तात्पर्यम्

तात्पर्यम्

सर्वशाखान्ते भेदोक्तेश्चैतदेव युक्तम् ।

नासंवत्सरवासिने प्रब्रूयात् नाप्रवक्त्र इत्याचार्या आचार्याः’ ।

अहं विश्वं भुवनमभ्यभवाम्’ ।

अनन्ते स्वर्गे लोके ज्येये प्रतितिष्ठति प्रतितिष्ठति ब्रह्मविदो विदुः’ ।

नमो विष्णवे महते करोमि’ । ‘पश्यन्त्यात्मन्यवस्थिताम्’ इत्यादि ।

नचेश्वरस्तद्भेदो वा प्रत्यक्षादिसिद्धः ।

प्रकाशिका

सर्वशाखासमाप्तिषूक्तत्वाद्भेद एव विज्ञायते । नानूद्यत इत्येतद्विधातुमाह ।। सर्वशाखेति ।। प्रत्यक्षादिसिद्धस्य भेदस्य श्रुत्यनूद्यत्वं किं न स्यादित्यत आह ।। नचेश्वर इति ।। जीवेश्वरभेदस्य प्रत्यक्षाद्यवेद्यत्वान्न तत्सिद्धभेदानुवादित्वं श्रुतेरित्यर्थः ।।

न्यायदीपिका

इतश्च निषेधायायं प्रपञ्चस्य परमात्मातिरिक्ततया सद्भावानुवादो नभवतीत्येतदेवयुक्तमित्याह ।। सर्वेति ।। अनुवादो भवन् शाखादावेव भवेत् । तदंतेतु निषेधः । न चात्र तदस्ति भेदस्यैव शाखान्तेषूक्तत्वात् । अतोपि न भेदस्य निषेधाय श्रुतावनुवाद इत्यर्थः । शाखान्तेषु कास्ता भेदोक्तय इत्यत आह ।। नेति ।।

यदुक्तमभेदानुवादेन भेदोपदेशः स्यादिति न तद्युज्यते । अभेदस्य श्रुतिं विनाऽप्राप्तत्वात् । किं नामेशेशितव्यादिप्रपञ्चस्य परमात्मभिन्नतयानुवादेन तन्निषेध एव युक्तः । ईशेशितव्यादिप्रपञ्चस्य परमात्मभिन्नतायाः प्रत्यक्षादिप्राप्तत्वादित्यत आह ।। न चेति ।। अत्रेश्वरपदेन परमात्मोच्यते ।। परमात्मन एव प्रत्यक्षाद्यसिद्धत्वेन तत्प्रतियोगिकईशेशितव्यादिप्रपञ्चस्य भेदः सुतरां प्रत्यक्षाद्यसिद्धः । यदुच्यते श्रुतिसिद्धं परमात्मानं प्रतियोगीकृत्य प्रपञ्चस्य भेदः प्रत्यक्षादिना गृह्यत इति तन्न । तथा सति प्रपञ्चभिन्नतया श्रुतावपि परमात्मनिरूपणप्रसङ्गात् । अन्यथा प्रत्यक्षादिनापि तद्भेदस्य विषयीकर्तुमशक्यत्वात् । तथाचोन्मत्तवाक्यमेवेति भावः । ईश्वरस्यैव प्रत्यक्षादिनाऽसिद्धेरीशेशितव्यस्य च तदाकारेणासिद्धेः परमात्मनः सकाशादीश्वरादिरूपप्रपञ्चस्य भेदः सुतरां तेनासिद्ध इति वा ।

किरणावली

नचेश्वरस्तद्भेदोवेत्यत्रेश्वरः तन्निष्ठभेदोवेत्यर्थो न युक्तः । परेण शुद्धप्रतियोगिकस्येश्वरेशितव्यादिभेदस्य प्रत्यक्षप्राप्तेरुक्तत्वेन तदनुसारेण न चेश्वरादिस्तद्भेदोवेति वक्तव्यत्वात् । ईश्वरपदस्य प्रपञ्चोपलक्षकत्वे तस्य प्रत्यक्षादिसिद्धत्वेन निषेधायोग इत्यत आह ।। अत्रेश्वरपदेनेति ।। यदुच्यते श्रुतिसिद्धमित्यादि ।। भेदप्रत्यक्षे प्रतियोगिज्ञानमपेक्षितं नतु प्रत्यक्षम् । अन्यथा स्तम्भःपिशाचो न भवतीति प्रतीतिर्नस्यादिति भावः ।। तथासतीति ।। श्रुतिसिद्धस्य परमात्मनःप्रतियोगितया स्वीकार इत्यर्थः ।। अन्यथेति ।। प्रपञ्चभिन्नतया श्रुतावनिरूपणे प्रतियोगित्वस्यैव दुर्ज्ञानत्वात्तस्मात्प्रपञ्चो भिन्न इति तत्प्रतियोगिकभेदस्य विषयीकर्तुमशक्यत्वादित्यर्थः । नचेश्वरस्तद्भेदो वेत्यत्रेश्वरपदं सगुणपरमेवास्तु । तच्चेशितव्योपलक्षकम् । तद्भेद इति तद्धर्मिको भेदो विवक्षित इति मत्त्वा ईशितव्यस्या प्रत्यक्षत्वमुपपादयन् प्रकारान्तरेण व्याचष्टे ।। ईश्वरस्यैवेति ।। तदाकारेणेति ।। ईशेशितव्यत्वाकारेणेत्यर्थः । ईशेशितव्यत्वस्य प्रत्यक्षाद्यवेद्येश घटितत्वादिति भावः ।।

