भगवानुवाच
भगवानुवाच—
लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ ।
ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् ।। ३ ।।
न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते ।
न च संन्यसनादेव सिद्धिं समधिगच्छति ।। ४ ।।
तात्पर्यम्
ज्ञानप्रचुरो योगो ज्ञानयोगः । कर्मप्रचुरोऽन्यः ।
‘साङ्ख्या ज्ञानप्रधानत्वाद् देवाश्च यतयस्तथा ।
मुख्यसाङ्ख्यास्तत्र देवा ज्ञानमेषां महद् यतः ।
बहुकर्मकृतोऽप्येते ततोऽपि बहुवेदनात् ।
मुख्यसाङ्ख्या इति ज्ञेयास्तदन्ये कर्मयोगिनः ।
ज्ञानिनोऽप्यतिबाहुल्यात् कर्मणः कर्मयोगिनः ।
नोभयं तद् विना कश्चित् पुमान् हि पुरुषार्थभाक् ।
नहि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत् ।
न च ज्ञानं विना कर्म पुरुषार्थकरं भवेत्’ इति ब्रह्मवैवर्ते ।
निष्ठा पर्यवसितिर्मुक्तिः ।
‘ज्ञानिनो मोक्षनियमस्तथाऽपि शुभकर्मणा ।
आनन्दवृद्धिरन्येन ह्रासो ज्ञानं तु कर्मणा’ इति परमश्रुतेः ।
‘न कर्मणा न प्रजया धनेन’ इत्यादिविरोधो न । अन्यथा ‘न कर्मणामनारम्भात्’ इत्याद्युभयसमवाक्यशेषविरोधश्च । समत्वं च ‘नहि कश्चित्’ इत्यादेः । ‘नान्यः पन्थाः’ इत्यपि ज्ञानमृते न मोक्ष इत्येवाऽह ।। ३ ।।
‘देवादीनामादिराज्ञां महोद्योगेऽपि नो मनः ।
विष्णोश्चलति तद्भोगोऽप्यतीव हरितोषणः’ इति पाद्मे ।। ४ ।।
प्रकाशिका
एतत्परिहारत्वेन यद्भगवद्वचनं लोक इति ।। तदर्थमाह ।। ज्ञानप्रचुर इत्यादिना ।। ज्यायस्त्वेऽपि बुद्धियोगस्य कर्मणः करणं युक्तम् । ज्ञानफलेऽतिशयजनकत्वात् । तदुक्तम् । श्रुत्या ज्ञानिनो मोक्षनियम इति । ज्ञानं कर्मणेत्यस्य ज्ञानोत्पत्तिः कर्मणैवेत्यर्थः ।। ‘‘न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशु’’रिति श्रुतिः । केवलं कर्मणा अमृतत्वं न प्राप्यत इत्येतदभिप्रायेणोपपाद्य ‘‘तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यत’’ इति श्रुतेरपि ज्ञानं परित्यज्य मोक्षं गन्तुं अन्यत्साधनं नास्तीत्यर्थः । न तु मत्यतिशयजनकं कर्म न कर्तव्यमिति । अतो ‘‘ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिना’’मित्यस्यायमर्थः ।। ज्ञानप्रचुरेण कर्मणा साङ्ख्यानां मुक्तिः । कर्मप्रचुरेण ज्ञानेन कर्मयोगिनां मुक्तिरिति । न तु साङ्ख्यानां कर्मरहितज्ञानेन मुक्तिरिति । ‘‘न कर्मणामनारम्भादि’’त्यादिवाक्यशेषेण साङ्ख्यकर्मयोगिसाधारणेन विरोधः स्यात् । साधारण्यं चास्य ‘‘नहि कश्चित्क्षणमि’’त्युपरितनवाक्यादवगम्यते ।। ३,४ ।।
