः । कादाचित्कतयेति । कदाचित्काभिभवावच्छिन्नतया दुर्बलत्वात् अभिभूतशक्तिकत्त्वादित्यर्थः । यदि अपरोक्षदृशिः कदाचिदभिभूता स्यात् तर्हि तदिया मोचनशक्तिरप्यभिभूता स्यात् । ततश्च यस्या दृष्टेरभिभवः साऽभिभूतशक्तित्त्वात् मोक्षसाधनं न स्यादिति भावः । आत्मस्थित्त्यादिनेति । आत्मस्थित्त्यात्मभ्यां तुष्ट्यभिधानात् जीवस्थितिमनोभ्यां तुष्ट्यसम्भवात् । आत्मशब्दौ न जीवमनःपरावित्यर्थः ।। ५५ ।।

Load More