भावप्रकाशः

भेदस्यैव शाखान्तेप्युक्तत्वादिति । नासंवत्सरवासिन इत्यत्र अप्रवक्त्रे व्याख्यानशक्तिरहिताय न प्रब्रूयादिति गुरुशिष्ययोर्भेदः प्रतीयते ।। एवमहं विश्वं भुवनमित्यादावपि भेदोक्तित्वं द्रष्टव्यम् ।। अत्रेश्वरपदस्येशितव्यादिप्रपञ्चस्येत्युक्त्येशप्रतियोगिकभेद एवेशितव्ये प्रत्यक्षाद्यसिद्ध इति सिध्येत् ।। न तु परमात्मप्रतियोगिकभेदस्य प्रत्यक्षाद्यसिद्धिरित्यतस्तदन्यथा व्याचष्टे ।। अत्रेश्वरपदेनेति ।। तथा सतीति ।। श्रुतिसिद्धपरमात्मनः प्रतियोगिकत्वेस्वरूपमात्रेण श्रुतिसिद्धत्वाभावात्सार्वज्ञादिभेदकधर्मविशिष्टतया श्रुतौ परमात्मनो निरूपणं प्रसज्यतेत्यर्थः ।।

अन्यथेति भेदकधर्मविशिष्टतया श्रुतिषु निरूपणाभाव इत्यर्थः ।। अथवा इश्वरपदमीश्वरस्यैव वाचकं तेन चेशितव्योपलक्षणं तद्भेद इत्यनेन तु तद्धर्मिको भेदो विवक्षित इत्याह । इश्वरस्यैवेति तदाकारेणेति । इशितव्यत्वाकारेणेत्यर्थः ।। इशितव्यत्वस्य प्रत्यक्षाद्यविषयेशघटितत्वादिति भावः ।

वाक्यविवेकः

अविद्यमानमेवेश्वरमिति मूले इश्वरशब्देन शबलब्रह्मणो ग्रहीतत्वात् अत्रापि तस्यैव ग्रहणमिति भ्रमनिरासायाह । अत्रेश्वरपदेनेति । नन्वीश्वरस्तद्भेदोवा प्रत्यक्षादिसिद्ध इति वाक्यस्य न चेश्वरः प्रत्यक्षादिसिद्धः । ततश्च तत्प्रतियोगिको जगन्निष्टो भेदश्च न प्रत्यक्षादिसिद्धः प्रतियोगिज्ञानाभावात् इत्यर्थ इत्यभिप्रेत्याह ।। परमात्मन एवेति ।

अस्य वाक्यस्य शबलं ब्रह्म तद्भेदः । तेन भिन्नतया सृष्टः प्रपञ्चः न प्रत्यक्षादिसिद्धः । ततश्च तस्य इशेशितव्यस्य परमेश्वरभेदो न प्रत्यक्षादिसिद्धः । प्रत्यक्षादेश्च ग्राह्य एव भेदग्राहकत्वात् इत्यर्थमभिप्रेत्याह । इश्वरस्यैवेति । ईश्वरस्य रूपेण प्रत्यक्षाद्यसिद्धत्वात् ईशितव्यघटादेः प्रत्यक्षादिसिद्धत्वेऽपि सर्वस्य प्रत्यक्षाद्यसिद्धत्वात् यत् घटादिकं प्रत्यक्षादिसिद्धं तस्यापि ईशितव्यत्वेन प्रकारेण प्रत्यक्षाद्यसिद्धत्वात् इशः ईशितव्यं च न परमात्येवप्रकारेण भेदज्ञानं न प्रत्यक्षेणोदितेति भावः ।