न्यायदीपिका
लोके स्मिन्निति परिहारवाक्ये केषाञ्चिदधिकारिणां ज्ञानमेव केषाञ्चित्कर्मैवानुष्ठेयमुच्यत इत्यन्यथाप्रतीतिनिरासायाह ।। ज्ञानेति ।। नात्र ज्ञानयोगपदेन ज्ञानमात्रं विवक्षितं कर्मयोगपदेन च कर्ममात्रमुच्यते । किन्तु प्रत्येकमुभयम् । तर्ह्युभावपि ज्ञानकर्मयोगाविति वक्तव्यौ । कथं कश्चिज्ज्ञानयोगः कश्चित्कर्मयोग उच्यत इति चेन्न । एकैकत्र ज्ञानकर्मणोः प्राचुर्याभिप्रायेणाल्पजलमिश्रेपि क्षीरे क्षीरशब्दप्रयोगवत्प्रयोगोपपत्तेरिति भावः । साङ्ख्यानां ज्ञानमेव योगिनां कर्मैवेति प्रतीत एवार्थः किं न स्यादिति चेत्तथाङ्गीकारे स्मृतिविरोधः स्यादिति भावेनाह ।। साङ्ख्या इति ।। देवानां बहुकर्मसद्भावात्कथं मुख्यसाङ्ख्यत्वमित्यत आह ।। बह्विति ।। ततोऽपि कर्मणोऽपि । गृहस्थादीनामपि किं केवलकर्मैवेत्यपेक्षायामाह ।। ज्ञानिनोऽपीति ।। तर्हि कथं कर्मयोगिन इत्यत आह ।। अतीति ।। साङ्ख्यानां केवलं ज्ञानमेव योगिनां केवलं कर्मैवेति किं न स्यादित्यत आह ।। नोभयमिति ।। साङ्ख्यानां ज्ञानेन योगिनां कर्मणा पुरुषार्थो भवतीति श्रुत्यादौ श्रूयते । नचैकैकेन पुरुषार्थो युज्यते । अतो नैकैकग्रहणं युक्तमिति भावः । कर्माभावे कुतो न पुरुषार्थ इति चेत्किं कर्मपदेन कर्ममात्रं विवक्ष्यते अथ यज्ञादिकर्म वा । आद्यं दूषयति ।। नहीति ।। द्वितीयं दूषयति ।। नचेति ।। ज्ञानमात्रं कर्म विना संसारनिवृत्तिसाधनमपि न संपूर्णपुरुषार्थकरमिति भावः । तर्ह्यस्तु केवलं कर्मैव पुरुषार्थकरमित्यत आह ।। नचेति ।। न कर्मणा न प्रजयेत्यादिश्रुतिविरोधादिति भावः । अनेन नकर्मणामनारम्भादित्यादेश्च तात्पर्यमुक्तं भवति । भवेदत्र ज्ञानकर्मणोः समुच्चयकल्पनं यद्यत्र साङ्ख्ययोगादेः पुरुषार्थहेतुत्वमुच्येत । एकैकस्य पुरुषार्थसाधनत्वाभावोक्तेः । न च तदत्रोच्यत इत्यत आह ।। निष्ठेति ।। ष्ठागतिनिवृत्तावित्यतो निष्ठा पर्यवसितिः । गतेरिति शेषः । कथमनेन चोद्यपरिहार इत्यत आह ।। मुक्तिरिति ।। अत्र निष्ठापदेन गतिपर्यवसितिवाचिना संसारगतिपर्यवसानं मुक्तिरभिप्रेतेत्यर्थः ।
