गीता
गीता
साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः ।
एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् ।। ४ ।।
यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते ।
एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ।। ५ ।।
तात्पर्यम्
बालास्तु न्यासशब्देन यत्याश्रममेव स्वीकृत्य तत्स्थानामेव साङ्ख्यशब्दोदितज्ञानाधिकारो गृहस्थानामेव योगशब्दोदितकर्माधिकार इति मन्यन्ते । तन्न पण्डिता मन्यन्ते । कुतः ? यस्माज्ज्ञानमार्गं कर्ममार्गं च सम्यागास्थितः उभयोरपि फलं प्राप्नोति ।।
तस्माज्ज्ञानिनां कर्माप्यनुष्ठेयम् । कर्मिणामपि गृहस्थानां ज्ञातव्यो भगवान् । न हि ज्ञानं विना कर्मणः सम्यगनुष्ठानं भवति ।
‘निष्कामं ज्ञानपूर्वं च निवृत्तमिह चोच्यते ।
निवृत्तं सेवामानस्तु ब्रह्माभ्येति सनातनम् ।
बुद्ध्याऽविहिंसन्युष्पैर्वा प्रणवेन समर्चयेत् ।
वासुदेवात्मकं ब्रह्म मूलमन्त्रेण वा यतिः ।
मुक्तिरस्तीति नियमो ब्रह्मदृग्यस्य विद्यते ।
तस्याप्यानन्दवृद्धिः स्याद्वैष्णवं कर्म कुर्वतः ।
कर्म ब्रह्मदृशा हीनं न मुख्यमिति कीर्तितम् ।
तस्मात्कर्मेति तत्प्राहुर्यत्कृतं ब्रह्मदर्शिना ।
एतस्मान्न्यासिनां लोकं संयान्ति गृहिणोऽपि हि ।
ज्ञानमार्गः कर्ममार्ग इति भेदस्ततो न हि ।
तस्मादाश्रमभेदोऽयं कर्मसङ्कोचसम्भव’ इति व्यासस्मृतेः ।। ४,५ ।।
प्रकाशिका
साङ्ख्येत्यस्यार्थमाह ।। बाला इति ।। उक्तमर्थं प्रमाणैर्द्रढयति ।। निष्काममित्यादिना ।। ५ ।।
न्यायदीपिका
अथासावधिकारभेदोऽपि न युज्यत इत्युच्यते ।। साङ्ख्येति ।। दुर्गमार्थत्वाच्छ्लोकं व्याचष्टे ।। बाला इति ।। ज्ञानमार्गं सम्यगास्थित एव ज्ञानफलं प्राप्नोति । कर्ममार्गं च सम्यगास्थित एव कर्मफलं प्राप्नोतीत्यर्थः ।।
ज्ञानैकगम्ययतिप्राप्यस्थानप्राप्तिसद्भावाच्च गृहिणां ज्ञानाधिकारोऽस्तीत्युक्त्वोपसंह्रियते ।। यदिति ।। तत्रैकं साङ्ख्यमित्युपसंहारवाक्ये ज्ञानकर्मणोरैक्यं किमर्थमुच्यत इत्यतो यथावद्व्याचष्टे ।। तस्मादिति ।। ज्ञानिनां यतीनामिति शेषः । ननु सम्यक्कर्मानुष्ठानेनैव कर्मी कर्मफलं प्राप्नोति चेत्तथापि कुतस्तस्य ज्ञानमित्यत आह ।। न हीति ।। एवं सम्यग्ज्ञानमार्गानुष्ठानेनैव ज्ञानफलं प्राप्नोति चेत्तथापि कुतो ज्ञानिनः कर्मेति शङ्कायां नहि कर्म विना ज्ञानमार्गस्य सम्यगनुष्ठानं भवति । संपूर्णफलसाधनत्वाभावादिति परिहारो द्रष्टव्यः । अत्र स्मृतिसंमतिं चाह ।। निष्काममिति ।। अनेन कर्मिणां ज्ञानमुच्यते । बुध्येति ज्ञानिनां कर्म । मुक्तिरित्युभयम् ।