नन्वेवं ज्ञानकर्मभ्यां मोक्ष इत्यङ्गीकारे न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुरित्यादिश्रुतिविरोधः स्यादित्यत आह ।। ज्ञानिन इति ।। ज्ञानकर्मभ्यां मोक्षसिद्ध्यङ्गीकारेऽपि नैतच्छुतिविरोधः । कर्मरहितज्ञानमात्रस्य मोक्षसाधनत्वाभिधानात् । अस्माभिरपि तदङ्गीकारात् । कर्मणस्तु ज्ञानमात्रेणैव सिद्धे मोक्षे सुखाधिक्यहेतुत्वेनाङ्गीकारात् । ज्ञानादेव मोक्षः कर्मणा आनन्दवृद्धिरित्येतत्कुत इति चेत् ज्ञानिन इति श्रुतेरेवेति भावः । इतश्च ज्ञानयोगेनेत्यत्र कर्मापि संयोज्यं न ज्ञानमात्रमित्याह ।। अन्यथेति ।। अन्यथा ज्ञानमात्रेणैव पुरुषार्थाङ्गीकारे । कर्मयोगिनामपि प्रकृतत्वात्तेषां कर्मानारम्भे पुरुषार्थासम्भवाभिधायकमेतद्वाक्यं किं न स्यादित्यत उक्तम् ।। उभयेति ।। न केवलमेतत्कर्म योगि विषयमपितु उभयविषयमित्यर्थः । कुतोऽस्योभयविषयत्वं ज्ञायत इत्यत आह ।। समत्वं चेति ।। मोक्षे कर्मणा आनन्दवृद्धिर्भवतीत्युक्तम् । नान्यःपन्था इति श्रुतौ कर्मणो मोक्षसम्बन्धस्यैव निराकरणादित्यत आह ।। नान्य इति ।। ज्ञानायोगमेवेयं श्रुतिर्व्यवच्छिनत्ति न तु कर्मसम्बन्धं निराकरोति । तथात्वे ज्ञानिनो मोक्षनियम इति श्रुतिविरोधादिति भावः ।। ३,४ ।।
किरणावली
साङ्ख्यानां केवलं ज्ञानमेवेति ।। यद्यपि सांख्यानां ज्ञानमेवेति पूर्वमियमाशङ्का कृता तथापि सा भाष्यकारं प्रति । इदानीं पुराणकारं प्रतीत्यपौनरुक्तयम् । नोभयं तद्विनेति निषेधस्य प्रसक्तिपूर्वकत्वावश्यंभावात्प्रसक्तिमाह ।। साङ्ख्यानामिति ।। तरति शोकमात्मवित् । अपाम सोमममृता अभूम । त्यागेनैके अमृतत्वमानशुरिति श्रुतौ ज्ञानयोगेन साङ्ख्यानामिति स्मृतौ चेत्यर्थः ।। कर्माभावे कुतो न पुरुषार्थ इति ।। ज्ञानेनैव पुरुषार्थोपपत्तौ ज्ञानिनां कर्मैवानुपपन्नमिति भावः ।। आद्यमिति ।। कर्ममात्राभावो न सम्भवतीति भावः । कर्म विना ज्ञानं पुरुषार्थकरं न भवेदित्ययुक्तम् । ज्ञानमात्रस्य संसारनिवर्तकत्वात् निजसुखानुभवहेतुत्वाच्चेत्यत आह ।। ज्ञानमात्रमिति ।। संसारनिवृत्तिसाधनमित्युपलक्षणं बहुतरस्वरूपसुखाभिव्यञ्जकमित्यपि द्रष्टव्यम् । ज्ञानं विनातु कर्म पुरुषार्थं करमेवनभवेदिति योजनामभिप्रेत्यावतारयति ।। तर्हीति ।। न कर्मणामनारम्भादित्यादेरिति ।। इत्यादेः सार्धश्लोकस्येत्यर्थः ।। भवेदत्रेति ।। यद्यत्र श्लोके साङ्ख्ययोगस्य ज्ञानयोगस्यादिपदेन कर्मयोगस्य पुरुषार्थसाधनत्वमुच्येत तर्हि नोभयं तद्विनेत्यादिप्रमाणमनुसृत्यात्र विशिष्टमोक्षार्थं ज्ञानकर्मसमुच्चय कल्पनं भवेन्न च तज्ज्ञानकर्मणोः पुरुषार्थहेतुत्वमुच्यते दूरे समुच्चयकल्पनमिति भावः । न केवलं पुरुषार्थसाधनत्वानुक्तिमात्रं प्रत्युतास्मिन् श्लोके संसारे ज्ञानेन साङ्ख्यानां कर्मणा योगिनां निष्ठा स्थितिरेव न मुक्तिरित्येकैकस्य ज्ञानस्य कर्मणो वा पुरुषार्थसाधनत्वाभावोक्तेर्दूरे समुच्चयकल्पनमित्याह ।। एकैकस्येति ।।
श्रुतिविरोधः स्यादिति ।। तत्र कर्मादीनां मोक्षसाधनत्वं निषिध्य त्यागेनैकेन अमृतत्वमानशुरिति मिथ्याभिमानविरतिस्त्याग इत्युच्यत इति वचनात् मिथ्याभिमानत्यागेन मोक्षोक्तेस्तत्त्यागस्य च सम्यक् ज्ञानं विनाऽयोगात् सम्यक् ज्ञानेनैव मोक्षोक्तेरित्यर्थः । यद्वा काम्यकर्मत्यागेनेत्यर्थः । ज्ञानोपलक्षणमेतत् । अन्यथेत्यनूद्य व्याचष्टे ।। अन्यथेति ।। कर्मयोगिनामपीति ।। कर्मयोगेन योगिनामिति प्रकृतत्वादित्यर्थः । समत्वं च नहि कश्चिदित्यादेरिति मूले समत्वमित्यस्य न कर्मणामनारम्भान्नैष्कर्म्यमिति वाक्यशेषस्य कर्मयोगिविषयत्ववज्ज्ञानयोगिविषयत्वमपीत्युभयसमत्वं चेत्यर्थः । नहि कश्चिदित्यादेरित्यादिपदेन कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् । इन्द्रियार्थानित्यादेः सङ्ग्रहः । तथा च न हि कश्चिदित्यत्र ज्ञानिनां शरीरयात्राद्यर्थानि कर्माणि नेत्युक्तं शक्यानीत्युक्त्वा कर्मेन्द्रियाणीत्यादौ यज्ञादिकर्मणामत्याज्यत्वोक्तेरिति भावः ।। ज्ञानायोगमेवेयं श्रुतिर्व्यवच्छिनत्तीति ।। संसारनिवृत्तिलक्षणमोक्षविवक्षया नान्यः पन्था इति श्रुतेरन्ययोगव्यवच्छेदकत्वं विद्यैव तु निर्धारणादित्यत्रोक्तम् । विशिष्टमोक्षविवक्षयाऽयोगव्यवच्छेदकत्वमत्रोक्तमित्यविरोधः ।। ३,४ ।।
भावदीपः
नोभयं विनेत्यादि निषेधस्य प्रसक्तिमाह ।। साङ्ख्यानां ज्ञानेनेति ।। तरति शोकमात्मवित् अपाम सोमममृता अभूमेत्यादिश्रुतौ ज्ञानयोगेन साङ्ख्यानामित्यादिस्मृतौ चेत्यर्थः ।। न हीतीति ।। कर्ममात्राभावोऽसम्भवीति भावः ।। न संपूर्णेति ।। मुक्तौ स्वयोग्ययावदानन्दानुभवरूपेत्यर्थः । तस्य ज्ञानोत्तरकर्मसचिवज्ञानसाध्यत्वादिति भावः । तदेव वाक्यमन्यथाऽपि योजयति ।। तर्ह्यस्त्विति ।। अनेनेति ।। न च ज्ञानं विनेत्यादिकथनेनेत्यर्थः । अस्मिंल्लोके संसारे ज्ञानेन साङ्ख्यानां कर्मणा योगिनां निष्ठा नितरां स्थितिर्न तु मुक्तिरिति भ्रान्तः शङ्कते ।। भवेदत्रेत्यादिना ।। न च तदत्रेति ।। समुच्चयस्य पुरुषार्थहेतुत्वमित्यर्थः ।। चोद्येति ।। भवेदित्यादिना कृतचोद्येत्यर्थः ।। ३४ ।।
भावप्रकाशः
साङ्ख्यानां केवलं ज्ञानमेव योगिनां केवलं कर्मैवेति किं नस्यादिति । पूर्वं तु भाष्यकारं प्रति इदानीं पुराणकारं प्रतीयं शङ्केति न पौनरुक्तयमिति भावः । कर्म विना ज्ञानं पुरुषार्थकरं न भवेदिति योजनामभिप्रेत्याह । ज्ञानमात्रं कर्म विनेति ।। इदानीं कर्म ज्ञानं विना पुरुषार्थकरं नेति योजनां मनसि निधायावतारयति ।। तर्हीति । अनेन न कर्मणामित्यादेरिति । न कर्मणामनारंभादिति सार्धश्लोकस्येत्यर्थः ।। साङ्ख्ययोगादेरिति साङ्ख्ययोगो ज्ञानयोगः । आदिपदेन कर्मयोगग्रहणम् ।