कर्मिणां ज्ञानसद्भावे हेत्वन्तरमाह ।। एतस्मादिति ।। गृहिणामपि ज्ञानसद्भावादेवेत्यर्थः । अनेन यत्सांख्यैरिति व्याख्यातं भवति । उभयोरपि ज्ञानकर्मसद्भावे कथमाश्रमभेद इत्यत आह ।। तस्मादिति ।। उभयोरप्युभयसद्भावस्य युक्तयादिसिद्धत्वादिति भावः । संकोचविकाससम्भवः
।। ४,५ ।।
किरणावली
अथासावधिकारभेदोपीति ।। यतीनां ज्ञानमात्रेऽधिकारो गृहिणां कर्ममात्रेऽधिकार इति प्रागुक्ताधिकारभेदोपीत्यर्थः । ज्ञानमार्गं वेत्यत्र वा शब्दादन्यतराश्रयणेप्युभयफलप्राप्तिर्भवतीति प्रतीयतेऽतो व्याचष्टे ।। ज्ञानमार्गमिति ।। एतेन वा शब्दश्च शब्दार्थेऽवधारणेच । तथा च ज्ञानमार्गं सम्यगास्थित एव ज्ञानफलं कर्ममार्गं च सम्यगास्थित एव कर्मफलमित्युभयोः क्लृप्तं फलं तत्तदनुष्ठाता प्राप्नोतीति मूलार्थ इत्युक्तं भवति । अन्यथा यत्साङ्ख्यैरित्युत्तरश्लोकस्य गतार्थता स्यादिति भावः ।।
उक्तोपसंह्रियत इति ।। पूर्वार्धेनोक्त्वोत्तरार्धेनोपसंह्रियत इत्यर्थः ।। ज्ञानकर्मणोरैक्यमिति ।। एकफलकत्वमित्यर्थः । ननु सम्यक्कर्मानुष्ठानेनैव कर्मी कर्मफलं प्राप्नोति चेत्तथापीति । चेच्छब्दो यद्यर्थे । तथापि तर्ह्यपीत्यर्थः । नहि ज्ञानं विना कर्मणः सम्यगनुष्ठानं भवतीत्युक्तार्थे निष्काममित्यस्य प्रमाणत्वेपि बुध्द्या विहिंसन्नित्यस्य ज्ञानिनामपि कर्मविधायकस्यानुपयोगमाशङ्क्य तदुपयोगायाह ।। एवं सम्यगित्यादिना ।। ननु ज्ञानिनो ज्ञानस्य सिद्धत्वात् कर्म विना सम्यक् तदनुष्ठानं न सम्भवतीति कथमुच्यते । अनुष्ठितस्यानुष्ठानायोगादित्यत आह ।। संपूर्णेति ।। मुक्तिसाधनमपि ज्ञानं कर्म विना आनन्दातिशयलक्षण संपूर्णफलसाधनं न भवतीत्यनुष्ठितमपि अननुष्ठित प्रायमेवेति भावः ।।
अत्र स्मृतिसंमतिं चाहेति ।। ज्ञानं विना केवलकर्मणः सम्यगनुष्ठानं न संभवति । मुख्यफलाभावात् । कर्मविना ज्ञानमात्रमानन्दातिशयसाधनं न भवत्यत उभयमवश्यमनुष्ठेयमित्युभयोः सम्यक्त्वोक्तयन्यथानुपपत्ति सिद्धार्थे स्मृतिसंमतिं चाहेत्यर्थः । बुद्ध्या विहिंसन्निति मूलस्य यतिः स्वयं पुष्पाण्यविहिंसन् तच्छेदमकुर्वन्बुद्ध्या प्राप्तैः मानसैः पुष्पैः अन्यानीतैर्वा पुष्पैः प्रणवेन मूलमन्त्रेण वा वासुदेवात्मकं ब्रह्म समर्चयेदित्यर्थः । कर्म ब्रह्मदृशाहीनं न मुख्यमित्यस्य ब्रह्मज्ञानरहितं काम्यं कर्म न मुख्यफलकमित्यर्थः । ब्रह्मापरोक्षज्ञानरहितं निवृत्तकर्मापि न साक्षान्मोक्षफलकमिति वार्थः । तस्मात् कर्मेत्यस्य तस्माज्ज्ञानपूर्वकत्वाभावेऽमुख्यत्वाद्यद्ब्रह्मदर्शिना कृतं तदेव कर्मेति प्राहुरित्यर्थः । यद्यस्माद्ब्रह्मदर्शिना कृतं तस्मात्कर्मेति प्राहुरिति वा । एतेन कर इति सकारान्तोऽदृष्टवाची क्रियावाचीच । तथा च क्रियत इतीदंकरो मात्रा ब्रह्मज्ञानिनेति कर्मेति निरुक्तं भवति ।। कर्मिणां ज्ञानसद्भावेहेत्वन्तरमिति ।। कर्मणः सम्यक्त्वोक्तयन्यथानुपपत्तिहेतुतः हेत्वन्तरमित्यर्थः ।। युक्तयादिसिद्धत्वादिति ।। चादिपदेन कर्मपदनिर्वचनसिद्धत्वादिति गृह्यते । केचित्स्मृतिसिद्धत्वादिति व्याचक्षते । व्यासस्मृतौ स्मृत्यन्तरस्यानुदाहृतत्वात् । सङ्कोचग्रहणं विकासोपलक्षणमित्याह ।। सङ्कोचविकासेति ।। ४,५ ।।
भावदीपः
ज्ञानमार्गमित्यादिना ।। अत्र स्मृतीति ।। ज्ञानं विना न कर्मणः सम्यगनुष्ठानं कर्मणा विना ज्ञानस्य संपूर्णफलसाधनत्वाभाव इत्यत्रेत्यर्थः । यद्वा ज्ञानकर्मणोरन्योन्यसाहित्येनैव सम्यक्त्वमित्यस्मिन्नर्थ इत्यर्थः ।। युक्तयादीति ।। उभाभ्यां संपाद्य ज्ञानकर्मणोः सम्यक्त्वान्यथानुपपत्तिरूपयुक्तिस्मृतिसिद्धत्वादित्यर्थः ।। ४५ ।।
भावप्रकाशः
ज्ञानकर्ममार्गयोरनन्यतरमास्थितोप्युभयफलं प्राप्नेतीति निरासायाह । ज्ञानमार्गमिति ।। अन्यथा यत्सांख्यैरित्युत्तरश्लोकस्य गतार्थता स्यादिति भावः ।।
ज्ञानिनोऽपि कर्मावश्यकमित्यर्थप्रतिपादक बुध्येति स्मृतेरुदाहरिष्यमाणत्वात्तदनुसारेणाह ।। एवं सम्यगिति ।। अत्रेति । ज्ञानिनः कर्म कर्मिणो ज्ञानं चावश्यकमित्यत्रेत्यर्थः ।। अहिंसन् पुष्पैरिति मूलस्य स्वयं पुष्पच्छेदमकृत्वा याचितैः पुष्पैरित्यर्थः । यत्याश्रमे कर्मसंकोचसम्भवेऽपि गृहस्थाश्रमस्य तदभावादाह । सङ्कोचविकाससम्भव इति ।। ४,५ ।।
वाक्यविवेकः
ननु कुरुपाण्डववदित्यत्र पाण्डववदित्त्येव वाच्यम् । न तु कुरुपाण्डववदितीत्यतोऽभिप्रायमाह यथा खल्विति । साक्षादैक्याभावादिति । मुख्यैक्याभावादित्यर्थः ।
अथासावधिकारभेदोपि न युज्यत इति । अधिकारयोः ज्ञानकर्माधिकारयोः भेदे भिन्नाश्रयत्त्वं सामानाधिकरण्याभाव इति यावत् । न युज्यत इत्यर्थः ।।
ज्ञानमार्गं कर्ममार्गं चेत्त्यस्य ज्ञानमार्गं सम्यगास्थितः उभयं फलं प्राप्नोति इत्यर्थः प्रतीयते तन्निरासाय व्याचष्टे । ज्ञानमार्गमिति । ज्ञानमार्गं सम्यक्कर्मसाहित्त्येनास्थितः एव ज्ञानपलं प्राप्नोति नान्यथा ।। एवं कर्ममार्गं सम्यक् ज्ञानसाहित्त्येनास्थित एव कर्मफलं प्राप्नोति नान्यथेत्यर्थः ।।
सम्यक्शब्दार्थमजानन् शङ्कते । ननु सम्यक्कर्मेति । अनेन कर्मणां ज्ञानमुच्यत इति निष्कामं ज्ञानं पूर्वंत्वित्विंति श्लोकेन कर्मिणां ज्ञानिनां कर्मोच्यत इत्यर्थः । बुध्येतीति ।। बुध्याऽविहिंसन्निति श्लोकेन ज्ञानिनां कर्मोच्यत इत्यर्थः । मुक्तिरित्युभयमिति । मुक्तिरस्तीति नियम इत्यादिना ज्ञानिनः कर्म कर्मिणो ज्ञानमुच्यत इत्यर्थः । अनेनेति ।। तस्मादिति श्लोकेन यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यत इत्यर्धो व्याख्यातो भवति ।। ४,५ ।।