नन्वत्र साङ्ख्ययोगादेः पुरुषार्थहेतुत्वोक्तावपि समुच्चयकल्पनं कुतः एकैकस्यैव पुरुषार्थसाधनत्वं किन्न स्यादित्यत आह । एकैकस्येति । एकैकस्य विशिष्टपुरुषार्थसाधनत्वाभावस्य ज्ञानिनो मोक्षनियम इत्यनेनोक्तत्वादित्यर्थः ।। न च तदत्रोच्यत इति । साङ्ख्ययोगादेः पुरुषार्थहेतुत्वमत्र लोकेस्मिन्निति श्लोके नोच्यते । पुरुषार्थवाचकपदाभावादिति भावः । नकर्मणेति । एके केचिदपि कर्मणाऽमृतत्वं मुक्तत्वं नापुः । तथा प्रजया धनेन च नापुः किन्तु त्यागेन कर्मत्यागेन तदुपलक्षितज्ञानेनेत्यर्थः ।। अमृतत्वमापुरिति श्रुत्यर्थः । मोक्षसाधनत्वाभिधानादिति । अवशिष्टमोक्षसाधनत्वाभिधानादित्यर्थः ।। तर्हि कर्माङ्गीकारो व्यर्थ इत्यत आह । कर्मणस्त्विति ।। ३४ ।।
वाक्यविवेकः
साङ्ख्यानां ज्ञानमेव योगिनां कर्मैवेति प्रतीत एवार्थः किंनस्यादिति चेत् । तथाऽङ्गीकारे स्मृतिविरोध इत्युक्तम् । तमेव विरोधं दर्शयितुं स्मृतिगतशङ्काविरोध्यंशमवतारयति । साङ्ख्यानामिति । मूले नोभयमिति । तत् पुरुषार्थसाधनत्त्वेन श्रुत्यादिप्रसिद्धमुभयं ज्ञानं कर्मचेत्युभयं विना कश्चिदपि पुमान् पुरुषार्थभाक् न भवेदित्येतद्धि प्रमाणप्रसिद्धमित्यर्थः । किं कर्मपदेनेति । अभावप्रतियोगिसमर्पकेण कर्मपदेनेत्यर्थः । किं सर्वकर्माभावे मोक्ष इत्युच्यते उत यज्ञादिकर्माभाव इत्युच्यत इति भावः । इत्यत आहेति । इत्यतश्च आहेत्यर्थः ।
ज्ञानयोगेन साङ्ख्यानामित्यस्य पूर्वोक्तमर्थमाक्षिपति । भवेदत्रेति । यदि अत्र लोकेऽस्मिन् द्विधा निष्टेत्यत्र ज्ञानयोगकर्मयोगयोः पुरुषार्थसधनत्वमुच्यते । तर्हि न च ज्ञानं विना कर्म पुरुषार्थकरं भवेदित्यनेन केवलज्ञानस्य केवलकर्मणश्च पुरुषार्थसाधनत्त्वाभावोक्तेरत्र ज्ञानयोगेन साङ्ख्यानामित्यत्र ज्ञानयोगशब्देन कर्मयोगशब्देन च प्रत्येकं ज्ञानकर्मणोः समुच्चयस्य प्रतिपाद्यत्त्वकल्पनं भवेत् । न चैतत् ज्ञानकर्मणोः पुरुषार्थ साधनत्त्वं अत्र लोकेऽस्मिन् द्विविधानिष्टेत्यत्रोच्यते । पुरुषार्थवाचकपदाभावात् निष्टाशब्दस्य स्थितिवाक्यत्वेन पुरुषार्थवाचकत्त्वाभावादिति भावः । मोक्षसाधनत्वाभिधानादिति । अर्थात् ज्ञानस्येव मोक्षसाधनत्वमनेन लभ्यत इति भावः ।। ३४ ।।